०८४

सनत्कुमार उवाच
स युद्धयज्ञस्तत्राग्र्यो[^१] राज्यार्थमभवत्तदा ।
तत्र यज्वा[^२] स्वयं देवः[^३] सहस्राक्षः प्रतापवान् ॥१॥

सीधयन्ती - ख. । २४ नदन्तो (न्ते) - ख । २५ दानवाः - ख. । २६ नदीहास्ति - ख. । २७ मा त्वरी - ख. । २८ कस्ते - ख. । २९ प्रजान्नये - ख. । ३० अपरे (?) । ३३१ हित्यं?, । ३२ योधं - ख. । ३३ स्फोटिता - ख. । ३४ प्रवर्द्धनं (?) । ३५ जीवितान्तकरणं बभौ -ख. । ३६-३९ ख । १ स्तत्रोग्रो (?) । २ यष्टा - घ. । ३ देवं - ख. ।
सह देवैः सुराध्यक्षः कुशास्तस्य शरा मताः ।
आयुधानि विचित्राणि स्रुवा[^४] यैर्हूयते हविः ॥२ ॥

हविः प्राणाः समाख्याता[^५] अग्निर्मृत्युर्महाप्रभा[^६] ।
मन्त्राश्चास्त्राणि दिव्यानि पुरोडाशाः शिरांस्यपि ॥ ३ ॥

सोमस्तत्र जयोभून्नु[^७] रुद्राश्चाध्वर्यवोभवन्[^८] ।
आदित्या बह्वृचश्चासन् होत्रं च[^९] वसुभिः कृतम् ॥४॥

ब्रह्मा समभवच्चात्र स्वयं देवो बृहस्पतिः ।
शामित्रं चाश्विनौ तौ तु यज्ञ एवं व्यवर्त्तत[^१०] ॥५॥

पशुस्तत्राभवद्दैत्यो हिरण्याक्षः सहानुगः[^११] ।
एवं बभौ तदा यज्ञो दैत्यानां शिशिराधिपः(?) ॥ ६॥

हिरण्याक्षोभवद्यज्वा दैत्यदानवनायकः ।
विप्रचित्तिरभूद् होता प्रस्थातारश्च[^१२] दानवाः ॥७॥

उद्गाता चैव प्रह्लादः शुक्रो ब्रह्मा च सुव्रतः ।
पशुरिन्द्रः सहस्राक्ष एवं सोयजदव्ययः ॥८॥

तस्मिँस्तदा महायज्ञे वर्तमाने महाभये ।
इन्द्रः समासदद्दैत्यं हिरण्याक्षं महाबलम् ॥९ ॥

वायुरभ्याययौ तूर्णं विप्रचित्तिं महाबलः ।
सक्तोभूत् संवरेणांशो बलेन[^१३] भग एव च ॥8.84.१०॥

विरोचनेन पूषा च मित्रो बलिमथासजत् ।
बाणेन वरुणः सार्धमन्धकेन यमस्सह ॥११ ॥

जयन्तेनेल्वलः सार्धं मयेन[^१५] सह चन्द्रमाः ।
अहिर्बुध्न्येन राहुश्च कापाली शतकेतुना ॥१२ ॥

अजैकपात् कालनेमिं ज्वरः कार्तस्वनेन च ।
प्रह्लादेनार्यमा सार्धमनुह्लादेन वै धरः ॥ १३ ॥

स्रुवो - ख. । ५ .श्चान्धक (आख्या?) - घ. । ६ प्रभुः - घ.. …प्रभः (?) । ७ जयोभूच्च - घ. । ८ पर्वणाभवन् - घ. । ९ … न्नोत्रं - ख., उद्गात्रा - घ. । १० न्यवर्तत - ख., प्रवर्तत - घ.। ११ सहानुगैः - घ. । १२ प्रस्तोतारश्च (?) । १३ संवरेणाशुर्बलेन - ख. । १४ …मथासृजत् - ख., मयुध्यत - घ. । १५ यमेन - ख. ।
ध्रुवो ह्रदेन[^१६] संसक्तो ह्यन्ये चान्यैर्महाबलाः ।
हिरण्याक्षस्तदेन्द्रस्य[^१७] दृढमायम्य कार्मुकम् ॥१४॥

विव्याध गजमेकेन कुम्भदेशे महाबलः ।
देवेन्द्रं पञ्चभिर्बाणैर्जत्रुदेशे समाहनत्[^१८] ।
षड्भिर्ललाटे विव्याध गजं भूयश्च सप्तभिः ॥१५॥

स गजस्तैः शरैर्भिन्नः क्षरन् रुधिरमाबभौ ।
गैरिकाम्बुपरिस्रावी श्वेतः पर्वतराडिव ॥ १६॥

तस्य क्रुद्धस्तदा शक्रो वज्रेण शतपर्वणा ।
प्रहारमददद् व्यास गण्डदेशे ननाद च ॥ १७॥

स वज्रघातं दैत्येन्द्रः पुष्पघातमिवोर्जितम् ।
अचिन्तयानः सगजं शक्रमेवार्दयद्बली ॥ १८॥

गजोपि तेन निर्भिन्नः क्षरद्रुधिर आबभौ[^१९] ।
हविषेवानलः क्रोधात् प्रजज्वाल जगर्ज च ॥१९॥

स वेगं महदास्थाय अङ्कुशेन च चोदितः ।
हिरण्याक्षरथं तूर्णं जग्राह रथकूबरे ॥ 8.84.२० ॥

गृहीत्वा स तमुत्क्षिप्य[^२०] चिक्षेप गजसत्तमः ।
मेरुशृङ्गमिवोत्क्षिप्य समेघं श्वेतकुण्डली ॥२१ ॥

गत्वा मुहूर्त्तं वेगेन पतन् रथवरो[^२१] बभौ[^२२] ।
स्वर्भानुना हतः पूर्वं सरथो भास्करो यथा ॥२२ ॥

तत्र सम्यक् स्थितं भूमौ हिरण्याक्षरथं पुनः ।
आजगाम गजस्तूर्णं[^२३] जिघृक्षुर्मुनिसत्तम ॥ २३ ॥

प्रसारितकरो दन्ती स्तब्धदृक्कर्णबालधिः ।
अभ्यधावत वेगेन गरुत्मानिव पन्नगम् ॥२४॥

तमापतन्तं वेगेन समीक्ष्यासुरसत्तमः ।
बभार[^२४] स तदा व्योम्नि गरुत्मानिव पन्नगम् ॥२५॥

ह्रादेन (?) । १७… स्तथेन्द्रस्य - ख., स्सुरेन्द्रस्य - घ । १८ समाहतः - ख. । १९… माबभौ - ख। २० न (त) दोत्क्षिप्या - ख. । २१ द्रथवरो - ख । २२ मतौ - ख. । २३ रथं तूर्णं - ख । २४ दगार (?) - ख, वघार - घ. ।
तं तु मण्डलमावृत्तं गजोप्यनु तथैव हि ।
स्तब्धदृक्कर्णलाङ्गूलः प्रसारितकरोभ्रमत् ॥२६॥

हाहाकृतमभूत् सर्वं साधुसाध्विति चोभयोः ।
बलयोर्देवदैत्यानां मूकवच्चाभवत्पुनः ॥ २७॥

साधु दैत्येति चान्येषां हिरण्याक्षेति चैव हि[^२५] ।
स गजस्कन्धगो भाति भ्रमन् सुरगणेश्वरः ॥२८॥

सपक्ष इव[^२६] शैलेन्द्रे महिषोग्रं समास्थितः[^२७] ।
हिरण्याक्षश्च दैत्येन्द्रो भ्रमित्वा त्रिर्महासुरः ॥२९॥

गजं द्रुतमिवोत्सार्य रथे तस्थौ महाबलः ।
युध्यमानस्तु दैत्येन्द्रो दृढमायम्य कार्मुकम् ॥8.84.३० ॥

देवराजं शरैस्तीक्ष्णैः समन्तात् पर्यवारयत् ।
स तैः शरैस्तदा व्यास मर्मसन्धिषु ताडितः ॥३१ ॥

वज्रेण शतधा तस्य कवचं प्रव्यशातयत् ।
हयानां चैव योक्त्राणि सर्वाण्येव त्वकृन्तत ॥३२॥

रश्मीँश्च सूतहस्तस्थान् प्रतोदं चैव काञ्चनम् ।
चिच्छेद वहुधा शक्रः प्रहसन्निव वीर्यवान् ॥३३ ॥

छिन्नयोक्त्रास्ततोस्याश्वाः स्वछन्दाः सम्प्रतस्थिरे[^२८] ।
हिरण्याक्षोप्यवप्लुत्य गदया समताडयत्[^२९] ॥३४॥

गजं सुरपतिं चैव खङ्गेन स महासुरः ।
स गजस्तेन घातेन त्यक्त्वा तं रथसत्तमम् ॥ ३५॥

शकृन्मूत्रं सृजन् व्यास प्राद्रवद् बलवांस्तदा ।
मर्दयानो नदँश्चैव भ्रामयन् सुरसत्तमम्[^३०] ॥३६ ॥

असिनाभ्याहतश्चापि देवराजो महाबलः ।
नार्त्तिमानभवत् सङ्ख्ये न - - - - - - -३१ ॥३७॥

ह - ख. । २६ सपक्षमिव - ख. । २७ महिषोग्निसमास्थितः - ख. । २८ समतस्थिरे - ख. । २९ मास … - ख. । ३० बभ्रामाशु रसँस्तदा (?) । ३१ न चाप्य.. .क्षमाबभौ - ख., च क्षतमना - घ. ।
स दानवेन्द्रप्रहतेन दन्तिना महाबलः प्रस्रुतदानगन्धिना ।
अमृष्यमाणः प्रययौ प्रमाथिना हिरण्यनेत्रेण युधि प्रमाथितः ॥३८॥

इति स्कन्दपुराणे युद्धे चतुरशीतितमोध्यायः ।