कृष्णद्वैपायन उवाच
भगवन् दितिपुत्रेषु प्रयातेष्वमरावतीम् ।
अमराः किमकुर्वन् त एतदिच्छामि देदितुम् ॥१ ॥
कथमन्तर्हितम्[^१] तेषां को मन्त्रश्चेष्टितं च किम् ।
उत्तरं किञ्च देवास्ते प्रत्यपद्यन्त यत्नतः ॥२॥
धार्मिकाश्च वदान्याश्च विद्वांसश्छिन्नसंशयाः ।
इष्टाः सर्वस्य लोकस्य किमकुर्वत देवताः ॥ ३ ॥
सनत्कुमार उवाच
शृणु व्यास यथा देवा उत्तरं प्रतिपेदिरे ।
असुराणाञ्च यद्युक्तं प्रत्यकुर्वत दंशिताः ॥४॥
उद्युक्तेष्वेव दैत्येषु देवानां भयसूचकाः ।
सञ्जज्ञिरेमरावत्या[^३]मुत्पाता दारुणा भृशम् ॥५।
पिशिताशाः खगास्तत्र भ्रमन्त्युपरि सर्वतः ।
मम्लुर्माल्यानि देवानां गन्धश्चैवाशुभं ववौ[^४]॥६॥
अध्यायः १३३ ख., क.पुस्तकानुसारं ७६ तमेन भाव्यम् ।
कथमन्तर्द्धितं - ख. । २ प्रत्यकुर्वन्त ख. । ३ सञ्जज्ञुरमरावत्या - ख. । ४ बभौ - ख. ।
हयादयो न हेषन्ते विमनाश्च गजोभवत् ।
अनभ्रम्[^५] भयदं सर्वमपतद्रुधिरं बहु ॥७॥
आयुधानि च दीप्यन्ते सधूमं शक्तिनन्दन ।
कबन्धाश्च तथादित्ये[^६] युद्धं चात्र प्रदृश्यते ॥८॥
द्वयोः पुरुषयोर्व्यास हाहाकारश्च सर्वशः ।
देवानामरतिञ्चैव[^७] चित्तं चापि समश्नुते[^८] ॥९॥
स्फुरन्ति वामनेत्राणि जृम्भिका चोपजायते ।
वयांसि च विकूजन्ति[^९] भयदान्यपरे यथा ।
अग्निश्च दीप्यते तत्र सशब्दो रूक्ष एव च ॥ 8.78.१० ॥
एताँश्चान्यांश्च विविधानुत्पातान्भयसूचकान् ।
दृष्ट्वा प्राह गुरुं शक्रो बृहस्पतिमिदं वचः ॥११ ॥
भगवन् किमिदं घोरं भयं नः समुपस्थितम् ।
यदिमे सूचयन्त्युग्रा उत्पाता नः सुदारुणाः ॥१२ ॥
नेमे निष्कारणं मन्ये न चाप्यल्पं हि तद्धि नः ।
यदिमे सूचयन्त्युग्राः कल्पान्त इव दारुणाः ॥ १३ ॥
तस्य तद्वचनं श्रुत्वा देवाचार्यो बृहस्पतिः ।
निरीक्ष्य बुद्ध्या सञ्चिन्त्य प्रोवाचेदं ततो वचः ॥१४॥
यद् भवानाह तत्तथ्यं नेमे निष्कारणं तथा ।
निमित्तमत्र सुमहद् भविष्यति न संशयः ॥ १५॥
निमित्तमादिदैत्येन्द्रो हिरण्यकशिपुः पुरा ।
स’ हतो नरसिंहेन प्राप्तं राज्यं च नः पुनः ॥१६॥
अद्य वर्षसहस्राणि द्वादशैव सुनिर्वृतैः[^१०] ।
युष्माभिरखिला लोका भुज्यन्ते सुमहात्मभिः ॥१७॥
दैत्याधिपा निरुत्साहा दानवैः सह शेरते ।
पाताले दनुपुत्राश्च दुःखशोकसमाहताः ॥१८॥
अनभ्रे - ख, अदभ्र (?) । ६ यथादित्यो - ख। ७ मरतिश्चैव - घ. । ८ समुत्सुकं - घ. । ९ धूमो गायन्ति - ख., खगादयो विकूजन्ति - घ. । १० सुनिर्वृताः - ख. ।
हिरण्याक्षस्तु दैत्येन्द्रो हिरण्यकशिपोर्वरः[^११] ।
स नूनं भ्रातुरन्विच्छन् हतस्य प्रतिकारिताम् ॥१९॥
सर्वैरभ्येति दैत्येन्द्रैर्दानवैश्च समावृतः ।
सपुत्रपौत्रो दैत्येन्द्रो महाबलपराक्रमः ॥8.78.२० ॥
अन्धकश्चास्य पुत्रोपि ब्रह्मणा ह्यमरः कृतः ।
न स शक्यो युवा हन्तुं[^१२] ततो वो भयमुत्थितम् ॥२१ ॥
तद्भवन्तः[^१३] सुसन्नद्धाः सर्वे युद्धाय दंशिताः ।
प्रतीक्षध्वं महासत्वा यावदौत्पातिकं स्थितम् ॥२२ ॥
तस्य तद्वचनं श्रुत्वा शक्रः सर्वान् तदा सुरान् ।
उवाच सज्जीभवत युद्धाय कृतनिश्चयाः ॥२३ ॥
भयं महदिदं प्राप्तं मा तिष्ठत निरुद्यमाः ।
मा नः सम्प्राप्य दैत्येन्द्रा हन्युर्मत्तानिवामराः ॥२४॥
अथ वायुस्तदाभ्येत्य शक्रं सर्वासुरान्तकम् ।
उवाच प्राञ्जलिर्भूत्वा देवानामेव संसदि ॥२५॥
एष दैत्यो हिरण्याक्षः सर्वासुरसमावृतः ।
आयाति देवता हन्तुं भ्रातुर्वधमनुस्मरन् ॥२६॥
तद्भवान् दंशितः सम्यक् सहास्माभिर्महाबलः ।
जयायोत्तिष्ठ[^१४] देवेन्द्र विनाशाय सुरद्विषाम्[^१५] ॥२७॥
सनत्कुमार उवाच
ततः स भगवान् व्यास महात्मा देवराट् स्वयम् ।
अभेद्यं कवचं दिव्यं जाम्बूनदविभूषितम् ॥२८॥
दत्तं मन्त्रेण विधिवत् पुत्रेणाङ्गिरसः स्वयम् ।
आबबद्धात्मना[^१६] शक्रो मेघदुन्दुभिनिस्वनः ॥२९॥
स तेन कवचेन स्म भाति शक्रः प्रतापवान् ।
सविद्युदुल्कैरम्भोदैर्बद्धो मेरुरिवाचलः ॥8.78.३० ॥
हिरण्यकशिपोर्वंशः? -ख., परः(?) १२ युद्ध्य हन्तुं - घ. । १३ समुद्भवन्तः - ख. । १४ जयाय तिष्ठ - ख. । १५ सुरद्विषाः (षः) - ख. । १६ आबबद्धात्मने - ख., -आबबन्धात्मना - घ. ।
ततो गोधाङ्गुलित्राणि[^१७] तलत्रं चैव भासुरम् ।
आबबद्ध स्वयं मन्त्रैस्तस्य देवो बृहस्पतिः ॥ ३१ ॥
इषुधीनक्षयाँश्चैव खङ्गः चैवामृतोद्भवम् ।
आबबद्धास्य मन्त्रेण यदजर्यं शरादिभिः ॥३२ ॥
ततोस्मै सशरं चापं पञ्चवज्रं सुदारुणम्[^१८] ।
मन्त्राभिमन्त्रितं सम्यक् प्रददौ जयवर्द्धनम् ॥ ३३॥
मङ्गलानि ततस्तस्य दर्शयामास वीर्यवान् ।
घटञ्च पूर्णमस्त्रञ्च[^१९] ऐरावतमथापि च ॥ ३४॥
कल्पितं बहुभिर्दिव्यै[^२०]राचार्यैः कल्पवासिभिः ।
अर्चितं धूपितं चैव धूपितं क्रोधदर्पणैः ॥३५॥
ततस्तं स तदा देव आरुरोह मतङ्गजम् ।
भद्रलक्षणसम्पन्नं चतुर्दन्तं क्षरन्मदम् ॥३६ ॥
आरूढः स तदा भाति ऐरावतगजं विभुः ।
उदयाचलमौलिस्थ उद्यन्निव दिवाकरः ॥३७ ॥
पाण्डरेणातपत्रेण सुरराट् सम्बभौ तदा ।
श्वेतपर्वतराजोसौ शशिनेव महामुने ॥३८ ॥
चामराबीजितं भाति तस्य वक्त्रमतिप्रभम् ।
हंससम्बीजितं फुल्लं[^२१] शरदीव महोत्पलम् ॥३९॥
तस्य पार्श्वे जयन्तश्च पुत्रः शक्रस्य धार्मिकः ।
कार्तिकेय इवाभाति रुद्रस्य दयितः सुतः ॥8.78.४० ॥
ततो यमश्च पुण्ड्रेण[^२२] महिषेण महाबलः ।
कालदण्डं पुरस्कृत्य कोटीभिर्दशभिर्वृतः ॥४१ ॥
निर्जगाम कुबेरश्च राक्षसैर्बहुभिर्वृतः ।
यक्षैः पुण्यजनैश्चापि तथान्यैर्देवतैरपि ॥४२॥
गोधाङ्गुलित्राणं - घ. । १८ वज्रं चासुरदारणं - घ । १९ पूर्णमश्वञ्च (?) । २० .. र्देव्यै (वै?) - ख-, र्मन्त्रैः - घ. । २१ हंसाबीजितमुत्कुल्लं - घ., हसा सा? - ख. । २२ पुण्डौ - ख., पुत्रेण - घ. ।
तेषां द्वादश कोट्यस्ताः सहस्राणि च विंशतिः ।
शतानि च तथाशीतिस्तथैवाष्टाधिका पुनः ॥४३ ॥
वरुणो निर्ययौ देवः पुत्राणां दशभिः शतैः ।
यादोभिस्ते वृताः सर्वे कोट्यस्ताश्चैकविंशतिः[^२३] ॥४४॥
अनलश्च ततो देवः कोटीभिर्दशभिर्वृतः ।
निर्ययौ सह पुत्रेण ससुहृद्वर्गबान्धवः ॥४५॥
ततो वायुर्महातेजाः सर्वव्यापी महाजवः[^२४] ।
अक्षौहिणीभिर्दशभिर्निर्जगाम महाबलः ॥४६॥
आदित्या निर्ययुः सर्वे द्वादशाक्षौहिणीवृताः[^२५] ।
एकैकशश्च ते[^२६] व्यास सर्वे दिव्यास्त्रयोधिनः ॥४७॥
तथा रुद्राश्च निर्जग्मुर्महामायामहाबलाः ।
एकैकशस्तदा सर्वे षोडशाक्षौहिणीवृताः ॥४८॥
वसवो दशभिश्चैव अष्टाभिश्चाश्विनावुभौ ।
तथैवाङ्गिरसो देवाः सर्वे तेक्षौहिणीवृताः ॥४९॥
यामा दामाश्च साध्याश्च लेखा ये च महाबलाः ।
तेपि कोटीशतैः सर्वे दशभिः सह सङ्गताः ॥8.78.५०॥
अभूवन् विंशतिः[^२७] कोट्यो गन्धर्वाणां[^२८] महात्मनाम् ।
पन्नगानां चतुःषष्टिः खगानां चैव विंशतिः ॥५१ ॥
पिशाचानां च कोट्यस्ताः पञ्चाशत्तत्र सङ्गताः ।
राज्ञां स - - - - - - - - नां महात्मनाम् ॥५२॥
एतद्देवबलं दे हं सर्वमभूत्तत्राभिसङ्गतम् ।
दृष्ट्वा तद् बह्वपर्यन्तं देवानां बलमुत्तमम् ॥५३ ॥
उवाच जीवजीवानां राजा परमधर्मवित् ।
भगवन् क्रियतां व्यूहो यस्मात्तेषां दुरात्मनाम् ॥५४॥
एकविंशतिः - घ., इतः परं ततो देवबलं पश्यन सन्नद्धान् युद्धकाङ्क्षिणः । कोटिभिदशभिश्चैव रथनाग- हयैर्वृतः इति पद्यमुपलभ्यते घ. पुस्तके । २४ महाबलः - ख. । २५ युताक्षौहिणिकर्षिणः -ख । २६ एकैकश्च शते - ख. । २७ गन्धर्वाणामभूत् - ख. । २८ विंशत्येव - ख. । २९ एते देवबलं… - ख. ।
अधृष्यश्चाप्रमेयश्च यन्न[^३०] वेत्ति च भार्गवः ।
तस्य तद्वचनं श्रुत्वा बृहद्बुद्धिर्बृहस्पतिः ॥५५ ॥
उवाच देवताध्यक्षं शक्रं दैवतसन्निधौ ।
न तदस्ति महेष्वास मयि यद् भार्गवो महान् ॥५६॥
न वेत्ति यस्य वा[^३१] भेदं न कुर्यात् पाकशासन ।
उशनाः स तु यद्वेत्ति महायोगी महायशाः ॥५७॥
न चैव तदहं वेद्मि मत्तो वरतरो हि सः ।
स तु तीक्ष्णतया चैव मानाच्चैव शचीपते ॥५८॥
प्रमादं कुरुते तेषु न च सर्वत्र लभ्यते ।
अहं च विज्ञभावेन मार्दवेन परेण च ॥५९॥
अप्रमत्तश्च सर्वत्र तव सैन्यैश्च रक्षितः ।
बुद्ध्या तमतिरिच्यामि विबुधेश्वर नित्यशः ॥8.78.६० ॥
तस्मात्तेहं करिष्यामि व्यूहं श्येनमतिप्रभम् ।
येन तान्दानवान् सङ्ख्ये कञ्चित् कालं विजेष्यथ ॥६१ ॥
ततः स भगवान् जीवश्चक्रे व्यूहमतिप्रभम् ।
श्येनं नाम महायोगी देवानां हितमादधत् ॥६२॥
ग्रीवायां तस्य सञ्चक्रे वित्तेशं वरुणं तथा ।
अनलं चैव वायुञ्च जयन्तं चैव शक्रजम् ॥६३ ॥
शिरश्चूडां[^३२] यमं तस्य[^३३] मृत्युं कालं च तावुभौ ।
वक्त्रं तस्याकरोज्जीव[^३४] श्चन्द्रसूर्यौ च चक्षुषी ॥६४॥
एकं पक्षं चकारास्य रुद्रान्सर्वान्स वै द्विजः ।
द्वितीयं पक्षमादित्यान्मध्यं तस्य पुरन्दरम् ॥६५॥
पादौ च वसवस्तस्य अश्विनौ च महातलौ ।
गन्धर्वाः पन्नगाश्चैव नखान् तस्य समाश्रिताः ॥६६॥
यथा - घ. । ३१ वो - ख. । ३२ शिरश्चूडा - ख. । ३३ यमस्तस्य - ख. । ३४ वक्त्रमस्याकरोज्जीव - ख. ।
पक्षिणश्च महासत्वाः पिशाचाश्च महाबलाः ।
पुच्छं[^३५] तस्याकरोत् सर्पान्[^३६] देवानन्याँस्तदोदरम्[^३७] ॥६७॥
राजानस्तस्य पादस्थास्तले[^३८] भूतान् न्यवेशयत ।
महाबलान्महोत्साहान्सर्वान् देवान् सभासदः ॥६८॥
सनत्कुमार उवाच
स कृत्वा तं खगव्यूहं मन्त्रेणैवाभिमन्त्र्य च ।
उवाच देवराजं तं बृहस्पतिरिदं वचः ॥६९ ॥
कल्पितोयं मया व्यूहः कृत्वा राक्षसपार्थिवम् (?) ।
अतः परं विधानस्य कर्म नास्मासु विद्यते ॥8.78.७० ॥
जय शत्रून् रणे शक्र देवतैरभिरक्षितः ।
मया चार्थवणैर्मन्त्रैस्तपसां च बलेन च ॥७१ ॥
कुरु कर्म यथाशक्ति ह्यमरो ह्यसि पार्थिव[^३९] ।
देवाश्चाप्यमराः सर्वे युध्यन्तु सुरपार्थिव ॥७२ ॥
भाग्यान्नो जय लाभाय नान्यत्र सुरपुङ्गव[^४०] ।
जहि शत्रून् महाबाहो माभीर्भवतु ते रणे ॥७३ ॥
ततः शङ्खाश्च भेर्यश्च पटहा डिण्डिमास्तथा ।
आडम्बराश्च नम्भा(?)श्च कृकवा गोविषाणकाः ॥७४॥
मर्दलाः पेपुकाश्चित्रा नेदु[^४१] स्तूर्याणि सर्वशः ।
तेन शब्देन योधानां युद्धहर्षो महानभूत् ।
सिंहनादा[^४२] नकुर्वन् ते[^४३] वादितास्फोटितानि च ॥७५॥
देवास्ततः[^४४] शङ्खमृदङ्गवाद्यैरमोघसर्वायुधदीप्तहस्ताः ।
निर्जग्मु[^४५]रिन्द्रादिसुरप्रधाना जयैषिणः शत्रुवधेप्सवश्च ॥७६॥
इति स्कन्दपुराणे व्यूहरचनो नामष्टसप्ततितमो[^४६] ध्यायः