सनत्कुमार उवाच
तस्मिन् महति युद्धे१ तु वर्तमाने महाभये ।
दानवान् वै तदा२ देवा३ समन्तात् पर्यवारयन् ॥ १ ॥
मृत्युः कालो यमश्चैव कृतान्तः कलहस्तथा ।
निकृतिर्व्याधयश्चैब वैरं क्रोधश्च वीर्यवान् ॥२॥
नरकाश्चैव ते सर्वे यमदूताश्च सर्वशः ।
प्रेताश्च पितरश्चैव चत्वारो ये४ गणास्त्विति५ ॥ ३ ॥
वामनश्चैव यो देवाः किङ्कराश्च महाबलाः ।
एते सर्वे तदाविश्य सञ्जघ्नुर्दानवं बलम् ॥४॥
यमदूतैर्विभिन्नाङ्गा भग्नवक्षत्रिकोरसः ।
निष्टनन्ति क्षितौ दैत्या निरयेष्विव पापिनः ॥५॥
असिचर्मविनिष्पिष्टा मृत्युपाशोवपाशिताः ।
कृतान्तवशगास्सर्वे सम्भज्यन्ति दितेः सुताः ॥६॥
योधयन्ति - घ. । ३३ गायन्ति - घ. । ३४ जयन्ति - घ । ३५ मोदन्ति - ख. । ३६ स्वराज्यहेतो - ख. । ३७ …नेति - ख. । ३८ …मो - ख. ।
हतनियुद्धे - य. । २ दानवाँस्ताँस्तदा - घ., देवा वै - ख. । ३ देवान. - ख. । ४ स्वत्वा ये च । घ. । ५ गणेष्विति - घ. ।
ते हन्यमाना दैत्येन्द्रा मृत्युना च यमेन च ।
त्रातारमलभन्तो वै तत्र तत्रैव बभ्रमुः ॥७॥
तथा तांस्तत्र तत्रैव भ्रमन्तो जघ्नुरार्दिताः ।
ततो हाहाकृतः शब्दो६ दानवानां बलेभवत् ॥८ ॥
साधुसाध्विति देवानां यभं पूजयतामभूत् ।
अथ प्रह्रादतनयो विरोचन इति श्रुतः ॥९॥
स गजेन ततोभ्येत्य देवानां बलमार्दयत्७ ।
सह तेन महामायो गजेन समधावत ॥ 8.80.१० ॥
यमं प्रदक्षिणं कृत्वा द्रोणमेघ इवापरः ।
स शरैर्बहुभिस्तीक्ष्णैरकुण्ठाग्रैरयोमयैः८ ॥ ११ ॥
वरुणञ्च धनेशञ्च वायुञ्चैवाभ्यवर्षत ।
स सञ्छाद्य तदा भासं भास्करस्य शितैः शरैः ।
अवाकिरत्तदा देवान् संवर्त्तक इवाम्बुदः । १२॥
ते शरार्चितसर्वाङ्गा वध्यमानाः पुनः पुनः ।
क्षणेन समपद्यन्त देवाः सर्वे विचेतसः ॥ १३ ॥
यान्तमायान्तमप्राप्तं प्राप्तं दूरस्थमेव च ।
यं यतो वीक्षते दैत्यस्तं ततोभिजघान सः ॥ १४॥
नित्यायतधनुर्देत्यः परिवेषीव९ भास्करः ।
दुर्निरीक्ष्यः१० समभवद् युगान्ताग्निरिवोत्थितः ॥१५॥
अथैवमस्यतो व्यास वरुणः कार्मुकं तदा ।
चिच्छेद सुमहद्धीमाँस्तर्जयन्दानवेश्वरम् ॥ १६॥
वायुस्तीक्ष्णशरैस्तस्य कवचं सर्वतोहरत् ।
धनेशोशनिघातेन गजमस्य न्यसूदयत् ॥ १७॥
तं तथा निकृतं दृष्टवा बलिर्बाणश्च तावुभौ ।
प्रह्लादो भ्रातृभिः सार्ध लोकपालानुपाद्रवन् ॥१८॥
कृतं सर्वे- ख. । ७ वलमदर्शयत् - ख- । ८ … यन्मयैः ? - ख. । ९ पारिवेषीव - ख. । १० दुर्निरीक्षः ख.।
तेषामापततामेव लोकपाला महाबलाः ।
शरैराशीविषाकारैश्चक्ररक्षानपोथयन्११ ॥ १९॥
वायुर्बाणस्य विशिखैः कार्मुकाणि विकर्षतः ।
चिच्छेद युगपद् व्यास तदद्भुतमिवाभवत् ॥8.80.२० ॥
विच्छिन्नधन्वा स१२ क्रुद्धस्तोमराणि तदासृजत् ।
चिक्षेप तानि वेगेन वायुरन्यां दिशं पुनः ॥२१ ॥
हयाँश्च पुनरेवास्य शरैः सन्नतपर्वभिः ।
ससूतान् परमायस्तो१३ ह्यनयद्यमसादनम् ॥ २२ ॥
स रथाद्बलिजः क्रोधादवप्लुत्य महाबलः ।
गदां गृहीत्वा वेगेन श्वसनं समुपाद्रवत् ॥२३ ॥
तस्यापतत एवाशु सगदस्यानिलस्तथा१४ ।
शरैराशीविषाकारैर्गदां तां समकृन्तत ॥२४॥
स निकृत्तगदश्चापि बाणः प्रहरतां वरः ।
प्रगृह्य तु गदामन्यां चिक्षेप च जहास च ॥ २५॥
तामापतन्तीं वेगेन गदां बाणस्य१५ खेचरीम् ।
आक्षिप्य वायुर्व्यधमदन्यां दिशमदीनवत् ॥२६ ॥
विरथं तमथालक्ष्य१६ वायुना च भृशार्द्दितम्१७ ।
पुत्रं बलिर्द्रुतं व्यास स्वरथे१८ समपादयत् ॥२७॥
तावेकरथसंयत्तौ१९ बभतु२०र्दानवेश्वरौ ।
सूर्याचन्द्रमसौ यद्वत् पूर्णमास्यां२१ समागतौ ॥२८॥
अथ तेषाञ्च तेषाञ्च तद्युद्धमभवत्तदा२२ ।
-
-
-
-
-
- ।
तान्निरुद्धानथाज्ञाय लोकपालैर्महाबलैः ॥२९॥
- ।
-
-
-
-
न्यपोथयन् - ख. । १२ सं - ख. । १३ परयापस्तो - ख. । १४ भगवाननिलस्तथा - ख. । १५ मानस्य - घ. । १६ विमुखं तमनालक्ष्य - थ. । १७ शरार्दितम् - ख. । १८ सरथे - घ., स्वरथे (?), रथेन - ख. । १९ अथैकरथसम्पन्नौ - घ. । २० बभूवु - ख., बिभिदु - घ. । २१ पौर्णमास्यां - घ. । २२ तद्युद्धमभवद् घोरवत्तदा - घ. ।
निवातकवचाः सर्वे कालकेयाश्च दंशिताः ।
पौलोमाः सैंहिकेयाश्च शम्बरः कालशम्बरः ॥8.80.३० ॥
अन्धकश्च महादैत्यो हिरण्याक्षश्च विश्रुतः ।
सर्वे व्यूहममुञ्चन्तो दानवा युद्धलालसाः ॥ ३१ ॥
चक्रुर्वेगं२३ महावेगाः समेघा इव सानवः ।
तानापतत एवाथ यमो दण्डेन वीर्यवान् ॥३२॥
अवारयत२४ ते तस्थुश्चित्रपट्ट२५ इवार्पिताः ।
तान् यमस्य भयाद् दैत्यान्२६ दृष्ट्वा सर्वानवस्थितान् ॥३३॥
अन्धको यममभ्येत्य तिष्ठतिष्ठेति चाब्रवीत् ।
महता स रथेनैत्य२७ धनुर्विस्फाल्य२८ चासकृत् ॥३४॥
यमं ललाटे दशभिर्बाणैर्विव्याध वीर्यवान् ।
पञ्चभिर्महिषं चास्य षड्भिः कालं तथाग्रतः ॥३५ ॥
मृत्युञ्च दशभिश्चैव कृतान्तं चैव सप्तभिः ।
भ्रामयन् स पुनश्चापमिन्द्रायुधसमप्रभम् ॥३६॥
ननादाम्बुदवच्चैव पुनर्विव्याध दैवतम् ।
हिरण्याक्षसुतो ज्येष्ठो ह्यन्धकोहं महाबलः ॥ ३७॥
ब्रह्मणा च वरो दत्तो मह्यमित्यवघोषयन् ।
तस्यैवं वदतस्तूर्णं सूर्यपुत्रः प्रतापवान् ॥३८ ॥
रथं चिच्छेद२९ सङ्क्रुद्धो दण्डेन विनिपातयन्३० ।
सकार्मुके रथे तत्र मथिते ह्यन्धकस्तदा३१ ॥३९॥
गदामुद्यम्य वेगेन प्रेताधिपमथाद्रवत् ।
तस्य तां दण्डघातेन गदां सोप्यवचूर्णयत् ॥8.80.४० ॥
शिरस्येनं पुनः क्रुद्धो दण्डेन समताडयत् ।
’ ’ ’ ’ - - - - - - - ॥४१ ॥
र्वेगान् - ख । २ अवारयन्त - ख. । २५ .पट्टा - ख. । २६ दैत्या - ख. । २७ रथेनेत्य - ख. । २८ विस्फार्य (?) । २९ धनुश्चिच्छेद (?) । ३० रथे दण्डं न्यपातयत् (?) रथं दण्डेन पातयत् (?) । ३१ …स्तथा - ख. ।
जितेन्द्रियो मुनिर्यद्वत् स्पृष्टो विषयगोचरैः (?) ।
अथाप्रतिहतं दण्डमन्धकेन पराहतम् ॥४२ ॥
पुरः३२ प्रतिहतं दृष्टवा जहसुर्दानवेश्वराः ।
सिंहनादान् सवादित्रान् बाहुशब्दाँश्च सुस्वरान् ॥४३ ॥
चक्रुः साध्वन्धकेत्येवं चुक्रुशुश्च मुहुर्मुहुः ।
अन्धकोपि तदाभ्येत्य नर्दमानो यथार्णवः ॥४४॥
तलेनाहत्य३ महिषाद्यमं भूमौ न्यपातयत् ।
ततो हाहाकृतं देवैर्गृह्णगृह्णेति दानवैः ॥४५॥
व्यूहभङ्गश्च देवानामभवच्छक्तिनन्दन ।
अथ मृत्युश्च कालश्च कृतान्तश्चेति ते त्रयः ॥४६॥
अन्धकं बहुभिः३४ पाशैर्बबन्धुः क्रोधमूर्च्छिताः ।
पाशाँश्चैव स दैत्येन्द्रो विच्छिद्य सुमहाबलः ।
बाहुपाशेन बलवान्कृतान्तमवबध्नत ॥४७॥
स बद्धो बाहुपाशेन कृतान्तः क्रोधमूर्छितः ।
उत्क्षिप्यान्धकमुद्धूतो निनाय बलवान् बलात् ॥४८॥
तं नीयमानं सम्प्रेक्ष्य हिरण्याक्षः सुतं स्वकम् ।
जघान सायकैस्तीक्ष्णैः कृतान्तं सुभृशं दृढम् ॥४९॥
तस्य गात्राणि सर्वाणि सन्धीँश्चैव महाबलः ।
विव्याध निशितैर्बाणैः स विष्टब्धो व्यतिष्ठत ॥8.80.५० ॥
तं बाणैर्विवृतं३५ दृष्ट्वा देवाः सर्वे सवासवाः ।
रक्षन्तः समपद्यन्त भीमोद्यतकरायुधाः ॥ ५१ ॥
अथ किखर३६ मृदङ्गवेणुवीणापणवसुघोषकडिण्डिमानकानाम् ।
असुरसुरबले महान् तदानीं समभवदुग्रतरः३७ स तूर्यनादः३८ ॥५२ ॥
इति स्कन्दपुराणे युद्धे अशीतितमोध्यायः
पुनः - ख. । ३३ तालानाहत्य - ख. । ३४ बाहुभिः (?) ३॥ ३५ वाणविवृतं - ख., बाणैर्विधृतं (?) । ३६ मुरज - घ. । ३७.. .दग्रवर. - ख. । ३८ सतूर्यनादमिति - ख. ।