तमेवाभ्येत्य - घ. ॥ ५३ तु (?) स - ख. ॥ ५४ … मन्धकं - ख. ॥ ५५ … भेदनैः - घ. । ५६ अस्त्रश्च - ख. ॥ ५७ …राह्न - ख.,…राह्व(?) ॥ ५८ पदे(?), …क्षोपरि - घ. ॥ ५९ देवता यतः (?) ।
सनत्कुमार उवाच ।
मयश्चन्द्रमसं देवमार्दयत्[^१] क्रोधमूर्च्छितः ।
शरैराशीविषाकारैर्नर्दमानो यथाम्बुदः[^२] ॥१॥
तस्यास्यतस्ततो बाणान्[^३] चन्द्रमाः प्रहसन्निव ।
एकैकं सप्तधा कृत्वा मयं विव्याध पञ्चभि: ॥२॥
तत एनं पृषत्केन ललाटे समविध्यत ।
जहास च पुनर्देवस्तस्य लज्जां समादधत् ॥३॥
स तस्य हसतः शीघ्रं ललाटे कङ्कपत्रिणा ।
विव्याध भृशमायस्तो यथा विघ्नो यतव्रतम्[^४] ॥४॥
ततोस्य देव उद्दिश्य[^५] ध्वजं चिच्छेद नादयन्[^६] ।
चक्ररक्षाँश्च[^७] निस्त्रिंशै[^८]रनयद् यमसादनम् ॥५॥
तस्य तच्चापलं वीक्ष्य[^९] मयो दानवसत्तमः ।
मायां दिव्यां[^१०] समास्थाय राहुः समभवत्तदा ॥६॥
स राहुभूतो दैत्येन्द्रो देवेशं[^११] शशलक्षणम् ।
अभ्यद्रवद् यथा राहू रथेनाम्बुदनादिना ॥७॥
स तां मायां तदा ज्ञात्वा देवो ह्यमृतसम्भवः[^१२] ॥
अपर्ववद्[^१३] वियत्स्थं वै[^१४] तं शरैस्त्रिभिरार्दयत्[^१५] ॥८॥
सोपि दैत्यो महामायस्ताञ्छरान्माययैव तु ।
वारयन्नभिदुद्राव[^१६] शीतरश्मिं महासुरः ॥९॥
ततोस्य स्यन्दनं दिव्यं नागयन्तृ[^१७] महाप्रभम् ।
गृहीत्वा कूबरे दैत्यश्चिक्षेप च ररास च ॥8.87.१०॥
अहिर्बुध्नः समासाद्य राहुश्चन्द्रमसो ग्रहम् ।
विशिखैः पञ्चभिर्विद्धा ध्वजमस्य न्यपातयत् ॥११॥
मर्दयत् - व. ॥ २ नर्दमान इवावाग्वृदः - ख ॥ ३ व णैः -ख. ॥ ४ यथा व्रतम् - ख. ॥ ५ …मुद्दिश्यय - ख. । ६ दानव: - घ । ७ पादरक्षांश्च - घ । ८ निशितै - घ. । ९ अग्ररक्षान्पुनश्चिन्त्यान् – घ १० माया विद्यां – ख॥ ११ - वेदेन ख., तं देवं - घ. ॥ १२ कृत्वा व्यतिष्ठदसुरेश्वरः - घ. । ॥१३ अपूर्ववद् - ख.,. अपूरयद् - घ. । १४ द्वितीयरथं - ख. ॥ १५ स्तिमिरापहं - घ., राशयत् - ख । १६ वारयानोभिदुद्राव- ख. ॥ १७ नाभयच्च घ ।
तस्योत्पत्य रथाद्राहुर्गदया भीमरूपया ।
धनुर्ध्वजं ह्याँश्चैव समचूर्णयदव्ययः ॥१२॥
अशनिं शतघण्टां स दीप्तां मृत्योरिव स्नुषाम्
जग्राह भृशमायस्तः[^१८] पाशं मृत्योरिवान्तकः[^१९] ॥१३॥
भ्रामयित्वा स तामुग्रां यमदण्डनिभां बलात् ।
चिक्षेप राहुमुद्दिश्य विद्युतं मेघराडिव ॥१४॥
सा ज्वलन्ती महोल्केव मेघाशनिरिवोज्ज्वला ।
पपात राहोः शिरसि यथा वज्रं शिलोच्चये ॥१५॥
अथ तेन प्रहारेण नार्त्तिमानभवत् स वै ।
स प्रहस्य भृशं राहुर्वेगं चक्रे महाबलः ॥१६॥
अहिर्बुध्नं प्रति क्रुद्धो नागानामिव पक्षिराट् ।
आपतन्तं स वीक्ष्यैव भगवान्देवसत्तमः ॥१७॥
जगाम तस्य पन्थानं मुक्त्वान्येन यथोरगः ।
शतकेतुश्च तं वीरो रथेनाम्बुदनादिना ॥१८॥
अभ्यद्रवद्रणे क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ।
आाधावतोस्य कापाली हृदयं कङ्कपत्रिभिः ॥१९॥
बिभेद कुलिशः क्षिप्तो गिरिश्रृङ्गमिवोच्छितम् ।
स भिन्नहृदयस्तेन रुद्रेण ग्रह्सत्तमः ॥8.87.२०॥
पपात स्वरथे मूढः शक्रध्वज इवोच्छ्रितः ।
ततो हाहाकृतं दैत्यैर्गृह्णगृह्णेति चाप्युत ॥२१॥
साधु साध्विति देवाश्च विनेदुर्जलदा इव ।
अथान्धको हिरण्याक्षो विप्रचित्तिर्विरोचनः ॥२२॥
शम्बरश्चेल्वलश्चैव बाणो बलिरथापि च ।
कालकेयास्सपौलोमा निवातकवचाश्च ये ।२३।
भृशमायस्थ: - ख. ! १९ मृत्युरिवान्तकः - ख. ।
अन्ये च बहवो दैत्यास्तं[^२०] रुद्रं पर्यवारयन् ।
ते शरैश्च गदाभिश्च मुशलैः प्राशतोमरैः[^२१] ।२४॥
न्यवारयन्त तं देवं तर्जयन्त:२२ पुनः पुनः ।
स हन्यमानस्तैर्देवो बहुभिर्मुनिसत्तम ।
अपासर्तत वेगेन समीपात् सुरविद्विषाम् ।२५॥
अजैकपात् कालनेमिं गदिनं गदयासहम्[^२३] ।
समाह्वयत दैत्येन्द्रं[^२४] मधुं विष्णुरिवोर्जितम् ।२६॥
तौ सुयुद्धौ[^२५] गदाहस्तौ[^२६] मण्डलानि महाबलौ ।
अन्योन्यविजये सक्तौ ग्रहाविव विचेरतुः ॥२७॥
कालनेमिस्तु सङ्क्रुद्धो गदां हेमपरिष्कृताम् ।
शतघण्टाट्टहासां च मृत्योर्जिह्वामिवाद्भुताम्[^२७] ॥२८॥
भ्रामयित्वासकृद् दैत्यो नर्दमानो यथा वृषः ।
मुमोच रुद्रमुद्दिश्य स्कन्दः शक्तिमिवाचले ।२९॥
शक्रमुक्तामिवायान्तीमशनिं २८ पर्वतोपरि ।
विद्युतं वा महाशक्तां (?) स रुद्रो भीमविक्रमः ॥8.87.३०॥
वञ्चयामास वेगेन श्वेतो मृत्युमिवागताम् ।
तिष्ठतिष्ठेति चाप्युक्त्वा रुद्रः प्रहरतां वरः ॥३१॥
भ्रामयित्वा गदां घोरां दैत्यस्योपर्यपातयत् ।
स तया गदया दैत्यो दीप्तया भीमरूपया ।३२॥
हतो मूर्ध्नि दिशः सर्वा हारिद्राः समपश्यत ।
अथ दैत्यस्तदा सम्यग् भ्रामयन् स[^२९] गदां पुनः ॥३३॥
मण्डलानि विचित्राणि दर्शयित्वा महाबलः ।
अजैकपादं गदया स्कन्धदेशे व्यताडयत् ॥३४॥
स चाप्यवहतस्तेन यथा वज्रेण भूधरः ।
विवेश भूमिं[^३०] दुःखार्त्तस्तदद्भुतमिवाभवत् ॥३५॥
रुद्रास्तं - ख. । २१ पाशतोमरै: - ख , प्राग . . ( ? ) ॥ २२ तर्जयन्तं - घ. ॥ २३ गदयासहां - ख., महान् - घ. ॥ २४ दैत्येन्द्रो - ख. ॥ २५ तौ च क्रुद्धौ - ख. ॥ २६ शस्ता… - ख. ॥ … २७ मिवोद्गताम् - घ. । २८ शक्रमुक्तमिवायान्तमशनिं - ख. ॥ २९ भ्रामयानो - ख । ३० भूमौ (?) ।
उत्थाय च स वेगेन रुद्रः क्रुद्धो महाबलः ।
अवसव्यं चरन् दैत्यसव्यतो मण्डलेचरः ।३६॥
भ्रामयित्वा गदां भूयो दैत्यस्योपर्यपातयत् ।
स दैत्यस्तेन घातेन भ्रमित्वा त्रिर्महाबलः[^३१]॥३७॥
संस्तभ्य गदया भूयो रुद्रं कुक्षावताडयत् ३२॥ ९ ॥
स तया गदया नुन्नो यथा वाय्वीरितो नगः ॥३८॥
पपात भूमौ वेगेन शतश्रृङ्गो[^३३] यथा पुरा ।
पतितं तु ततो[^३४]भ्येत्य पदे जग्राह[^३५] सुव्रतम्[^३६] ॥३९॥
भ्रामयित्वा च चिक्षेप स चामृत्युरवस्थितः (?)
कार्तस्वनं ज्वरश्चोग्रो रुद्रः प्रहरतां वरः ॥8.87.४०॥
जघान निशितैर्भल्लैर्दशभिः स्तनयोः समम्[^३७] ॥ ७ ॥
कार्तस्वनश्च[^३८] बाणेन कार्मुकं तस्य दीप्तिमत् ।
चिच्छेद बहुधा चैनं पुनर्विव्याध पत्रिभिः[^३९] ॥४१॥
रुद्रोपि दण्डं सर्वार्थसाधकम् ।
भ्रामयित्वाशु[^४०] चिक्षेप कार्तस्वनरथं प्रति ।॥४२॥
तं युगान्तानलप्रख्यं शतसूर्यानलप्रभम् ।
जघान[^४१] शरजालेन मेघो वृष्टया यथाचलम् ॥४३॥
हन्यमानश्च तैर्दण्डो हविषेद्ध इवानलः ।
भूयस्तरं प्रजज्वाल वेगवच्चाप्यधावत ॥४४॥
तमप्रतिहतं दण्डं ज्ञात्वा कार्तस्वनस्स तु[^४२] ॥
रथमुत्सृज्य वेगेन आाकाशस्थोभवद्बली ।४५॥
दण्डश्च रथमभ्येत्य सहयं सह यन्तृणा ।
सध्वजं सपताकश्च भस्म कृत्वा ययौ पुनः ।॥४६॥
भ्रामयित्वा महाबलः - घ. ॥ ३२ अजैकपाद गदया स्कन्धदेशे व्यताडयत् - घ. ॥ ३३ शतशृङ्गं - घ. । ३४ च तदा - घ. ॥ ३५ पादैर्जग्राह - ‘ा . ग्ादौ {? ) ॥ ३६ सोव्रजत् - ख. ॥ ३७ दशभिश्च स्तनान्तरे - घ. । ३८ कार्तस्वनस्य - ख. ॥ ३९ स त्रिभि: - ख. ॥ ४० भ्रामयित्वास्य - ख. ॥ ४१ जग्राह् (स) - ख. । ४२ कार्तस्वरस्य तु - घ. ।
यावद् दण्डो न पतति[^४३] रथेनैति[^४४] च तं प्रति ।
तावत् कार्त्तस्वनो रुद्रं शरैरभ्यद्रवद्[^४५] बली ।४७॥
छित्त्वा ध्वजं धनुश्चास्य तथा योक्त्राणि वाजिनाम् ।
विरथं तं ज्वरं[^४६] कृत्वा[^४७] असिना मूर्ध्न्यताडयत्[^४८] ॥४८॥
असिघातपरीतात्मा स रुद्रः शत्रुसंसदम् ।
त्यक्त्वान्यतो ययौ तूर्णं पदातिर्मुनिसत्तम ।४९॥
सोसिघातविपरीतचेतनो रक्तचन्दनविलेपनप्रभ:४९ ॥
तं विहाय रिपुमग्र्यविक्रमं[^५०] द्रुद्वे सुरबलं यतस्ततः ॥8.87.५०॥
इति स्कन्दपुराणे युद्धे सप्ताशीतितमोध्यायः