०९०

मुद्धतं - ख , …मुद्धृतं - घ , … मुद्यतं (?) ॥ ५८ विभूषितात् - (?) ॥ ५९ यथाशनिसमुल्बणं - घ. । ६० सर्वे - ख. ॥ ६१ विपलायन्ति - ख. ॥ ६२ सङ्क्रुद्धै - ख. ॥ ६३ प्रविदारणातुरं - ख. । ६४ पुनर्विलोलितं - ख. ।
सनत्कुमार उवाच
तद्देवसैन्यं सन्दृश्य दैत्यदानवयूथपैः[^१] ।
वध्यमानं भृशं व्यास व्याघैरिव मृगान् वने ॥१॥

तिमिरारिर्महातेजाः सोमः प्रहरतां वरः ।
तिग्मवर्ष्मा सुशीतार्च्चिः स्वयं पवनसारथिः ॥२॥

तौ बद्धकवचौ सम्यक् शरासनधरावुभौ ।
बद्धगोधाङ्गुलित्रौ च तथा बद्धेषुधी च तौ ।३॥

सखङ्गौ च सघण्टौ च[^२] सपताकौ गजाविव ।
उभौ वीरौ महावीयौ योद्धुं दैत्यान् व्यवस्थितौ ॥४॥

सोमस्तु दशभिस्तीक्ष्णैः सायकैर्मर्मभेदिभिः ।
विव्याध हृदये दैत्यं हिरण्याक्षं महासुरम् ॥५॥

स भिन्नहृदयो दैत्यः सोमेन दृढमुद्धतः ।
मोहं समाविशद् व्यास क्रौञ्चः शक्त्येव पर्वतः ॥६॥

तं तथाभिसमीक्ष्यैव रथं यन्ता[^४] सहासुरम्[^५] ।
अपोवाह महामायं धनेशं निधयो यथा ॥७॥

ततो हाहाकृतं दैत्यैर्दैवतैः साधुसाध्विति ।
गृह्णगृह्णेति दैत्यैश्च मा गृह्णेति च दैवतैः ॥८॥

ततो भेर्यश्च शङ्खाश्च पणवा गोविषाणका: ।
अवाद्यन्त सुराणां वै हर्षरागप्रवर्तनाः[^६] ॥९॥

अथान्धकश्च[^७] तारश्च तारको नमुचिस्तथा ।
विप्रचित्तिः शम्बरश्च महामायश्च दानवः ॥8.90.१०॥

धुन्धुः कार्तस्वनश्चैव राहुश्चैव महाबलः ।
शतकेतुः शतावर्तः पुलोमा विल्वलस्तथा ॥११॥

वातापी कालनेमिश्च शतावर्तः[^८] (?) शतोदरः ।
महापाश्वोन्दरश्चैव[^९] मुसुण्डः[^१०] सुण्ढ[^११] एव च ॥१२॥

यूथपा: - ख. ॥ २ शितवर्म्मा - घ , तिग्मवर्मा (धर्मा? ) - ख. ॥ ३ सुसन्नद्धौ - घ. ॥ ४ रथयन्ता - ख । ५ महासुरम. - (? ) ॥ ६… प्रवर्धना: - (? ) ॥ ७ तथान्धकश्च - ख , तदा (?) ॥ ८ शरभश्च (?) । ९ ह्रदश्चैव - घ । १० मुहूतों - घ ॥ ११ मुण्ड - ख. ।
दुर्लोमा वक्रबन्धश्च विरोमा[^१२] रोध[^१३] एव च ।
मारीचश्च सुबाहुश्च श्वेतकुण्डलिरेव[^१४] च ॥१३॥

वृषपर्वातिकायश्च शरभः सिम्ह एव च ।
नरान्तको देवहनस्तथा यज्ञहनश्च यः ॥१४॥

दैत्यौ सुन्दनिसुन्दौ च शक्रतापन एव च ।
प्रह्लादश्चानुह्रादश्च शिनिर्बाष्कल एव च ॥ १५॥

विरोचनो बलिर्बाणो वाताश्वश्च महाबलः[^१५] ।
मयोथ तारकाक्षश्च विद्युन्माली प्रभाकरः ॥१६॥

दुन्दुभि[^१६]र्महिषश्चैव अरिष्टो रिष्ट एव च ।
केशी च धेनुकश्चैव अजको व्यम्स एव च ॥१७॥

तथा गगनमूर्धा च असिलोमा च दानवः ।
सूचीलोमा तुहुण्डश्च हुण्डश्च परतापनः ॥१८॥

हस्ती दुर्योधनश्चैव विपाकः पाक एव च ।
बलो मुरोथ नरको मूकेन्द्रदमनावपि[^१७] ।१९॥

अश्वग्रीव: सम्बरश्च तथान्य:१८ कालसंवरः ।
शाल्वः[^१९] शतभुजश्चैव द्रुमो व्थाघ्रश्च दानव: ॥8.90.२०॥

मधुश्च कैटभश्चैव महासङ्गर[^२०] एव च ।
छायाग्रहश्च[^२१] विख्यातः[^२२] सेंहिकेयाश्च विश्रुताः ॥२१॥

हालाह्लाश्च ते सर्वे बलिपुत्राश्च विश्रुताः ।
तथा मयसुताः सर्वे निवातकवचाश्च ये ॥२२॥

पौलोमाः कालकेयाश्च विप्रचितिसुताश्च ये ।
एते चान्ये च बहुशो[^२३] दैत्यदानवसम्मताः ॥२३॥

सर्वे चन्द्रमसं देवं प्रति वेगं प्रचक्रिरे ।
महिषा इव – - हस्तिनः शरभं यथा ॥२४॥

विरामो - ख., विराधो - घ. ॥ १३ राध - घ. ॥ १४ श्वेतकुण्डल एव - घ. ॥ १५ सु महाबलः - ख. । १६ धुन्दुभि - ख. । १७ नरकावपि - घ. ॥ १८ तता (था) यः - ख. ॥ १९ शाल:?, अन्धः - घ. । २० महामगर - ख., महाकवच - घ. ॥ २१ मायाग्रहश्च - घ. ॥ २२ विख्याता: - ख. ॥ २३ बहवो - घ. ।
विघ्ना यतप्रतं यद्वत् कामा मोक्षाश्रितं यथा ।
इन्द्रियार्था यथा योगमनर्था दुःखितं यथा[^२४] ॥२५॥

नागा इव गरुत्मन्तं भ्रमरा इव पादपम् ।
तथा ते दानवाः सर्वे प्रगृहीतवरायुधाः ॥२६॥

दुद्रुवुः शिशिरं देवं महाजलदनिस्वनाः ।
तेषामापततां व्यास तिमिरारिर्हसन्निव ॥२७॥

उद्यतान्यायुधानि स्म शरैश्चिच्छेद सर्वशः ।
ततः[^२५] स तान् पुनर्देवः सर्वानेव रुषान्वितः ॥२८॥

हृदयेषु शरैस्तीक्ष्णैर्बिभेद च ररास च ।
तुषारेण च शीतेन ताराधिपतिरव्ययः ॥२९॥

आजघानासुरान् सर्वान् क्रोधसंरक्तलोचनः ।
ते शरैश्च विनिर्भिन्नाः शीतेन च भृशार्दिताः ।॥8.90.३० ॥

स्थितास्तत्रैव दैत्येन्द्राश्चित्रपट्टार्पिता इव ।
चन्द्रोपि देवः समरे मण्डलीकृतकार्मुकः ॥३१॥

बिभेद सर्वान् दैत्येन्द्रान् नर्दमानः पयोदवत् ।
यः कश्चिद्दानवो वापि दैत्यो वा मुनिसत्तम ।३२॥

सर्वे एव शरान् तस्य दधिरे शशिनस्तदा[^२६] ॥

यत्किञ्चिच्चालयत्यङ्गं तत्र दैत्यः कदाचन ॥३३॥

तत्तत् तीक्ष्णैः शरैर्देवो बिभेद च ररास च ।
ब्रुवतो दैत्ययोधस्य यत्र क्वचन संयुगे ॥३४॥

निचखान शरानष्टौ मुखे तस्यापि चन्द्रमाः ।
निष्पन्दास्ते स्थिताः सर्वे मूकवच्चासुरोत्तमाः ।
शरनिर्भिन्नसर्वाङ्गाश्चित्रपट्टार्पिता इव ।३५॥

यथा स भगवान् देवश्चन्द्रमा दानवार्दनः ।
तथैव भगवान् वह्निरार्दयद् दानवान् युधि ॥३६॥

इव दु:खितं - ख. ॥ २५ एनं (नान) - ख., एतान शनैर - घ. ॥ २६ ..स्तथा - ख. ।
तद्रथाश्वगजयोधसङ्कुलं प्रक्षरद्रुधिरबिन्दुविह्वलम् ।
सीदते गजकुलोपमं बलं पङ्कलग्नमिव सर्वमुल्बणम् ॥३७॥

इति स्कन्दपुराणे युद्ध नवतितमोध्यायः