[^५५]
सनत्कुमार उत्राच
तस्मिन्बले तथा[^१] तेन सोमेनाप्रतिमौजसा ।
हन्यमाने महामाय: समाश्वस्य तदासुरः ॥१॥
हिरण्याक्षो दितेः पुत्र इदमाह रुषान्वितः ।
गरुत्मतः सुतं वीरं रथयन्तारमाहवे[^२] ॥२॥
खगेश्वर न ते लज्जा भवतीह रणार्णवे ।
यन्माम्[^४] रथेन सङ्ग्रामात्[^५] त्वं हरस्यन्यतोद्य[^६] वै ॥३॥
किं वक्ष्यन्त्यसुराः सर्वे दैत्याश्चैव महाबलाः ।
राजास्माकं जित: सङ्ख्ये शत्रुभिः शत्रुतापनः ॥४॥
जीवितैषी परित्यज्य बालानस्मान् ढुरात्मवान्[^७] ।
रणादपगतः क्वापि धिङ् मामशुभकारिणम् ॥५॥
कश्यपस्य सुतो भूत्वा भ्राता दैत्यस्य सम्मतः[^९] ॥
हिरण्यकशिपोर्दैत्यो[^१०] महायोगबलान्वितः[^११] ॥ १ ॥६॥
अग्रतः[^१२] सर्वदैत्यानां दानवानां तथैव च ।
राजा स्वामी च शूरश्च[^१३] निर्जितः शत्रुभिः कथम् ॥७॥
अथवा देवपक्षस्य त्वं पुत्रो वै गरुत्मतः ।
तमेव पक्षं भजसे न मां त्वं परिरक्षसे ।८।
नाहं तव न शक्तोद्य शिरः कायात् सकुण्डलम् ।
खङ्गेनानेन तीक्ष्णेन छेत्तुं खगकुलाधम ॥९॥
तदा - घ ॥ २ …मब्रवीत - ख. ॥ ३ रणान्तरे - घ. ॥ ४ त्वं या (मां?) - ख. ॥ ५ सङ्ग्रामे - ख. । ६ वह्5थन्यतोद्य - घ. ॥ ७ दुरात्मनाम - ख., दुरात्मनः (? ) ॥ ८ .. दुपगत: - ख , .. दद्य - घ. ॥ ९ … सन्तम - घ. । १० हिरण्यकशिपुर्दैत्यो - ख । ११ महामायो बलान्वितः - ख. ॥ १२ अग्रणी (?) । १३ वृद्धश्च - ख. ।
मित्रं त्वं मम मन्दस्य पुरा बालसखेति च[^१४] ॥
अतः कृत्वाभिरक्षामि[^१५] गच्छ मुक्तोसि दोषवान् ॥8.91.१०॥
तस्य तद्वचनं श्रुत्वा रथयन्ता खगेश्वरः ॥
उवाच श्लक्ष्णया वाचा हिरण्याक्षं महासुरम् ॥११॥
मा क्रुधो दानवश्रेष्ठ[^१६] नास्मि दैत्य तवाहितः ।
तदोपवाहितः[^१७] क्षिप्रं रणाद् रक्षार्थमेव हि ॥१२॥
सूताः शास्त्रविदश्चैव ब्रुवते दानवेश्वर ।
दम्पती रथियन्तारौ परस्परमनुव्रतौ ॥१३॥
रथिना शस्त्रघातेभ्यो रक्ष्यो यन्ता यथा प्रिया ।
तेन चैव रथो रक्ष्यो यथा भर्त्ता जयावहः ॥१४॥
स भवान् रिपुणा भिन्नो ह्यवबद्धश्च संयुगे ।
अशक्तः स्यादितीत्येवं मया क्षिप्रमपोहितः[^१८] ॥१५॥
आाश्वस्य बलमाधाय[^१९] पुनर्युद्धेन दंशितः ।
रिपूञ्जेष्यसि सङ्ग्रामे त्वेवं त्वमपवाहित:२० ॥१६॥
ये हि कालेपयान्ति स्म काले चायान्ति दंशिताः ।
तेषान्नासुलभो[^२१] दैत्य जयो युद्धे महात्मनाम् ॥१७॥
न चाहमहित: सत्यं हितकृत् तव नित्यदा ।
मा शङ्कां कुरु दैत्येन्द्र शपे सत्येन सर्वतः ॥१८॥
न चाप्यविदितं तेद्य[^२२] कृतो यत् शपथः[^२३] पुरा ।
तथैवामृतपश्चाहं न मृत्युर्मम विद्यते[^२४] ॥१९॥
अहं गरुत्मतः पुत्रो देवान् हित्वासुरान् श्रितः ।
तवैव दैत्य स्नेहेन मा शङ्कां त्वं कृथा मयि ॥8.91.२०॥
एतद्बलं चन्द्रमसा वह्निना चोपपीडितम्[^२५] ।
त्राहि क्षिप्रं महाबाहो[^२६] न शोकं कर्तुमर्हसि ॥२१॥
बालः सखेति च - घ. ॥ १५ कृतभिरक्षस्त्वं (? ) ॥ १६ नात्र लज्जा दानवेश - घ. ॥ १७ तन्नोपवाहितः - ख.। १८ क्षिप्र प्रवाहितः - ख. ॥ १९ … मादाय - ख. ॥ २० …त्येवं - ख., त्वमेवमपवाहितः (?) । २१ तेषान्न सुलभो - ख. ॥ २२ न चैव त (त्व) द्भीतो वाक्यै - ख. ॥ २३ मे कृतं शपथं - घ., कृतोहमप (म)रः –ख. २४ यतोहममृतं प्राप्य (श्य) चामरत्वमवाप्तवान - घ ॥ २५ चोपपीडिताः - ख. ॥ २६ महामोहौ - ख. ॥
मायामथ समास्थाय धनुषा वा बलेन वा ।
जहि शत्रून्महाराज[^२७] मा[^२८] रुषन्तु दितेः सुताः ॥२२॥
सनत्कुमार उवाच
ततः स तं[^२९] परिष्वज्य पक्षिराजं महासुरः ।
अभिदुद्राव वेगेन रथेनाम्बुदनादिना ।२३॥
तस्यापतत एवाथ सवह्निश्चन्द्रमास्तथा ।
शरैराशीविषाकारैर्ध्वजं चिच्छिदतुर्युधि ॥२४॥
ततो ललाटे विद्ध्वैनं तौ देवौ शशिपावकौ ।
युगान्ताम्बुदवद् व्यास नादमुच्चैः प्रचक्रतुः ॥२५॥
तयोस्तल्लाघवं दृष्ट्वा हिरण्याक्षः प्रतापवान् ।
आग्नेयेनास्त्रमुख्येन शिशिरं[^३०] तद् व्यशातयत् ॥२६॥
तुषारवर्षणं दग्ध्वा ततोसौ मायया पुनः ।
सम्मोहयित्वा वेगेन राहुर्भूत्वाभिदुद्रुवे[^३१] ॥२७॥
स राहुणा तदा तेन ग्रस्यमानः खगेश्वरः ।
रणं त्यक्त्वान्यतो यातस्ततो देत्यो ननाद ह ॥२८॥
दानवा ह्यपि ते[^३२] सर्वे नष्टे तस्मिन् हिमाशये ।
समाश्वस्य पुनश्चक्रुर्युद्धं सुरगणैः सह ।
तेम्बुदाशनिसन्नादाः समुद्रसमनादिताः ।२९॥
दैत्यदानवमहारथाः प्रवरसादिन आश्वसन्तः ।
-
- तनेव युद्धकाङ्क्षिणो दंष्ट्रिण इव महागजा वनसमाश्रिताः ॥8.91.३०॥
इति स्कन्दपुराणे युद्ध एकनवतितमोध्यायः