०८१

सनत्कुमार उवाच
हिरण्याक्षस्तदायान्तं दृष्ट्वा देवेन्द्रमग्रतः[^१] ।
उवाच रथयन्तारमिन्द्रं प्रति नयस्व माम् ॥१॥

स तेन चोदितस्तस्य चोदयानस्तदा हयान् ।
अनयत्तं सुरेन्द्राय हुतं भागं यथानलः ॥२॥

स गजस्कन्धगं देवं सहस्राक्षं सुरेश्वरम् ।
शरपाते तदा स्थित्वा प्रोवाचासुरपुङ्गवः ॥३॥

शक्र यत्ते बलं किञ्चित् तद्विदर्शय मा चिरम् ।
पूर्वदेवा वयं चैव त्रैलोक्यं चाखिलं हि नः ॥४॥

ज्येष्ठक्रमागतं कृत्वा न्यायेन च सुरोत्तम ।
ते यूयं न्यायमुत्सृज्य हत्वा मे भ्रातरं पुनः ॥५॥

विश्रम्भेण शठा भूत्वा पश्चाद् देवत्वमागताः ।
इमे वयं पूर्वदेवा न वा यूयञ्च देवताः ॥६॥

युध्यतां वोद्य सर्वेषां जीवितानि हराम्यहम् ।
सहानुगैस्त्वामिहाद्य हत्वा कृत्वा बलिं तथा ॥७॥

भविष्याम्यनृणो भ्रातुर्यस्त्वया मायया हतः ।
स एवमुक्त्वा बलवद्धनुराकृष्य वीर्यवान् ।
ललाटे पञ्चभिर्व्यास विव्याध निशितैः शरैः ॥८॥

स विद्धस्तेन देवानां ललाटे पञ्चभिः शरैः ।
राजा बभौ यथा मेरुः सूर्यपादैः समावृतः ॥९॥

अथ तस्य तदा शक्रः पुनश्चङ्क्रमतो[^२] धनुः ।
चिच्छेद वज्रमादाय पुनश्चैनमताडयत् ॥8.81.१० ॥

स तेन सुप्रहारेण दिशो दीप्ता ह्यपश्यतः ।
अन्यच्च धनुरादाय पुनरेव व्यकर्षत ॥११ ॥

मभ्यगात् - ख. । २ -..श्चक्रमतो - ख.।
तदप्यस्याच्छिनद्राजा[^३] तथान्यद् भूय एव च ।
अथ शक्तिं समादाय चिक्षेप रुषितस्तदा ॥१२॥

तामापतन्तीं दीप्तास्यामुग्रां मृत्योरिव स्वसाम्[^४] ।
वज्रेण राजा[^५] चिच्छेद तदद्भुतमिवाभवत् ॥१३ ॥

गदामन्यां समुद्यम्य हिरण्याक्षस्तदा शुभाम् ।
अभिदुद्राव वेगेन क्रुद्धः सिम्ह इव द्विपम् ॥१४॥

तस्यापतत एवाशु गदां हेमपरिष्कृताम् ।
चिच्छेद बहुधा राजा धर्मार्थाविव[^६] नास्तिकः ॥१५॥

अथैनं विप्रचित्तिश्च शिनिर्बाष्कलिरेव च ।
मयश्च सम्बरश्चैव असिलोमा च दानवः ॥१६॥

तारश्च कारकश्चैव तथेन्द्रदमनः स च ।
कालनेमिश्च[^७] षण्डश्च विपाकः पाक एव च ॥१७॥

इल्वलो नमुचिश्चैव वातापी कालमुञ्जिकः[^८] ।
एते सर्वे महामाया देवेन्द्रमभिदुद्रुवुः[^९] ॥ १८॥

तानापतत एवाथ रुद्रादित्याः प्रमन्यवः ।
रुरुधुर्विजने[^१०] यद्वद् गजान् सिंहाः समूर्जिताः ॥ १९॥

तेषां तेषां च सङ्ग्रामः सुघोरः समपद्यत ।
अरण्येन्योन्यसम्पातान्मत्तानां दन्तिनामिव ॥8.81.२० ॥

तत्रांशो[^११] नाम आदित्यो रथेनाम्बुदनादिना ।
आयम्य कार्मुकं व्यास दानवान् समुपाद्रवत् ॥२१ ॥

स विप्रचित्तिं दशभिः शिनिं पञ्चभिरेव च ।
त्रिभिश्च वाष्कलिं सङ्ख्ये मयं[^१२] पञ्चभिरेव च ॥२२॥

संवरं चैव विंशत्या असिलोमानमेव च ।
तारं च तारकं चैव इल्वलं नमुचिं तथा ॥२३ ॥

तमप्यस्याच्छिनद्राजा - ख- । ४ स्नुषां - ख. । ५ मृजु - ख. । ६ धर्माथानिव - ख. । ७ कालनेमी च - ख. । ८ कालभुञ्जितः - ख. । ९ .. दुद्रुवे - ख. । १०. -विजये - ख. । ११ तत्रांसो - ख. । १२ यमं - ख. ।
वातापिं[^१३] चेन्द्रदमनं विपाकं पाकमेव च ।
कालनेमिं च षण्डं च तथा चामीसृमुञ्जिकम्[^१४] ॥२४॥

एतान्सर्वान् स विव्याध दशभिर्दशभिः शरैः ।
विकर्षतां च सङ्ग्रामे आदित्यो लघुहस्तवान् ।
धनूंषि युगपद्देवश्चिच्छेद च ननाद च ॥२५॥

तत एषां पुनर्वाहान् सूतान् दिव्यान् जयध्वजान् ।
प्रहसन्निव विप्रेन्द्र सायकैर्बहुधाकरोत् ॥२६॥

ते हताश्वा महेष्वासा हतसूताश्च सर्वशः ।
वेगेन खङ्गिनः सर्वे अंशमेवाभिदुद्रुवुः[^१५] ॥२७॥

तान्मूर्त्तीनिव शैलेन्द्रान् गर्जतो जलदानिव ।
असम्भ्रान्तस्तदादित्यो जानुष्वेवावपूरयत् ॥२८॥

शरपूरितगुल्फास्ते जानुष्वेव च दानवाः ।
अंशमुत्सृज्य[^१६] वेगेन जग्मुरन्यां दिशं तदा ॥२९॥

ततो देवास्तदा चक्रुर्महान्तं तूर्यनिस्वनम् ।
सिंहनादाश्च विपुलान् बाहुशब्दाँश्च पुष्कलान् ॥8.81.३० ॥

अंशोप्यायम्य भगवान् धनुरिन्द्रायुधोपमम् ।
दानवानां सदैत्यानामकरोत् कदनं महत् ॥३१ ॥

शिरांसि दानवेन्द्राणामंशः प्रहरतां वरः ।
अपातयत्[^१७] फलानीव पक्वानि श्वसनो यथा[^१८] ॥३२ ॥

धावन्ति केचिदंशेन[^१९] अशिरस्काः शरैः कृताः ।
गत्वा वेगेन सङ्ग्रामात् पतन्त्यूर्व्यां गतासवः ॥३३ ॥

अपरे बाहुभिश्छिन्नैरूरुभिश्च महाबलाः ।
पतिता निष्टनन्त्युग्रं[^२०] निरयस्था यथा नराः ॥३४॥

शरपूरितसर्वाङ्गाः शरसम्बद्धबन्धनाः ।
भ्रमन्ति तत्र तत्रैव संसार इव देहिनः[^२१] ॥३५ ॥

वातापी - ख. । १४ मुण्डिकं - ख । १५ अंशुमेवाभिदुद्रुवुः - ख. । १६ अंशुमुत्सृज्य - ख. । १७ अपालयत् - ख., अफालयत् (?) । १८ पक्वानीव घनावली - घ., श्वसतो म्यथा? – ख । १९ दन्तेन - ख. । २० …न्त्युग्रा - ख. । २१ रागिणः (?) ।..
न स तत्रास्ति दैत्यो वा दानवो वा महाबलः ।
यं[^२२] शरा न विशन्त्युग्रा अंशस्य[^२३] सुमहात्मनः ॥३६॥

बन्धुजीववनं यद्वद् वनमाभाति[^२४] पुष्पितम् ।
अशोककिंशुकानां वा तथा दैत्यबलं बभौ ॥३७॥

अयमंशोयमंशेति नेत्ययं चायमित्युत ।
सर्वमंशमयं दैत्या ह्यपश्यन्त भयार्दिताः ॥३८॥

सोपि नित्यायतधनुः परिवेषीव भास्करः ।
यं यतः पश्यते दैत्यं तं तं विव्याध पत्रिभिः ॥३९॥

नाददानस्तदा ह्यंशः सन्दधानस्तथापि वा ।
न विकर्षन्धनुश्चैव लक्ष्यते दैत्यदानवैः ॥8.81.४० ॥

मण्डलीकृतमेवास्य दृश्यन्ते कार्मुकं महत् ।
आदित्य इव मध्याह्ने दृश्यते स तदा युधि ॥४१ ॥

स दिव्यचापो[^२५] लघुहस्तवान् बली सदा महामण्डलभूतकार्मुकः ।
ददाह शत्रून् पवनेरितो रणे विभावसुः शुष्कमिवेन्धनं महद्[^२६] ॥४२॥

इति स्कन्दपुराणे युद्धे एकाशीतितमोध्यायः[^२७]