पृष्ठं - घ. । ३६ सर्वान् - ख । ३७ .. न्तदोदरान् - ख । ३८.. .न्तले - ख । ३९ पार्थिवः - ख । ४० - पुङ्गवे - घ, सङ्गवे (?) । ४१ मेघ - ख. । ८२ सिंहनादा - ख । ४३ नकुर्वन्त - ख. घ. । ४४ …देवता - ख. । ४१ निर्जघु (घ्नु?) - ख ४२ सन्नहतिकाध्यायः? - घ, १३४ इति ख. पुस्तके ।
सनत्कुमार उवाच
व्यूढे सुराणां सैन्येथ स्थिते युद्धाय दंशिते ।
दानवानां बलं घोरं समदृश्यत भीषणम् ॥१ ॥
तद्[^१] दानवबलं दृष्ट्वा देवाः सर्वे सवासवाः ।
सिंहनादानकुर्वँस्ते[^२] वादित्ररवमिश्रितान् ॥२॥
स नादः सुमहान् व्यास सागरस्येव मथ्यतः ।
आपूरयज्जगत्[^३] सर्वं युगान्ताम्बुदनिस्वनः ॥ ३॥
ततो दानवशार्दूलाः सर्वे दृष्ट्वा सुरोत्तमान् ।
व्यूह्य सैन्यं स्थितान्[^४] सम्यग् वीक्षाञ्चक्रुः[^५] परस्परम् ॥४॥
तान् वीक्षमाणान्[^६] सन्दृश्य स्थितो दानवयूथपान ।
उवाच भार्गवं व्यास हिरण्यनयनः स्वयम् ॥५॥
एते व्यूहमिमं कृत्वा देवास्तिष्ठन्त्यभीतवत् ।
मन्यन्ते[^७] दानवान् युद्धे वयं जेष्याम सर्वशः ॥६॥
स भवान्युक्तमस्यैव८ देवव्यूहस्य भेदकम् ।
कुरु मायाप्रतिव्यूहमस्माकमपि मा चिरम् ॥७॥
सनत्कुमार उवाच
एवमस्त्विति स प्रोच्य९ ह्यर्धचन्द्रञ्चकार सः१० ।
खगस्य तस्य यच्छेत्तुं शिरः कायादियेष च११ ॥८ ॥
चकार तस्य शृङ्गे तु प्रह्लादान्धकदानवौ ।
धारान्१२ निवातकवचान्पौलोमान्कालकासुतान् ॥९॥
विरोचनं बलिं चैव विप्रचित्तिं सहानुजैः ।
प्रह्लादभ्रातरं चैव ससुहृद्वर्गबान्धवान्१३ ॥8.79.१० ॥
पृष्ठं चक्रे महायोगी मध्यं राजानमेव१४ च ।
उवाच चैनं१५ विश्रब्धो भार्गवः शत्रुतापनः ॥११ ॥
ते - ख । २.. नकुर्वन्त - ख. घ- । ३ अपूरयञ्जगत् - घ. । ४ व्यूहस्कन्धास्थितान् । ५ चक्रे - ख. । ६ वीक्षमाणो (णः?) - ख । ७ मन्यन्तो (?) ॥ ८ श्येन (?) । ९ स प्रोच्य - ख । १० …मकुर्वत - ख ११ कायादिवेषवः - ख. । १२ धारो - ख. । १३ बान्धवं (?) । १४ तथैव - ख. । - १५ चेदं - ख. ।
हिरण्याक्षमिदं युक्तं काले पथ्यञ्च सर्वशः१६ ।
दैवतभव्यूहभेत्तायं महाव्यूहो हि वः कृतः ॥१२॥
युक्तं कुरुत भद्रं वो मया नु१७ परिपालिताः ।
परस्परं च रक्षन्तः सर्वे चित्रास्त्रयोधिनः ।
महामायाः सुराः सर्वे यथा नैवाभिमन्यत१८ ॥१३ ॥
सनत्कुमार उवाच
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
आडम्बरा डिण्डिमाश्च पटहाश्च महास्वनाः ॥१४॥
नानाविधानि चान्यानि१९ प्रावाद्यन्त सहस्रशः ।
देवानां दानवानाञ्च मदसत्वप्रदानि वै ॥१५॥
ततः प्रमथ्नते२०त्युक्ता२१ दानवा दानवेश्वरैः ।
ममर्दुर्देवतानीकं प्रहताः सर्वशस्तथा ॥१६ ॥
देवास्तेपि च संयत्तास्तपोयोगबलान्विताः ।
दानवान् विविधैः शस्त्रैरभिजघ्नुः कृतागसः ॥ १७॥
असीनां पात्यमानानां शिरसां हस्तिनामपि ।
आसीच्छब्दो महाघोरो वंशानामिव पाट्यताम् ॥ १८ ॥
विकृष्यतां च धनुषां बाणानां च विमुच्यताम् ।
आसीत्तत्र महाञ्छब्दो गिरीणामिव भिद्यताम् ॥ १९॥
गच्छद्भिर्भिन्दिपालैश्च शक्तिभिस्तोमरैस्तथा ।
आकाशमभवत् सर्वं खद्योतैरिव संवृतम् ॥8.79.२० ॥
शिरोभिश्चरणैश्चैव बाहुभिश्च निपातितैः ।
क्षणेन युद्धभूमिः सा विषमा समपद्यत ॥२१ ॥
दन्तिभिः पर्वताकारै२२ र्हयवर्यैरथोत्तमैः२३ ।
कबन्धैश्चाभिनृत्यद्भिर्दुर्निरीक्ष्यमभूद्रणे२४ ॥२२॥
मद्यशः? - ख. । १७ (वः) पद्यं तु (पर्यन्त?) - ख- । १८ नैवातिमन्यत - ख. । १९ म… - ख । २०. प्रमर्दते (?) । २१ …त्युक्त्वा - ख. । २२ गिरिसङ्काशैः (?) । २३ हयैर्युद्धैरिवोत्तमैः - घ. । १४… रन्तरीक्षमभूत्क्षणात् - घ. ।
आतपत्रैश्च हारैश्च कवचैस्तलचै (?) रपि ।
निष्कसूत्रैः सुमुकुटैः केयूरैः कुण्डलैरपि२५ ॥२३ ॥
कण्ठत्राणैर्विचित्रैश्च२६ दुकूलैर्मणिभिश्च ह ।
कुथाभिश्च विचित्राभिर्भुजैः साभरणैरपि ॥२४॥
मुशलैः शूलदण्डैश्च घण्टाभिश्चाङ्कुशैरपि ।
विभाति भूतलं तत्र ज्योतिर्भिर्द्यौरिवावृतम् ॥२५॥
क्रुद्धः केशेषु सङ्गृह्य विरथोपि महारथः ।
रथिनं रथमाप्लुत्य निजघान बलाद्बली ॥२६॥
तत्र चान्यो गजे२७ चाशुरभिहत्य महाभुजः ।
रथं चिक्षेप च वृतैः (?) कुशमुष्टिमिवाध्वरे२८ ॥२७॥
क्षिप्तो गजात् समुत्पत्य - नसं - - - य - ।
शरैराशीविषाकारैरनयद्यमसादनम् ॥२८॥
हतमप्येष तुरगः सादिनं पतितं क्षितौ ।
उपास्ते पादतः सुप्तं गुरुं शिष्यो यथात्मवान् ॥२९॥
ससूते निहते योधे रथमेते हयोत्तमाः ।
वहन्ति पुरुषाः क्षीवा ज्ञानवन्त इवागमान् ॥8.79.३०॥
अयमन्यः सुबद्धोपि दैत्येन सुरपुङ्गवः ।
बाहुभ्यां वेष्टयित्वा तं प्रययौ देवतान्तिकम्२९ (?) ॥३१ ॥
अयमाधावतः पश्य गजस्य भुजमाच्छिनत् ।
स तेनैव गजेनोर्व्यां पपात३० विनिषूदितः ॥३२॥
अयमन्येन संयुक्त अन्येनागत्य घातितः ।
स चाप्यन्येन देवेन सोप्यन्येन पुनर्हतः ॥३३ ॥
एते पदातयश्चान्ये३१ बहवः संहता भृशम् ।
रथिनं मोहयित्वा तु जघ्नुरेनमभीतवत् ॥३४॥
कुड्मलैरपि - ख. । २६ कण्ठत्राणविचित्रैश्च - ख. । २७ तत्रान्ये च गजे - - । २८ कुशमुष्टिं यथाध्वरे - ख. । २९ चैव चान्तिकम् - ख. । ३० निपात्य (?) । ३१ पादत्रये चान्ये - ख. ।
एवमाकाशगाः सिद्धा ऋषयश्चारणास्तथा ।
शाधथन्ति३२ रमन्ते च स्मयन्ति३३ च जपन्ति३४ च ॥३५ ॥
हरन्त्यप्सरसश्चैव योधाँस्तत्र रणे हतान् ।
पिशाचाश्चापि मोदन्ते३५ नृत्यन्ति च निकुम्भिलाः ॥ ३६॥
तत् प्रवादितगान्धर्वं छिन्नभिन्नविदारितम् ।
युद्धगान्धर्वमभवद् भीरूणां भयवर्द्धनम् ॥३७॥
अन्योन्यघातक्षतसर्वदेहाः सुरासुरा वैरमनुस्मरन्तः ।
जघ्नुस्तदा राक्षसतुल्यरूपाः स्वाराज्यहेतो३६र्जयमीप्समानाः३७ ॥३८॥
इति स्कन्दपुराणे देवासुरसङ्ग्राम३८ नामैकोनाशीतितमोध्यायः