०८२

सनत्कुमार उवाच
तांस्तथांशेन दैत्येन्द्रान् काल्यमानानितस्ततः ।
दृष्ट्वा बलो महामायो यन्तारमिदमब्रवीत् ॥१ ॥

नयस्व मां यतोंशोयं दुरात्मा दहते बलम् ।
यावदेनं शितैर्बाणैर्नयामि यमसादनम् ॥२॥

तस्यापतत एवांशस्तदा प्रहरतां वरः ।
ध्वजं चिच्छेद[^१] बाणेन हयाँश्चैकैकशस्तदा ॥३ ॥

-यः - क..। २३ … नंशस्य - ख. । २४ धनमाभाति - ख. । २५ दीप्तहस्तो - घ. । २६ महानिति -ख. । २७ अध्यायः १३९ - ख. ।
ध्वजाश्चिच्छेद - ख. ।
भल्लेन च शिरः कायाद्यन्तुराशु न्यपातयत् ।
तञ्चैव पञ्चभिर्बाणैर्ललाटे समविध्यत ॥४॥

तस्य दैत्यस्य ते भान्ति ललाटे पञ्च सायकाः ।
घनोदरविनिष्क्रान्ता भास्करस्येव रश्मयः ॥५॥

दैत्योपि हि तदा धन्वी[^२] वियदुत्पत्य रोषितः ।
सायकैर्बहुभिर्व्यास सोंशं समकिरद्बली ॥६॥

सुवृष्टिमिव[^३] जीमूतः - - - - इवाशनिम् ।
करान् दिवाकरो[^४] यद्वत् तुषारं चन्द्रमा यथा[^५] ॥७॥

तथा स दानवो दर्पाद्बलः प्रहरतां वरः ।
अंशमेवाकिरत्तीक्ष्णैः सायकैर्मर्मभेदिभिः ॥८॥

ध्वजं चैवास्य चिच्छेद बहुधा दानवेश्वरः ।
हयान् वेगहतान् कृत्वा सारथिं चाप्यसारथिम् ॥९ ॥

कार्मुकं बहुभिर्बाणैर्व्यधम - - - - - ।
यथांशं स चकारोग्रस्थान्यानपि दैवतान्[^६] ॥8.82.१० ॥

निरुद्यमान् महामायश्चकार विररास च ।
क्वचिद् गीष्पतिसङ्काशः[^७] क्वचिद् भास्करसन्निभः ॥ ११ ॥

क्वचित्सोमाग्निकल्पश्च क्वचित्ताराग्रहैस्समः[^८] ।
क्वचित्पर्वतसङ्काशः क्वचिद् गृध्रवपुर्धरः ॥ १२ ॥

क्वचिच्चाकाशमाविश्य अदृश्यः सोसृजच्छरान् ।
शरोपचितगात्रं तच्छिन्नं भिन्नं विदारितम् ॥ १३ ॥

विष्टब्धं मूकवत्सर्वं देवानां बलमाबभौ ।
नष्टवादित्रनिनदं हयहेषितवर्जितम्[^९] ॥ १४॥

गजबृंहितविभ्रष्टं श्रान्त[^१०] योधोग्रनादितम् ।
निष्पन्दं तद्बलं भाति चित्रप्रत्यर्पितं यथा ॥ १५ ॥

म(स्र) ग्वी - ख.। ३ सवृष्टिरिव - ख । ४ दित्यकरो - ख । ५ इव - ख ६ देवतान् ख । ७ …च्छ्रीपतिसङ्काशः (?) । ८. ग्रहैस्सह - ख. । ९ गर्जितम् - ख. । १० शान्त - (?) ।
ऊर्ध्वं निरीक्षते तत्र यः कश्चिद्विबुधो बले ।
बलस्तस्य शरैर्वक्त्रमकरोद्वि - वद्बली ॥ १६॥

      • – – – – – – - ।
        चेष्टाविराहिता[^११] श्चासन् यथा मोक्षपथि[^१२] स्थिताः ॥ १७॥

तांस्तथा सीदतः सर्वान् दृष्ट्वा बलमहार्णवे ।
वायुर्जयन्तः पूषा च भगश्च सुमहाबलाः ॥ १८॥

नदन्तस्ताञ्छराँस्तस्य बलस्य समवारयन् ।
वायुस्तस्य महाभाग शरान्मेघादिवोदितान्[^१३] ॥१९॥

मुञ्चतो[^१४] मुच्यमानाँश्च मुक्ताँश्चैवाहरद्बली ।
भगोस्य कार्मुकं दिव्यमच्छिनत्प्रहसन्निव ॥8.82.२० ॥

देहत्राणं तथा पूषा जयन्तश्चेषुधी तथा ।

                                • ॥२१॥

समार्दयन् शरैस्तीक्ष्णैर्देवा रविसमप्रभाः ।
सोर्द्यमानस्तदा देवैर्बली दनावपुङ्गवः ॥२२ ॥

वृक्षैः काननजैर्व्यास युयुधे भीमविक्रमः ।
तान्द्रुमाँस्ते तदाक्षिप्तान् बलेन बहुधा शुभान् ॥२३ ॥

क्रचुःशरैर्देवतेन्द्रास्ततः स गिरिमाव्रजत् ।
गृहीत्वा स महच्छृङ्गं समृगव्यालकिन्नरम् ॥२४॥

चिक्षेप सुमहानादं[^१५] प्रकुर्वाणोतिदारुणम् ।
तथा पतन् स[^१६] वेगेन पवनो बलवान् बलात् ॥२५॥

जहार शृङ्गं तच्चापि पपातासुरमूर्धनि ।
दानवानां तदा कोटिमेकां वीर्यवतां युधि ॥२६ ॥

जघान बलमुक्तं तद् गिरिशृङ्गं महास्वनम् ।
तान् हतान् दानवास्तेन शृङ्गेण दितिनन्दनान् ॥२७॥

चेष्टाविरहितं - घ. । १२ मोक्षपथे (?) । १३ …निवोदितान् - ख. । १४ मुच्यतो - ख. । १५ सुमहत् नादं - ख. । १६ पतन्तं - ख. ।

( ४७५) दृष्ट्वा देवांश्च तानुग्रानभज्यन्त[^१७] सहस्रशः[^१८] ।
रथैरश्वैर्गजैश्चैव तथा चैव पदातयः ॥२८॥

उत्सृज्य वाहनान्यन्ये[^१९] जीविताभ्यर्थिनस्तदा[^२०] ।
प्रमुञ्चन्तो महानादान् पलायन्त[^२१] सहस्रशः ॥२९॥

द्रबतस्तान् तदाभ्येत्य हिरण्याक्षः स दानवः (?) ।
विप्रचित्तिश्च दनुजः प्रह्लादश्च महाबलः ॥8.82.३०॥

मय - -२२ न्धको दैत्यस्तारकः शक्रतापनः ।
ऊचिरे दानवान् सर्वान् दैत्यांश्च भयविह्वलान् ॥३१ ॥

भो भो दानवशार्दूला दैत्याश्च सुरशत्रवः ।
किं पलायथ[^२३] तिष्ठध्वं मा भयं वोस्तु दानवाः ॥३२॥

क्व गता दानवा यूयं सुखं लप्स्यथ वा न वा ।
एते बलमजानन्तो[^२४] देवाः पूर्वं महाबलाः ॥३३ ॥

न प्रमर्दन्ति पाताले स्थितान्नाप्यसुरोत्तमाः[^२५] ।
निःशेषान् प्रमथिष्यन्ति पातालेपि कुलाधमाः ॥३४॥

मा यात विनिवर्तध्वं रिरक्षिषत[^२६] सर्वशः ।
सुयुद्धेनात्मनो दैत्या मा भयं वोत्र जीविते ॥३५॥

क्व गतं दनुजत्वं वः क्व गता दैत्यता च वः[^२७] ।
क्व च वैरं सुरैः सार्धं क्व राज्यहरणं गतम् ॥३६। ॥।
यद् धैर्यं[^२८] यश्च वो दर्पः कुलं जन्म[^२९] च यद्धि वः[^३०] ।
यच्च वो[^३०] गर्जितं पूर्वं तस्य कालोयमागतः ॥३७॥

तदा ब्रुवत यद[^३२] दैत्या न बाला[^३३] वयमित्युत ।
वयमेकैकशो योग्या देवानां नाशनेपि[^३४] च ॥३८॥

तस्य कालोयमद्येह प्राप्तः किं विपलायथ[^३५] ।
तत् सर्वं गर्जितं वोद्य जानाम्यहमतः परम् ॥३९॥

दृष्ट्वान्ये दानवाः सर्वे व्यभजन्त (?) । १८ सुरशत्रवः - घ. । १९ वाहनानन्ये - ख. । २० जीबितेनार्थिन- स्तदा - ख. । २१ प्रविलीनास्तदा दैत्या दानवाश्च - घ. । २२ यममुक्तो - ख. । २३ पलायत - ख । २४ एतैर्बलमजानन्तो - ख. । २५ स्थित्वा नाप्यसुरोत्तमाः - ख । २६ ररक्षारुत - ख. । २७ गतो दैत्यश्च वः - ख. । २८ यद्वैरं - ख. । २९ कुलजन्म - ख. । ३० महर्द्धिमत् - घ. । ३१ ते - ख. । ३२ यत्तद्ब्रुवते तदा - ख., यत्तु ब्रूत तदा - घ. । ३३ बलिनो - घ. । ३४ नाशनेति - ख. । ३५ .. षिञ्चि पलायत - ख. ।
शरदम्बुदवद् दैत्या व्यर्थं मा यात भीरिह[^३६]
निवर्तध्वमधर्मज्ञा युध्यध्वं कृतनिश्चयाः ॥8.82.४० ॥

वीक्षध्वं मे सपुत्रस्य महत् कर्म कुलाधमाः ।
कश्यपस्य सुतः श्रीमान् हिरण्याक्षोस्मि दानवाः ॥४१ ॥

अन्धकश्च सुतोयं मे ब्रह्मदत्तवरः शुभः ।
हिरण्यकशिपोर्वीर्यं यदभूदसुरोत्तमाः ॥४२ ॥

द्विगुणं तन्ममाप्यस्ति वीक्षध्वं तदशङ्किताः ।
अद्य चैतान् मया सर्वान् हतान् पश्यत दानवाः ॥४३ ॥

सङ्ग्रामे यदि तिष्ठन्ति सर्वे देवा ममाग्रतः ।
अद्य त्रैलोक्यमव्यग्रं हतेष्वसुरशत्रुषु ॥४४॥

विज्वरा भोक्ष्यथ[^३७] सुखं मयेन्द्रेणासुरोत्तमाः ।
मा वोस्तु भयमद्येह यथा तिष्ठन्ति साधवः[^३८] ।
सपुत्रं मां युधि यथा वीक्षमाणास्तु तिष्ठत ॥४५ ।
सनत्कुमार उवाच
त एवमुक्ता विप्रेन्द्र गजास्तोत्रार्दिता इव ।
विनिवृत्ताः पुनः सर्वे लज्जयातिसमावृताः[^३९] ॥४६॥

ते छत्रसञ्छादितवक्त्रपद्मा लज्जासमाविष्टविरागवक्त्राः[^४०] ।
न तस्य राज्ञो मुखतोवतस्थुस्तिमेरिवार्त्ताः सलिलेल्पमीनाः ॥४७॥

इति स्कन्दपुराणे युद्धे असुराक्रोशनो नाम द्वद्यशीतितमोध्यायः