०८९

सनत्कुमार उवाच
तेषां तद्वेगनुन्नानाम्[^१] भग्नानां क्लिश्यतां पुन:२ ॥

त्राणार्थमतिदीप्ताक्षो[^३] हिरण्याक्षोग्रहीत्पदम्[^४] ॥१॥

अन्धकश्च महामायो भ्रातरश्चास्य[^५] तत्समाः ।
शतं रथसहस्राणां सर्वेषामपलायिनाम् ॥२॥

प्रह्लादश्च सहभ्राता हिरण्यकशिपोः सुतः ।
विप्रचितिः सहभ्राता सैंहिकेयैश्च तैस्सह ॥३॥

गृह्ण गृह्णेति नर्दन्तो देवान् प्रत्युद्ययुस्तदा ।
तेषां तेषां च सङ्ग्रामः सुघोरः समपद्यत ॥४॥

ग्राहाणामिव[^६] काण्डे[^७] च गजानामिव वा वने[^८] ।
इन्द्रस्त्वष्टा च पूषा च हिरण्याक्षमवारयन् ॥५॥

सङ्गत्य सायकैस्तीक्ष्णैः सर्वमर्मस्वताडयन् ।
तेषां धनूंषि चित्राणि अस्यतां तु दिवौकसाम् ॥६॥

मायाबलेन दैत्येन्द्रो व्यष्टम्भयत दीप्तिमान् ।
तानि विष्टम्भितानि स्म तदा दैत्येन मायया ।७॥

नानमन्ति यथा पूर्वं ततस्ते ह्याकुलाभवन् ।
सोपि दैत्यो महामायो नदित्वा मेघनिस्वनम् ॥८॥

च नादिन: - ख. ॥ २६ …तिवेगं (?) ॥ २७ सयत्ता - ख. ॥ २८ …त्यनाचारमतिसंसक्त - घ. । १ तद्वशगानां तु - घ. ॥ २ प्रभग्नाननुशिष्यतां - ख. ॥ ३ …मिह साम्प्राप्तो - घ. ॥ ४ …भ्ययात्सुतम. - घ. । ५ …श्चैव (?) । ६ ग्रहाणामिव - ख. ॥ ७ काले (?) । ८ चाञ्जने (चाजने?) - ख. ॥

बबन्ध तेषां गात्राणि समन्तादस्त्रमायया ।
तान् बद्धाँश्च समीक्ष्यैवमकर्मण्यान्महाबलान्[^९] ॥९॥

यन्तारो वाहनैः क्षिप्रं जह्रु[^१०]स्तस्माद्रणाजिरात् ।
अथ कालो यमश्चैव धनेशो मित्र एव च ॥8.89.१०॥

वरुणो वसव:११ सर्वे अश्विनौ च महाबलौ ।
प्रगृहीतायुधाः क्रुद्धा[^१२] स्तिष्ठतिष्ठेतिवादिनः ॥११॥

अभ्यद्रवन्त वेगेन हिरण्याक्षं महासुरम्[^१३] ।
तेषामापततां सङ्ख्ये स दैत्यः क्रोधमूर्छितः ॥१२॥

सर्वेषां सायकैस्तीक्ष्णैर्बिभेद कवचान् युधि ।
ते भिन्नकवचाः सर्वे क्रोधात् प्रज्वलिताननाः ॥१३॥

ससर्जु[^१४]रस्त्रमुख्यानि तदाप्रतिहतान्युत[^१५] ॥

यमो दण्डं ससर्जास्य तथा कालश्च[^१६] - - -१७ ॥१४॥

धनेशश्चाशनिं घोरं वरुणः पाशमेव च ।
भगश्च मुशलं घोरमन्ये चान्याँस्तथामराः[^१८] ॥१५॥

तान् स दैत्यो हसन्नेव सायकैर्मर्मभेदिभिः ।
व्यष्टम्भयददीनात्मा[^१९] शक्रहस्तं यथा भवः ॥१६॥

साधुवादाँस्ततो हृष्टा दानवानां महारथाः ।
समं चक्रुश्च सम्पूज्य हिरण्याक्षं महासुरम्[^२०] ॥१७॥

अपरे[^२१] नैतदाश्चर्यं दितिपुत्रस्य संयुगे ।
कश्यपेन[^२२] प्रसूतस्य राज्ञोस्माकं च स्वामिनः (?) ॥१८॥

अपरे सिंहनादाँश्व बाहुशब्दाँश्च पुष्कलान् ।
चक्रुर्हृष्टाश्च वाद्यानि तथा सर्वाण्यवादयन् ॥१९॥

एवं हि सम्प्रहृष्टानां दानवानां महाहवे ।
पाराशर्य गिरो बह्व्यः श्रूयन्ते स्तुति – - ॥ 8.89.२० ॥

महाबला: - ख । १० … ह्र - ख , जहु (?) । ११ वासव: - ख. । १२ सर्वे - घ. । १३ महाबलं - घ ॥ १४ ससर्ज - ख., ससृजु - घ. ॥ १५ युधा: - घ. ॥ १६…स्य - ख. ॥ १७ कालस्य चिन्तवस्तथा - घ. ॥ १८ शरान् - ख. ॥ १९ ..दमेयात्मा - घ. ॥ २० हिरण्याक्षाय सर्वतः - घ ॥ २१ स परे - ख । २२ काश्यपेन - ख. ॥ २३ ते - ख. ।
तेषां प्रहर्षं ज्ञात्वेत्थं देवभङ्गं च तं तदा ।
सर्वप्राणिचरो वायुरसुरानभिदुद्रुवे ॥२१॥

सहस्रनल्वमात्रेण स रथेन प्रभञ्जनः ।
समन्ताद् ध्वजयुक्तेन पताकाशतमालिना[^२४] ।२२॥

जवेन यन्तृणां[^२५] यत्नान्निगृहीतेन शब्दवान् ।
प्रपूरयन् दिशः सर्वाः सहसा प्रत्यदृश्यत ॥२३॥

स पञ्चभिः शरैस्तीक्ष्णैर्दैत्यराजमथाव्यथः[^२६] ॥

आहृत्य योजने तस्माद्देशात् क्षिप्रमवासृजत् ॥२४॥

अन्धकश्च ततः षष्ट्या विप्रचित्तिश्च सप्तभिः[^२७] ॥

मयं पञ्चाशता विद्ध्वा सप्तभिः सप्तभिः पुनः ॥२५॥

दैत्याश्च दानवश्चैव सर्वान् विव्याध तत्क्षणात् ।
पुनः पुलोमपुत्राँश्च निवातकवचानपि ॥२६॥

ते तेन बहुभिर्विद्धा: शरैरसुरपुङ्गवाः ।
दिक्षु सर्वासु विक्षिप्ता योजनान्तरिताः स्थिताः ॥२७॥

यान्याँश्च ते विमुञ्चन्ति गदामुशलपट्टिशान् ।
तान्सर्वान् भगवान् वायुर्दानवोपर्यपातयत् ॥२८॥

ते हता हन्यमानाश्च स्बमुक्तै[^२८]रायुधैभृशम् ।
आार्त्तनादान् प्रकुर्वाणाः प्राद्रवन्त दिशो दिशः[^२९] ॥२९॥

सोपि वायुर्महावेगो बभञ्ज रथसत्तमान् ।
पांशुवर्षेण च पुनश्चक्षूंष्येषामपूरयत् ॥8.89.३०॥

ततस्ते[^३०] भयसन्त्रस्ता नोत्ससर्जुस्तदा शरान् ।
शस्त्राणि च तथान्यानि युञ्जशश्चावतस्थिरे ।॥३१॥

तस्य तत्कर्म संवीक्ष्य हिरण्याक्षः प्रतापवान् ।
उवाच दानवान् सर्वान् गर्हयन्[^३१] दितिनन्दनः ॥३२॥

धिग्वो दैत्या बलं सर्वं[^३२] धिग्दर्पा धिक्पराक्रमा: ।
विसृज्य रणमव्यग्रा[^३३] यात स्त्रीकर्म सेवत[^३४] ॥३३॥

पताकशतमालिना - ख. ॥ २५ यन्त्रिणा - ख. ॥ २६… राजमयाव्ययम - घ., …राजानमव्यथः - ख. । २७ सप्तति: - ख. ॥ २८ सुमुखै - घ ॥ २९ दश (? ) ॥ ३० तथास्य - ख. ॥ ३१ ह्रर्षयत् - घ. । ३२ सर्वे - ख. ॥ ३३ बलमव्यग्रा - घ. ॥ ३४ सेविनः - घ. ।
ये यूयं रणमध्यस्था जीविते सति बालिशाः ।
एकेन वायुना भग्ना धिग्वस्तन्मन्त्रितं[^३५] पुरा ॥३४॥

अथवा यन्मया प्रोक्तं यूयं बाला रति[^३६]क्लमाः[^३७] ॥ ७ ॥

तत्तथा नास्ति सन्देहो बालैरिव हि वः कृतम्[^३८] ॥३५॥

तिष्ठध्वं बालवत् सर्वे रक्षन्तो जीवितं स्वकम् ।
अहमेको विजेष्यामि वायुमेनं प्रपश्यत ॥३६॥

ततः स पर्वतो भूत्वा दितिपुत्रः प्रतापवान् ।
समन्ताद् वायुवेगं तं[^३९] समवारयदव्ययः[^४०] ॥३७॥

– - त्वानिलं ज्ञात्वा पर्वतेन निवारितम् ।
अन्धको बाहुपाशेन अवप्लुत्याबबन्ध तम्[^४१] ॥३८॥

स[^४२] बद्धो बाहुपाशेन तदा वायुः[^४३] प्रतापवान् ।
सम्प्रगृह्यान्धकं शीघ्रमुत्पपात विहायमा ॥३९॥

तस्योत्पतितमात्रस्य प्रगृह्यान्धकदानवम् ।
राहुर्गदां महारौद्रां क्षिप्रं मूर्ध्नि न्यपातयत्[^४४] ।
अभ्येत्य पादयोश्चैव विप्रचितिर्महाबलः ॥8.89.४०॥

जग्राह सुमहाग्राहो मत्स्यानिव[^४५] महार्णवे ।
स तेन सुप्रहारेण विह्वलः प्राणिगोचरः ॥४१॥

स्कन्धे केशाभिसंयुक्तो भ्रामितो विप्रचित्तिना ।
स भ्राम्यमाणो विबभौ स्रस्तहारस्रगम्बरः ।४२॥

अलातमिव सन्दीप्तं निशायां मुनिसत्तम ।
भ्राम्यमाणं समालक्ष्य पुनर्देवाः सवासवाः ।४३॥

वेगश्चक्रुर्महावेगा गृह्णगृह्णेति वादिनः ।
विप्रचित्तिस्तु तान् दैत्यः संरब्धानुद्यतायुधान् ।४४॥

आलक्ष्य सुबहून् सङ्ख्ये गर्जमान:४६ पयोदवत् ।
अभीक्ष्णं भीमसंह्रादं वायुं दानवयूथपः ।४५॥

धिगस्तु मन्त्रितं - घ. ॥ ३६ इति - घ. ॥ ३७ क्रमा: - ख., क्रमात् - घ. ॥ ३८ बहिःकृतम् - घ , वर्तितं ? ॥ ३९ वेगेन - ख. ॥ ४० …दव्यथ: (?) ॥ ४१ … त: - ख. ॥ ४२ सं - ख. । ४३ जातदाय (?) - ख. ॥ ४४ मूर्ध्न्यवपातयत् - घ. ॥ ४५ मत्सानिव - ख. ॥ ४६ गर्जमाना: (नम्) - ख. ।
चिक्षेप शक्रमुद्दिश्य गिरौ वज्रं यथैव सः ।
स चापि तेन विक्षिप्तो लब्धसञ्ज्ञो महाबलः ।४६॥

विधाय वेगं देवेन्द्रमुपतस्थे कृताञ्जलिः ।
ततो वायुश्च देवाश्च सर्व एव सहानुगा:४७ ।॥४७॥

अभ्यद्रवन्त दैत्येन्द्रान् प्रगृहीतवरायुधाः ।
तेषां तेषाञ्च सङ्ग्रामः सुघोरः समपद्यत ॥४८॥

सिंहानामिव दृप्तानां[^४८] विजने[^४९] शरभैः सह ।
तत्र केचिद्विनिहताः सुप्रहारेण मूर्च्छिताः ।४९॥

साधुसाध्विति भाषन्तः प्राणानूर्ध्वं वितत्यजुः[^५०] ।
अपरे दनुदेत्येन्द्रा मुदा युक्ता[^५१] महाबलाः ॥8.89.५०॥

परेणाभ्याहतं शूरं समरक्षन्[^५२] सुपुत्रवत्[^५३] ॥

केचिद्धत्वापि सुबहून् देवदानवसत्तमाः ॥५१॥

अविक्षताः शितैः शस्त्रैरात्मानं गर्हयन्त्युत ।
अशस्त्रं केचिदभ्येत्य देवदैत्या महाबलाः ॥५२॥

धर्मयुद्धमभीप्सन्तस्त्यक्त्वा शस्त्राण्ययोधयन् ।
बह्वस्तत्र दैत्येन्द्रा युयुधुर्भीमविक्रमाः ॥५३॥

देवाश्च[^५४] नाहता ये वै नाभिघ्नन्ति कदाचन ।
पदातयस्तत्र सर्वे योधयन्ति पदातिभि:५५ ॥५४॥

सादिनः सादिभिः सार्धं रथिनो रथिभिः सह ।
गजिनो गजिभिश्चेव तथा युद्धमवर्तत ॥५५॥

एवं तेषां हि सङ्ग्रामो देवानां दानवैस्सह ।
आवर्तत शतान्यष्टौ वर्षाणि सुमहाभयः[^५६] ॥५६॥

अथ दैत्यो महामायो गजेनाम्बुदवर्च्चसा ।
तोमरं सुमहद् बिभ्रद्युगान्तानलवर्च्चसम् ॥५७॥

कोकिलाञ्जनमेघाभो विद्रुतो यो विरोचनः ।
सोभ्यद्रवत्तदा देवानातिसव्यानिवोत्थितान् (?) ।॥५८॥

वा - ख. ॥ ४८ तृप्तानां - घ. ॥ ४९ विजथे - घ. ॥ ५० प्राणान्मूर्धनि तत्यजुः (? ) ॥ ५१ यदा मुक्ता - ख., मदयुक्ता - घ. ॥ ५२ संरक्षन्त - ख ॥ ५३ स्वपुत्रवत. - घ. ॥ ५४ देवाँश्च ? ॥ ५५ पदातिनः - घ. । ५६ तु महाभय: - ख. । -
स गजेन प्रभिन्नेन मुखाडम्बरघोषिणा ।
अभिदुद्राव देवेन्द्रं तिष्ठतिष्ठेति चाब्रवीत् ॥५९॥

तस्यापतत एवाथ भगवान् पाकशासनः ।
जत्रुदेशे शरं घोरं निचखान ररास च ॥8.89.६०॥

अनुभूय प्रहारं तं स दैत्यो भीमविक्रमः ।
तस्यास्य तोमरेणाथ बिभेद करमुन्नतम्[^५] ७ ॥६१॥

अथास्य तोमरोद्भिन्नाद्धस्ताद्धस्ताद्धेमविभूषितम्[^५८]॥ ६२॥

पपात तद्धनुर्दिव्यं महाशनिसमप्रभम्[^५९] ॥६२॥

ततोस्य भूयो दैत्येन्द्रो व्याकुलस्य तदा गजम् ।
तोमरेण बिभेदाशु कुभ्भदेशे महाबलः ॥६३॥

स भिन्नस्तेन दैत्येन वने मत्त इव द्विपः ।
अनङ्कुशः शनैर्घृ - स्वं बलं ह्यनिवारितः (?) ॥६४॥


ते तथा वध्यमानास्तु आदित्या दैत्यदानवैः ।
भयार्दिता दिशः सर्वाः[^६०] पलायन्ते स्म[^६१] सर्वशः ॥६५॥

तत: शङ्खाश्च भेर्यश्व वाद्यानि विविधान्यपि ।

सिह्नादाँश्च सञ्चक्रु[^६२] र्दैत्यदानवसम्मताः (?) ॥६६॥

तच्छिन्नभिन्नप्रविदारितान्तरं[^६३] गजेन दैत्यैश्च पुनर्विलोडितम्[^६४] ।
बलं महद्दैवतपालितं बभौ यथार्णवो मन्दरमन्थविक्षतः ।॥६७॥

इति स्कन्दपुराणे युद्धे एकोननवतितमोध्यायः