सनत्कुमार उवाच
अर्यमा बहुभिर्बाणैः प्रह्लादं दैत्यपुङ्गवम् ।
आजघान रथं घोरं ध्वजश्चास्य व्यशातयत् ॥१॥
प्रह्लादोप्यर्यमन्तम्[^१] वै रथं त्यक्त्वैव वीर्यवान् ।
प्रदुद्राव यथा राहुः समये तिमिरापहम् ॥२॥
आाधावन्तं च वेगेन विहस्तं रिपुमर्यमा ।
जघान[^२] बहुभिर्बाणैर्वृष्ट्या मेघो यथाचलम् ॥३॥
शरानगणयन्नेव हिरण्यकशिपोः सुतः ।
क्रोधान्मानाच्च दर्पाच्च वेगेन समधावत ॥५४॥
गृहीत्वा कूबरे तस्य रथं हेमपरिष्कृतम् ।
चित्रेप सह सूतेन ततो हर्षान्निनाद च ॥५॥
अनुह्रादो धरं प्राप्य तेन विद्धः स्तनान्तरे ।
असिं निष्कृष्य वेगेन धरस्य रथमासदत् ॥६॥
ध्वजं तस्य हयाँश्चैव सारथिं धनुरेव च ।
छित्त्वा स्कन्धे धरं चैव पुनः स्वरथमभ्यगात्[^३] ॥७॥
निपतति - ख. ॥ ४४ नेति - ख. । ४५ शनैरभ्यद्रवद् - ख. | ४६ तदा (?) | ४७ दृष्ट्वा - घ. । ४= मूर्ध्नि ताडयत् - ख. ॥ ४९ प्रभु: - ख. ॥ ५० रिपुमुग्रविक्रमं - घ. । १ …र्प्यमाणं - घ. ॥ २ ववर्ष - घ. ॥ ३ स रथमन्वयात् - घ. ।
कर्मणा तेन दैत्यस्य धरोभूद् भृशमर्दित:४ ।
एवमन्यैश्च दैत्येन्द्रैरन्ये देवा महाबलाः ॥८॥
निर्जितास्तर्जिताश्चैव युद्धाय च पुनः स्थिताः ।
ततः सङ्कुलमेवाभूद्देवानां दानवैस्सह ॥९॥
परस्परजिगीषूणाम्[^५] युद्धं भीरुभयावहम् ।
ततो भेर्यश्च शङ्खाश्च पटहासेक्यपुष्कलाः ॥8.88.१०॥
झर्झर्यः पेपुकाश्चैव डिण्डिमा गोविषाणकाः ।
अवाद्यन्त बले[^६] व्यास उभयेषां सहस्रशः ॥११॥
ततोसृगोघप्रवहा[^७] पताकध्वजपादपा ।
गजाश्वग्राहबहुला रथप्रवरकच्छपा ॥१२॥
केशशैवालबहुला धनुर्ज्याकृततन्तुका ।
निष्टनच्छस्त्रमण्डूका[^८] दुकूलच्छत्रफेनिला[^९] ॥१३॥
उष्णीषवरहंसा[^१०] च करपादशिरोपला[^११] ॥
हारकेयूरसिकता मुकुटोत्फुल्लपङ्कजा ॥१४॥
मेदोस्रकफपङ्का[^१२] च प्राणजीवितनाशनी ।
प्रावर्तत नदी[^१३] घोरा हस्त्यश्वरथवाहिनी ॥१५॥
तस्यां स्नायन्ति रक्षांसि पिबन्ति[^१४] च रमन्ति च ।
नृत्यन्ति[^१५] चापि विविधा भीरूणां भयदास्तथा[^१६] ॥१६॥
गृध्रा गोमायवश्चैव श्वानो मार्जारवायसाः[^१७] ॥
चक्षूंषि करपादान्त्रं भक्षयन्तीभिरेमिरे ॥१७॥
ममायं हस्तिनः पादो ममायं मेदपट्टकः[^१८] ।
ममायं च करः शुक्रो बाहुश्च[^१९] रुधिरस्यदः ॥१८॥
ममायं तव नायं च गृह्ण पश्येति चैव हि ।
कलहं चक्रिरे तत्र क्रूराः पिशितभोजनाः ॥१९॥
ध्रुवो भयसमीरित: - घ., भग्नसमीरितः - घ. ॥ ५ जिघांसूनां (?) । ६ रणे -घ. ॥ ७… प्रभवा - ख. । ८ निष्टन्तोग्रास्त्रमण्डूका - ख. ॥ ९ .. फेनिता - ख. ॥ १० .. कलहंसा - घ. ॥ ११ । शिरोरुहा - ख. । १२…मनुष्यपङ्का - ख. ॥ १३ महा - ख. ॥ १४ पिशाचा (?) । १५ नृत्यन्ते - ख. ॥ १६ स्तदा - घ. ॥ १७ झर्झरवायसाः - ख. ॥ १८ ममायमेव इत्युत - ख. ॥ १९ ह्रदश्च - घ. ।
त्यक्त्वान्ये च हताँस्तत्र स्वदेहान् सुमहारथाः ।
विमानैः स्त्रीजनाकीर्णैः प्रययुब्रह्मणः सदः[^२०] ॥8.88.२०॥
अपरे पापकर्माणो हन्यमाना रुषान्धितैः ।
पतन्ति नरके घोरे क्रन्दमाना मुहुर्मुहुः ॥२१॥
केचिदार्त्तास्वरं कृत्वा - - - - - षार्दिताः[^२१] ॥
म्रियन्ते पुरुषा युद्धे शतशोथ सहस्रशः ॥२२॥
दशन्तश्च तृणान्यन्ये भ्रातः पुत्रेति चापरे ।
क्रन्दमाना जना[^२२] भीताः प्राणान् कृच्छ्रेण तत्यजुः ॥२३॥
सन्दष्टौष्ठपुटाः केचिद् देवासुरमहारथाः ।
शरसन्नतमर्माणः पतन्त्युर्व्याँ द्रुमा इव ॥२४॥
अशिवानि शिवा नेदुरट्टहासाँश्व राक्षसाः ।
आार्त्तनादाँश्च पुरुषास्तथैव गजवाजिनः ।२५॥
सिंहनादाश्च शूराणां बाहुशब्दाश्च पुष्कलाः ।
धनुषां कृष्यमाणानां शब्दा वाद्यरवास्तथा[^२३] ॥२६॥
अथेन्द्रश्च धनेशश्च यमः कालश्च वीर्यवान् ।
वरुणो मरुतश्चैव विश्वेदेवाश्च सर्वशः ॥२७॥
मित्रश्चैव जयन्तश्च भगः पूषार्यमा तथा ।
कापाली चापि यो रुद्रो वसवश्व महाबलाः ॥२८॥
नासत्यश्चैव दस्रश्च पृश्नयश्च सुरोत्तमाः ।
एते चान्ये च देवानां प्रवरा बाहुशालिनः ।२९॥
दानवानां बले वेगं बलवन्तो[^२४] भिचक्रिरे ।
सागरा इव गर्जन्तो युगान्ते अनला इव ॥8.88.३०॥
प्रभञ्जना इवाकाले महान्त इव चाचलाः ।
वृषभा इव नर्दन्तो बृहन्त इव कुञ्जराः ॥३१॥
पदम् - घ. ॥ २१ जातमानस्य ऊर्जिता: - घ. ॥ २२ नरा - ख. ॥ २३ स्तदा .. - ख. ॥ २४ वेगान्, वेगवन्तो - ख. ।
ग्रसन्तश्च यथा ग्राहाश्छिन्दन्तो मकरा इव ।
वर्षमाणा इव घनाः सिंहा इव च नर्दिन:२५ ॥
दानवानां बलं सर्वे वेगेनैवाभ्यवारयन् ॥३२॥
तद्देववेगप्रहताभिवेगं[^२६] बलं सयत्नं[^२७] दनुदानवानाम् ।
भवत्यनाधारमतिप्रसक्तं[^२८] तृणं यथा वह्निमुखावसक्तम् ।३३ ॥
इति स्कन्दपुराणे युद्धेष्टाशीतितमोध्यायः