०८५

सनत्कुमार उवाच
विप्रचित्तिर्महामायो वायुं बहुभिराशुगैः ।
अवाकिरद्दनुसुतो वृष्ट्येव हि जलप्रदः ॥१ ॥

सञ्छादयन् तदा व्यास मण्डलीकृतकार्मुकः ।
इषूँश्चिक्षेप तीक्ष्णाग्राञ्छलभान् सागरो यथा ॥२॥

धारा बलाहकाद्यद्व[^१] ज्ज्योत्स्नाश्चन्द्रमसो यथा ।
रश्मयो भास्कराद्यद्वद्[^२] हिमं हिमगिरेरिव ॥ ३ ॥

तथा[^३] ते शरसङ्घाता[^४] धनुषो मण्डलीकृतात् ।
विप्रचित्तेर्विनिष्पेतु - - - - - - - -५ ॥४॥

भास्करं छादयानाँस्ताञ्छरानापततो बली ।
भगवाननिलो वेगादसुरेषु न्यपातयत् ॥५॥

तैः शरैस्तस्य दैत्यस्य दानवा बहवो[^७] हताः ।
छिन्नाश्च निष्टनन्त्युर्व्यां निरयस्था यथा नराः ॥६ ॥

तांस्तथा निहतान्[^८] दृष्ट्वा विप्रचित्तिर्महासुरः ।
अवप्लुत्य रथाद् वायोर्बाहुयुद्धमयुध्यत ॥७॥

तस्य युद्धप्रसक्तस्य वायोर्बलमवर्धत ।
अमन्यन्त सुराश्चैव निगृहीतं दनोः सुतम् ॥८॥

अथोत्पत्य तदा वेगाद् गदया पवनं दृढम् ।
अताडयत् हिरण्याक्षो गण्डदेशे महाबलः ॥९॥

बलाहकानां च - घ. । २.. श्चै (च्चै?) व - ख. । ३ कुथा - ख. । ४ शरणंयात्रा - ख. । ५ …र्वीक्षामृन्मथभेदतः (?) - ख. । ६ बला(त्) - ख. । ७ बहुशो - ख. । ८ विहतान् - ख. । ९ वायुं बाहुयुद्धेन योधयत् (?) ।
स तेन सुप्रहारेण हिरण्याक्षस्य - - - ।
—न्यन्न[^१०] किञ्चिच्च तत[^११] एव स दानवम्[^१२] ॥8.85.१०॥

परित्यज्य ययौ तूर्णमन्यदेशं[^१३] महाबलः ।
अंशसंवरयोश्चापि सुमहन्मुनिसत्तम ॥११॥

युद्धं समभवद् घोरं द्रष्टॄणां[^१४] तुष्टिवर्धनम् ।
अंशोस्यापततस्तूर्णँ संवरस्य महाबलः ॥१२॥

दर्शयल्ँलाघवं सम्यग् ध्वजं चिच्छेद काञ्चनम् ।
धनुश्च पञ्चधा कृत्वा ह्यान्निन्ये यमक्षयम् ॥ १३ ॥

ततोस्य सारथेः कायाच्छिरो भूमावपातयत् ।
भूय एनं चतुःषष्ट्या सायकानामविध्यत ॥१४॥

स मायां तामसीं घोरां समाविश्याशु दानवः ।
उपलैश्चापि वज्रैश्च गदाभिः परिघैरपि ॥१५॥

कङ्कटैः करवालैश्च भिन्दिपालैरयोघनैः ।
जघान सरथं देवमंशं[^१५] व्यास रणाजिरे ।१६॥

स सन्दृश्य[^१६] समन्ताच्च पात्यमानं[^१७] महाभयम् ।
अंशो मूढो रणं त्यक्त्वा प्रययावन्यतो भयात् ॥१७॥

भगो बलं[^१८] समासाद्य रथेनाम्बुदनादिना ।
तिष्ठतिष्ठेति तं दैत्यमुक्त्वा विव्याध पत्रिणा ॥१८॥

स सायकं समादाय बलोसुरमहारथः ।
भगं[^१९] हस्ततले तूर्णँ निर्बिभेद ररास च ॥१९॥

तत एनं समासाद्य मायया प्रहसन्निव ।
आाहत्योरसि पादेन स्वरथं पुनराव्रजत् ॥8.85.२०॥

तस्य तल्लाघवं शौर्यममूढत्वं सवीर्यताम्[^२०] ।
दृष्ट्वा देवासुराः सर्वे साधुसाध्वित्यपूजयन् ॥२१॥

त्यन्त - ख. ॥ ११ तप - ख. ॥ १२ दानव: - ख. ॥ १३ मध्यदशं - ख. ॥ १४ दंष्ट्रिन् (? ) - ख. ।
माशु - ख. ॥ १६ समदृश्यन् - ख. ॥ १७ पातयान् - ख. ॥ १= बलि - ख. ॥ १९ भगो - ख. ।
च वीर्यवान् - ख. ।
भगोपि लज्जयाविष्टः पदा तेनाहतस्तदा ।
मुशलेन ह्याँस्तस्य रथञ्चैव ससारथिम् ।२२॥

नामशेषाँस्तदा कृत्वा विननाद यथाम्बुदः ।
स्यन्दनं तु बलस्त्यक्त्वा चूर्णितं सहयं तदा ॥२३॥

भगस्य कार्मुक दिव्यं भूमिस्थश्चाच्छिनद्[^२१] बली ।
तत एनं पृषत्केन ललाटे समताडयत् ॥२४॥

हस्तयोश्च पुनर्व्यास शरैर्विव्याध सप्तभिः ।
गृह्णतः कार्मुकं चास्य पृष्ठदेशे[^२२] बलोच्छिनत्[^२३] ।२५॥

पुनश्चान्यत् पुनश्चान्यत् स जग्राह ततो भगः[^२४]॥

मुशलं कालमूलं तत् सर्वघात्यनलप्रभम् ॥२६॥

हतोसीति तमुक्त्वैव चिक्षेप बलनाशनम् ।
तमापतन्तं मुशलं बलो दानवपुङ्गवः ॥२७॥

शरैर्विष्टम्भयामास नन्दी मृत्युं यथात्मनः ।
अथ[^२५] प्रतिह्तं मत्वा मुशलं सोसुरः पुनः ॥२८॥

धनुष्कोटया भगं मूर्ध्नि बलवान् समताडयत् ।
रथश्च सह सूतेन गृहीत्वा कूबरे पुनः ॥ २९॥

चिक्षेप दक्षिणस्यां स[^२६] वायुर्गिरिमिवार्णवे ।
पूषा विरोचनं देवः शरैर्बहुभिराशुगैः ॥8.85.३०॥

विव्याध समरे क्रुद्धः स च तं प्रत्यविध्यत ।
सप्तभिर्निशितैर्बाणै (?)रिषुभिर्मर्मभेदिभिः ॥३१॥

क्रुद्धः पूषा तथाकृष्य बलवान् कार्मुकं महत् ।
_ _ _ _ _ _ _ _ _ _ _ _ ॥॥३२॥

जीवितान्तकरं घोरं युगान्तादित्यवर्चसम् ।
मुमोच रिपुमुद्दिश्य हृतस्त्वमिति चोचिवान् ।३३॥

श्चिच्छिदु(दे) - ख. ॥ २२ पुच्छिदेशे - ख. ॥ २३ बलाच्छिनत् - ख. ॥ २४ धनुर्भङ्गः - खः ।
अथा • ख, । २६ दक्षिणामाशां - ख. ।
तमापतन्तं बहुधा नदन्तं[^२७] दिशश्च सर्वा अवभासयन्तम् ।
उल्काः स्फुलिङ्गाश्च समुद्गिरन्तं ययौ रिपून् वेगवदुत्पतन्तम् (?) ।३४॥

स चाप्यवप्लुत्य महासुरेन्द्रो दृष्ट्वा तमादित्यसमानभासम् ।
मत्वाविषह्यं स्वरथं विहाय वियत् समाविश्य ततोवतस्थे ॥३५॥

तत्तस्य सूतञ्च[^२८] ह्योपपन्नं महारथं सर्वगमस्त्रवर्यम् ।
कृत्वाशु भस्मेव यथा हुताशो[^२९] जगाम खं दिव्यमदृश्यरूपम्[^३०] ।३६॥

इति स्कन्दपुराणे युद्धे पञ्चाशीतितमोध्यायः