०८६

सनत्कुमार उवाच
ततो दग्धरथः खस्थो दानवः स विरोचनः ।
वेगेनासिं विनिष्कृष्य स पूष्णो निशिताञ्छरान् ॥१॥

चिच्छेदापततः सर्वान् कार्मुकं चैव वीर्यवान् ।
तथा चैनं पुनर्मूध्नि खङ्गेन समताडयत् ॥२॥

स तेन सुप्रहारेण क्षरद्रुधिरमस्तकः ।
रथोपस्थे पपाताशु वृत्तोत्सव इव ध्वजः ॥३॥

पतितं तम्[^१] स दैत्येन्द्रः प्रगृह्याशु महाबलः ।
चिक्षेप देवराजानं नर्दमानः पयोदवत् ॥४॥

बलिं विव्याध मित्रश्च[^२] जत्रुदेशे शरैस्त्रिभिः ।
बलिरेकेन[^३] भल्लेन[^४] तस्य चिच्छेद कार्मुकम् ॥५॥

अथैनं पुनरन्येन हृदये समताडयत् ।
स मूढो मृतकल्पश्च रथोपस्थे ससाद ह ॥६॥

तम्[^५] सारथिर्मृत्युभयाद् विषण्णं समुपस्थितम् ।
अपोवाह तदा व्यास ततो दैत्या विचुक्रुशुः ॥७॥

नुदन्तं - ख. ॥ २८ सूताश्च - ख. ॥ २९ हुताशनो - ख । ३० विग्रहः - ख. । १ पतितस्थं - ख. ॥ २ शक्रश्च - ख. ॥ ३ बलिने (नै) केन - ख. ॥ ४ बाणेन (?) । ५ तत् - ख. । ६ सारथिं मृत्युभयाद् - ख. ।
बाणं विव्याध वरुणः पृषत्कानाम्[^७] शतेन ह ।
स कार्मुकशतानि स्म पञ्च बाणः प्रतापवान् ॥८॥

आकृष्य युगपत् क्रुद्धः शरांश्चिक्षेप तावतः ।
तानापतत एवाथ वरुणो लघुह्स्तवान् ॥९॥

एकैकं पञ्चधा कृत्वा बाणं विव्याध पञ्चभिः ।
ततोस्य कार्मुकान् सर्वान् वरुणः प्रहसन् बली ॥8.86.१०॥

चिच्छेद सायकैस्तीक्ष्णैस्तदद्भुतमिवाभवत् ।
अथ छिन्नधनुर्देत्यस्तस्य चिक्षेप वै गदाम् ॥११॥

छिन्नां दृष्ट्वा च तां भूयो गदाः पश्चासृजद्[^१०] बली ।
स एकस्यां तदा सक्त[^११]स्ता गदा[^१२] नाभ्यवैक्षत[^१३] ॥१२॥

अविक्षता[^१४]श्च ताः सर्वाः पेतुस्तस्य ततोपरि ।
काचिन्मुकुटमामर्द्य निपपात[^१५] महीतले ॥१३॥

काचिच्च कार्मुकं घोरं ह्स्तदेशान्[^१६] न्यपातयत्[^१७] ॥ ७ ॥

काचिद् ध्वजं[^१८] दृढं दिव्यं चिक्षेप धरणीतले ॥१४॥

काचिद्रथं तदाहत्य पांसुग्रासं चकार[^१९] ह ।
उरस्यूरूदरे कटया[^२०]मपरा[^२१]स्तस्य[^२२] ता गदाः ॥१५॥

पतन्त्यः[^२३] सुमहाघोरा आर्तिं चक्रु[^२४]र्महाभयाः ।
एवं स तेन विरथः[^२५] कृतः कृच्छ्रेण धीमता ॥१६॥

वरुणस्तं समुत्सृज्य जगामान्यद्रणाजिरम् ।
यमोन्धकं समासाद्य तिष्ठतिष्ठेति चोदितः ॥॥।१७॥

अथ[^२६] तस्य ततो दण्डं रथं प्रति समुत्सृजत्[^२७] ॥ ७ ॥

स रथं तस्य सञ्चूर्णं कृत्वा शतसहस्रशः॥१८॥

क्षुद्रकानां - ख. ॥ ८ fवच्छेदैकैकशो (?) ॥ ९… मिवोद्गतम् ? ॥ १०पश्चाशतं (?) पञ्चशतं (?) सृजत्()। ११ शक्ता - घ. ॥ १२ स्वां सदा - ख. ॥ १३ नकुलीक्षते - ख., न समीक्षते (न)समैक्षत (?)। १४अवे (क्षिता?)- ख. ॥ १५ काञ्चि (काश्चि?)न्मुकुटमारुह्य निपद्यति (तन्ति?)- ख. ॥ १६ विनिक्षिप्य(?) - ख. । १७ न्यपातयन् (?) - ख. ॥ १८ भङ्क्त्वा ? ॥ १९ … ग्रासांश्चकार - ख. ॥ २० उदरोरसि कटयां च - घ. । २१ समरे - ख. ॥ २२ तस्य - ख. ॥ २३ पतत्यः - घ. ॥ २४ चक्रे - ख. ॥ २५ विधृते - ख. ॥ २६ अन्ध - ख. । २७ स यत्सृजत् - ख. ।
यमह्स्तं पुनर्गत्वा तथैव समतिष्ठत ।
अन्धकोपि रथं त्यक्त्वा गदापाणिर्महाबलः ॥१९॥

यमं समभिदुद्राव क्रोधाद्वह्निमिवोत्सृजन्[^२८] ॥

स तस्य धावतो वेगात् पितृराजो यमः स्वयम् ॥8.86.२०॥

दण्डेनैव गदामुग्रां भस्मसायुज्यमानयत् ।
स प्रहस्य तदा चैनमुवाच प्रसभं यमः ॥२१॥

भवतो धाम यदभूत्तते विनिहतं मया ।
साम्प्रतं त्वामपि पुनन्नेष्याम्यद्य[^२९] स्वमालयम् ।२२॥

अहं हि सर्वलोकस्य मरणे हेतुरीश्वरः ।
मया वैरं समासाद्य क्वान्ते[^३०] जीवं विमोक्ष्यसे[^३१] ॥

अद्य त्वा निहनिष्यामि सुदृढं क्रियतां जगत् (?) ॥२३॥

अथवाद्य गतो[^३२] बन्धं[^३२] पूर्वं चान्धक मत्पुरम् ।
अग्रे द्रष्टासि तत्रैव सर्वानेतान् सुरद्विषः ॥२४॥

सनत्कुमार उवाच
अथैवंवादिनं युद्धं ह्यभीतोन्धकदानवः ।
उवाच तं यमं क्रुद्धं क्रोधाद् दीप्तानलेक्षणः ॥२५॥

हिरण्याक्षसुतो दृप्त अन्धकोस्मि सुरान्तकः ।
महायोगबलोपेतो नास्मि प्राकृतदानवः ॥२६॥

अङ्गाद्येन समुत्कृत्य भागान् मांसस्य कार्षिकान् ।
संवत्सरशतान्यष्टौ पञ्च चैव हुतोनलः ॥२७॥

तुष्टो ब्रह्मा ददौ यस्य सदैवामरतां शुभाम् ।
सोहं नाम्ना महासत्वो मृत्यूत्सेधो[^३५] न संशयः ॥२८॥

न त्वं मम कृतो मृत्युः सिंहस्येव वने शशः ।
अहं तु भविता मृत्युस्तव नास्त्यत्र संशयः ॥२९॥

वह्निमिवोत्सृजत् (?) । २९ …न्नयिष्याम्यद्य - ख. ॥ ३० क्रान्ते - ख. ॥ ३१ विमोक्षसे - ख. । ३२ गते - ख. ॥ ३३ बन्द्यं (?) । ३४ अङ्गान्येव - ब. ॥ ३५ मृत्युत्सव - ख., मृत्युस्तव (?) ।
अद्य त्वाहं दुरात्मानं[^३६] सर्वलोकभयङ्करम् ।
हत्वा श्रेयो विधास्यामि ३७ त्रैलोक्यस्येति मे मतिः ॥8.86.३०॥

देवानाञ्च भवान्नित्यं हन्तव्यो विप्रिये स्थितः ।
तेषामपि प्रियो ह्यद्य भविष्यति हते त्ययि ।३१॥

न त्वयासादितं पूर्वं हरता जीवितानि हि ।
किञ्चिद् भूतं महद्भूतं तेन त्वं निर्भयः सदा ॥३२॥

देवास्तव भयाद् भीता अशक्तस्त्वद्वधे ततः ।
अमृतादीनि लिप्सन्ति पूजयन्ति सदा च ते ॥३३॥

अद्य त्वयि हते क्रूरे निर्द्वन्द्वास्तेपि सामरात् ।
अमृते न तथा[^३८] प्रीतिं करिष्यन्ति न संशयः ॥३४॥

अद्य गर्वश्च दर्पश्च योगमाहात्म्यमेव च ।
प्राणैः सहैव देहान्ते नाशयिष्यामि सर्वशः ॥३५॥

सनत्कुमार उवाच
स एवमसुरेन्द्रेण तर्जितो भास्करात्मजः ।
दण्डेनासुरशार्दूलमुत्तमाङ्गेभ्यताडयत् ३९ ॥ ३६ ॥

कालश्च तं करेणैव[^४०] हृदये समताडयत् ।
मृत्युश्चाशनिना क्षिप्रं शिरस्येवाभ्यताडयत् ॥३७॥

कण्ठे च नियतिस्तस्य पाशं चिक्षेप दारुणम् ।
कृतान्तः परिघेनैव गण्डदेशे समाहनत् ॥३८॥

स तैरमोघैर्यामैश्च प्रहतोन्धकदानवः ।
पुष्पवृष्टया यथा कश्चिन्नार्तिमानभवत्तथा[^४१] ॥३९॥

न पाशास्तस्य लीयन्ते दण्डो वा परिघोपि वा ।
अन्यानि चास्य तीव्राणि न दुःखाय भवन्त्युत ॥8.86.४०॥

ततस्सर्वैस्तदोत्क्रुष्टं दानवैः सर्वतोदिशम् ।
अवाद्यन्त च तूर्याणि मुमुदे चान्धको भृशम् ।४१॥

सुरात्मानं - ख. । ३७ …भिधास्य1मि - ख ॥ ३८ यथा - ख । ३९ ह्यसातयत् - ४० किङ्करेणैब - ख. ॥ ४१ तदा - ख. ।
स तेषां तुष्टिशब्देन मदवीर्यसमीरितः ॥

विनद्याम्बुदवद् व्यास यममेवाभिदुद्रुवे ॥४२॥

स गत्वा तस्य वेगेन हन्यमानोपि किङ्करैः ।
आाजघान महावेगो मुष्टिनोरसि तं यमम् ॥४३॥

पुनश्च[^४२] महिषं तस्य[^४३] शिरस्यभिहनत्पदा ।
तावुभौ विह्वलौ तत्र भ्रमित्वा किञ्चिदन्तरम् ।४४॥

हित्वान्धकं ततस्तूर्णं[^४४] ययतुर्मुनिसत्तम ।
जयन्तश्चेल्वलं प्राप्य विव्याध दशभिः शरैः ॥४५ ॥

तस्येल्वलश्चकर्ताशु ध्वजं रत्नविभूषितम् ।
हयानां चैव योक्त्राणि प्रतोदं चैव काञ्चनम् ।४६॥

विना योक्त्रैर्हयास्तस्य रथं त्यक्त्वा समुद्धताः ।
लाना[^४५] विजग्मुर्हेषन्तो जयन्तो विरथोभवत् ॥४७॥

स रथं सम्परित्यज्य भूस्थः शक्रात्मजः प्रभुः ।
इल्वलस्य हयान्सूतं ध्वजञ्चैव न्यपातयत् ४६ ॥४८॥

अथोभौ[^४७] विरथौ भूत्वा ह्यन्योन्यविजयैषिणौ[^४८] ॥

अविध्येतां तदा यस्य[^४९] कार्मुके सायकैः शितैः ।४९॥

परस्परविनिर्मुक्तानुभौ[^५०] संवार्य सायकान् ।
अस्त्रैरस्त्राणि संवार्य नेदतुः सागराविव ॥8.86.५०॥

अथ शक्रसुतः श्रीमाल्ँलब्ध्वा तस्य तदान्तरम् ।
धनुश्चिच्छेद भल्लेन ननाद च पुनः पुनः ॥५१॥

स विकृत्तधनुर्दैत्यः खङ्गं दीप्तानलप्रभम् ।
भ्रामयित्वा विचिक्षेप तमप्यस्याच्छिनत्तदा[^५१] ॥५२॥

गृहीत्वान्यस्य पतितां गदां हेमविभूषिताम् ।
भ्रामयित्वा तु चिक्षेप सापदुद्राव वेगवत् ॥५३॥

पुण्ड्रश्च ख. । ४३ महिषस्तस्य - ख ॥ ४४ भित्वान्धकस्ततस्तूर्णं - ख. ॥ ४५ नाना - ख. । ४६ व्यपातयत् - ख. ॥ ४७ अथ तौ - ख. ॥ ४८ विजिगीषिणौ (?) ॥ ४९ पश्य - ख. ॥ ५० …वुभौ - ख. । ५१ ततस्तस्याच्छिनत्तदा ख।
स यावत्तां गदां घोरां शरैः सन्नतपर्वभिः ।
विचिच्छेद दितेः पुत्रस्तावदस्याच्छिनद्धनुः ॥५४॥

अथ यावत्स निस्त्रिंशं जग्राहादितिनन्दनः ।
तावदेनं पदा दैत्यो वामेनोरस्यताडयत् ॥५५॥

तमेव तस्य[^५२] जग्राह पादं स[^५३] च महाबलः ।
जयन्तो भ्रामयच्चैनं नर्दमानो यथाम्बुदः ॥५६॥

ततो हाहाकृतमभूदसुराणां बले महत् ।
यात त्रायत दैत्येन्द्रमिल्वलं[^५४] शीघ्रमित्युत ॥५७॥

देवानां सिहनादाश्च शङ्खशब्दाश्च पुष्कलाः ।
तूर्याणि चाप्यवाद्यन्त साधुसाध्विति चाभवत् ॥५८॥

जयन्तोपि यथा चक्रं विधाता बलवाँस्तदा ।
भ्रामयामास देत्येन्द्रं युगान्ताम्बुदवन्नदन् ॥५९॥

अथ स्वयं हिरण्याक्षः सोन्धको बलिरेव च ।
बाणोथ विप्रचित्तिश्च शम्बरोथ विरोचनः ॥ 8.86.६० ॥

कालकेयाश्च ते दैत्याः पौलोमाः सिंहिकासुताः ।
निवातकवचाश्चैनं समन्तात् पर्यवारयन् ॥६१॥

स तैः शरैर्गदाभिश्च परिघैर्दीघवेधनैः[^५५] ॥

अन्यै[^५६]श्च बहुभिश्चित्रैरायुधै:५७ प्रहतो भृशम् ॥६२॥

स हन्यमानस्तं देवो जयन्तः शक्रनन्दनः ।
हिरण्याक्षपथे[^५८] क्षिप्त्वा प्राद्रवद् येन देवताः[^५९] ॥६३॥

इति स्कन्दपुराणे युद्धे षडशीतितमोध्यायः