सनत्कुमार उवाच
स गत्वा तां सभां व्यास अपश्यद् दैत्यदानवान्[^१] ।
प्रावृट्कालेम्बुदान्मत्तान् यथेन्द्रः समुपस्थितान् ॥१॥
तस्य प्रविष्टस्य[^२] तदा सर्व एव सुरद्विषः ।
जयेति चक्रुरुत्थाय वेदा इव पितामहम् ॥२ ॥
स्वामिन् - क. टि. २२ प्रह्रादाभ्यां - क. । २३ .मर्हति (?) । २४ पञ्चसप्ततितमो - क. । १ इतः परं हिरण्याक्षकर्तृकवराहदर्शनावधिकः त्रयस्त्रिंशदध्यायात्मको ग्रन्थो नष्टः क पुस्तके इति । २ तस्योपविष्टस्य - घ. ।
मोत्तिष्ठतेति[^३] तान्सर्वानवोचदसुराधिपः ।
मायापञ्चकमासाद्य[^४] भोगी वायुधरानिव[^५] ॥३ ॥
स तेषामग्रगो[^६] भाति हिरण्याक्षो महासुरः ।
मध्ये कलभवृन्दानां यथा मत्तो महागजः ॥४॥
ततो जाम्बूनदे दिव्ये उपविष्टो वरासने ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ॥ ५ ॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
भाति सिंहासनासीनः स राजा सुरविद्विषाम् ।
मेरुशृङ्गमिवासाद्य[^७] सबलाको महाम्बुदः ॥६॥
बभूवुरुपविष्टाश्च तूष्णीमेवासुरास्तदा ।
सिसृक्षवो जलं काले नीलाम्भोदा इवोन्नताः ॥७॥
सनत्कुमार उवाच
स तेषाम्मिङ्गितं ज्ञात्वा कालं च सुरतापनः ।
हिरण्याक्षः स्वयं राजा तानुवाच सुरद्विषः ॥८॥
यूयं सर्वे महामाया शृणुध्वं संयताः समम् ।
कालप्राप्तञ्च पथ्यञ्च शिष्या इव गुरोर्वचः ॥९ ॥
मम भ्राता प्रियो ह्यासीज्ज्येष्ठः पूज्यो यथा पिता ।
हिरण्यकशिपू राजा महात्मा सत्यसङ्गरः ॥8.77.१० ॥
धार्मिकश्च वदान्यश्च यज्वा दाता तपोन्वितः ।
आहिताग्निश्चतुर्वेदः सर्वभूतसुखावहः ॥ ११ ॥
राज्यार्थे स हतो देवैर्विकृत्या[^८] मूढमानसैः ।
तस्य दुःखेन तप्यामि शुष्यामि च महासुराः ॥ १२ ॥
सलिलादुद्धृतं ग्रीष्मे पद्मं कुसुमितं यथा ।
तेषां कर्तुमहं दण्डं शक्तोस्म्यसुरविद्विषाम् ॥ १३ ॥
योतिष्ठ (न्न) पि - ख. । ४ समासाद्य (?) । ५ णिव - घ. । ६.. .मग्र्यशो - ख, मध्यगो - घ । ७ …ख्याय (?) । ८ …निकृत्या (?) ।
भवताम्[^९] तत्र बालानां रक्षार्थं नोद्यतो ह्यहम्[^१०] ।
सोहं दण्डं स्वयं कर्तुमेकाक्यसुरविद्विषाम् ।
गमिष्यामि न सन्देहो मा भीर्भवतु वोसुराः ॥१४॥
सनत्कुमार उवाच
तस्य तद्वचन श्रुत्वा दानवास्ते मुदान्विताः[^११] ।
परस्परमुदैक्षन्त व्रीडया परयान्विताः ॥ १५॥
विप्रचित्तिस्तदनुजो भ्रातरं तं महाबलः ।
उवाच प्रणतः सम्यगर्थवन्मधुरं वचः ॥१६॥
न सन्देहो महासत्व त्वयैकेनासुरद्विषः ।
? — — - - - - - - - - - ॥१७॥
यदि युद्धे न तिष्ठन्ति मायां काञ्चिद्विनाश्रिताः ।
अबलास्ते न सन्देहो निकृत्या बलिनस्तु ते । १८ ॥
प्रसादयित्वा शिरसा यद् ब्रवीमि निबोध तत् ।
बालैरपि[^१२] हिरण्याक्ष सूपपत्त्या प्रसाधितम्[^१३] ॥१९॥
तद् ग्राह्यमिति - - - १४ शास्त्रविद्भिः समीरितम् ।
हिरण्यकशिपू राजा भ्राता नो ज्येष्ठ उत्तमः ॥8.77.२० ॥
सोपि शक्तोहमित्येव एकाकी दैवतैर्हतः ।
महाबलोपि च हरिरशक्तैर्हन्यते बलात् ॥२१ ॥
आक्रन्दन्तं विना राजन्नतो विज्ञापयामि ते ।
भवतस्तु वयं बाला न तेषामसुरेश्वर ॥ २२ ॥
शक्ता वयं सुयुद्धेन तान्हन्तुं कुलपांसनान् ।
तपोयोगबलोपेता मायाभिश्च समन्विताः ॥ २३ ॥
अनुस्मरन्तो वैरञ्च वयं हंस्याम दैवतान् ।
यथा तव न निद्रास्ति हिरण्यकशिपोर्वधात् ॥ २४॥
भवता - ख. । १० नोद्यताम्यहं - ख । ११ तिमुदान्विताः - ख. । १२ बलेरवि - ख. । १३.. मुपपत्त्या प्रसादितम् - ख. । १४ वेदोति ( विद्वद्भिः?) - ख ।
तथास्माकं महाराज मा नो बालान्यथा चर ।
यत्र नो योक्ष्यसे राजन् समे वा विषमेपि वा ॥२५॥
तरिष्यामो वयं तद् वै बालमत्स्या इवार्णवम् ।
प्रह्रादोयं सहभ्राता ससुतः ससुहृज्जनः ॥२६ ॥
एक एवाह्वयेत्सर्वान्यथा सिंहो महाद्विपान् ।
बलिरेष च दैत्येन्द्र एक एव सवासवान्[^१५] ॥ २७॥
सुरान् सयम[^१६] वित्तेशाञ्छक्तः सर्वान्प्रबाधितुम् ।
अयं बाणश्च[^१७] तत्पुत्रो राजा बाहुसहस्रधृक् ॥२८॥
एक एव सुरान्सर्वान् विनाशयितुमुद्यतः ।
इमो सुन्दनिसुन्दौ च भ्रातरौ बाहुशालिनौ[^१८] ॥२९॥
उभावेकाकिनौ युद्धे देवान् हन्तुं समुद्यतौ ।
अयं मयश्च विक्रान्तः सारकस्तार एव च[^१९] ॥8.77.३० ॥
अन्ये च दानवाः शूराः शक्ता देवान् प्रबाधितुम् ।
एतेप्यतिबलाः सर्वे बलवन्तो वयं सदा ॥ ३१ ॥
वधिष्यामः सुरान् सर्वान् व्याधा इव मृगान् वने ।
शूरोयमन्धकः श्रीमान् ब्रह्मदत्तवरस्तदा[^२०] ॥३२॥
प्रसह्य सर्वाँस्तान् युद्धे नेष्यते वै यमालयम् ।
एवमेनं समाश्रित्य पालितानेन चैव हि ॥३३ ॥
करिष्यामो महद्युद्धं देवतानां भयङ्करम् ।
पूर्वं देवा वयं सर्वे पश्चात्ते देवताभवन् ॥३४॥
कथं बिभीम तेषां वै सिंहानां शरभा इव ।
तस्य तद्वचनं श्रुत्वा अन्धकस्सोसुरेश्वरः ॥३५॥
उवाच वचनं तत्र हर्षयन् दानवेश्वरान् ।
महाबला वयं राजन् बलहीनाः सुरास्तु ते ॥३६॥
शरीरवान् - क. ख. । १६ समय - ख. । १७ मानश्च - ख. । १८ बाहसादिनो - ख. । १९…स्तारक (?), प्रभुस्तारक एव च - घ - । २० स्तथा (?) ।
पश्य त्वं दैवतान्सर्वान् हतान् यमपुरोगमान् ।
अद्य तं राजहन्तारं दुरात्मानं कुलाधमम् ॥ ३७॥
अद्य माता दितिस्तेषां दुःख - - - - - - ।
।
मयैकेन हतं पश्य आदित्यानां कनीयसम् ॥३८॥
तिष्ठध्वं दानवाः सर्वे पर्याप्तोहं दुरात्मनाम् ।
अस्माकं राजहन्तॄणां मृत्युरस्मि समागतः ॥३९॥
सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा हिरण्याक्षः प्रतापवान् ।
उवाच दानवान् व्यास जयेप्सुः सुरविद्विषाम् ॥8.77.४० ॥
अद्य पुष्यं च नक्षत्रमस्माकं बलकारणम् ।
अद्यैव दंशिताः सर्वे द्रुतं निर्यात दानवाः ॥४१ ॥
अथ ते दानवाः शीघ्रं वाहनानि मुदा युताः ।
प्रावारयन्त[^२१] सङ्ग्रामे योग्यानि रिपुबाधने ॥४२॥
शीघ्रं कुरुध्वं सज्जानि गच्छामो दैवतान्प्रति ।
तेषां सुतुमुलः[^२२] शब्दो बाहनानां[^२३] बभूव ह ॥४३ ॥
मन्दवातप्रेरितस्य क्षीरोदस्य स्वनो यथा[^२४] ।
ममाश्वस्तव सिंहोयं ममायं गजयूथपः ॥४४॥
रथोयं कस्य सम्पन्नो युद्धोपकरणैर्भृशम् ।
एहि निर्याहि वेगेन मुहूर्तं प्रतिपालय ॥४५॥
निर्यान्तु सर्वे दैत्येन्द्रा यास्यामः पृष्ठतो वयम् ।
आरोह स्वं रथं वीर किं रथेन ममाद्य वै ।
पदातिरेव सङ्ग्रामे हंस्याम्यद्य सुरद्विषः ॥४६ ॥
एवं तेषाममूच्छब्दः सुमनोज्ञः सुरद्विषाम् ।
वंशवीणास्वनोन्मिश्रः[^२५] प्रलाप इव योषिताम् ॥४७॥
प्रोक्षावयन्तु (?) - घ. । २२ सतुमुलः - ख. । २३ साहनानां - ख. । २४ महान, - घ, । २५, खगोन्मिश्रः (स्वरो?) - ख., -…रवोन्मिश्रः - घ. ।
अथ शुक्रस्तदाभेत्य भृगोः पुत्रो महातपाः ।
हिरण्याक्षमुवाचेदं हर्षयन्दानवेश्वरम् ॥४८॥
मया शान्तिः[^२६] कृता तेद्य रक्षा च[^२७] सह दानवैः ।
जहि सर्वान्सुरान् युद्धे न तवास्ति पराजयः ॥४९॥
अहं त्वा स्वेन तपसा सहभृत्यं[^२८] सबान्धवम् ।
धारयिष्यामि युध्यन्तं लोकान्यज्ञ इवापरः ॥ 8.77.५० ॥
सनत्कुमार उवाच
ततः प्रदक्षिणं कृत्वा शुक्रं मूर्ध्ना प्रणम्य च ।
भार्गवं[^२९] पुरतः कृत्वा निर्जगाम स मन्दिरात् ॥५१ ॥
ततो भेर्यश्च शङ्खाश्च पणवानकगोमुखाः ।
साडस्तमा(?) दिण्डिमाश्च भाण्डाश्च पटहैः सह ॥५२ ॥
झंर्झर्यो दर्दुराश्चैव सुनवा[^३०] मर्दलास्तथा ।
कटङ्कटाः पेपुकाश्च तथा चैवैकपुष्कलाः ॥ ५३ ॥
पञ्चाक्षाः सरिधीकाश्च मुकुन्दा[^३१] मुरजास्तथा ।
लभका जलमत्ताश्च अवाद्यन्त सहस्रशः ॥५४॥
गायनै[^३२]श्चैव गायद्भिः स्तुवद्भिः सूतमागधैः ।
दिव्याभिः कुलवृद्धाभिः स्त्रीभिश्च कृतमङ्गला ॥ ५५॥
द्वार्य[^३३] पश्यन् रथं क्लृप्तं यया देवमयं हरः ।
शतनल्वप्रमाणाङ्कं[^३४] दिव्यं जाम्बूनदं दृढम् ॥५६ ॥
असङ्गतुरगैः श्वेतै[^३५]स्त्रिसाहस्रैर्मनोजवैः ।
अमरैः कामगैर्दिव्यैः श्रमदुःखविवर्जितैः ॥५७॥
यन्ता रथस्य तस्यसिल्मकरो नाम विश्रुतः ।
पुत्रो गरुत्मतो व्यास खगः कामगमःशुभः ॥ ५८॥
महाशान्तिः - घ । २७ मे दाना दष्टजागत्य दृशा - ख. । २८ सह भृत्यैः - ख. । २९ तमेव - (?) । ३० सुघोषा - घ. । ३१ मुक्यन्दा - ख. । ३२ गायना - ख. । २३ धार्य (?) - ख । ३४ शतकल्प- प्रमाणाङ्क - ख. । ३५ संयुक्तं तुरगैर्दिव्यै (?) - घ ।
तमसौ राजशब्देन[^३६] आशीर्भिश्चाभिपूजितः।
आरुरोह रथं राजा एकचक्रं यथा रविः ॥।५९॥
कवची बद्धतूणीरः शरी खड्गी शरासनी ।
बद्धगोधाङ्गुलित्रश्च कण्ठत्राणकृतस्तथा ॥8.77.६०॥
ध्वजेन महता चैव छत्रेण च विभूषितः ।
बह्वीभिर्वैजयन्तीभिः सबलाक इवाम्बुदः ॥६१॥
तस्य छत्रं तदा भाति किरीटोपरि संस्थितम् ।
आविष्कृतपयोदाभः पौर्णमास्यां यथा शशी ॥६२॥
खट्वाङ्गस्तस्य चाभाति ध्वजो दिवमिवाक्रमन् ।
त्रैलोक्यस्योपघातार्थं[^३७] केतुर्दीप्त इवोदितः ॥६३ ॥
तादृगेव रथो ह्यासीत् सुतस्य सुमहात्मनः ।
अन्धकस्य तदा व्यास महाजलदनिस्वनः ॥।६४॥
अथ याहीति तेनोक्तौ[^३८] रथयन्ता सुरद्विषः ।
त्रिसाहस्रान्[^३९] हयाग्र्याँस्तु रथे[^४०] प्रस्यचूचुदत्? ॥६५॥
प्रचोदितास्तमूढुस्ते[^४१] जवना वातरंहसः ।
हयाः कामगमाः सप्त रवेरिव महारथम् ॥६६॥
तस्याग्रतस्तदा शुक्रो रथेनाम्बुदनादिना ।
उद्गच्छत इव व्योम्नि तस्याभूद् यथा बुधः ॥६७॥
दक्षिणे तस्य पार्श्वे च अभूदन्धकदानवः ।
दक्षिणायनमासाद्य यथा लोकस्य भास्करः ॥६८॥
द्वितीयं पार्श्वमाश्रित्य विप्रचित्तिरभूत् स्थितः ।
भारतस्येव वर्षस्य हिमवान् पर्वतोत्तमः ॥६९ ॥
पृष्ठतश्चाग्रतश्चैव यथाप्रीति ययुस्तदा ।
अपरे दानवाः शूराः शशाङ्कस्य यथा ग्रहाः ॥8.77.७० ॥
जयशब्देन - घ. । ३७ त्रैलोक्यस्योपघाताय - घ । ३८ .. .नोक्तो (?) । ३९ द्विसाहस्रान् - ख. । ४० सारथिः - घ । ४१.. स्तमूचुस्ते - ख ।
तत्सैन्यं प्रचलद् भाति व्रजतां मुनिसत्तम ।
सविद्युत्स्तनयित्नूनामभ्भोदानामिवात्यये ॥७१ ॥
हयह्रेषितशब्दञ्च मत्तद्विरद बृंहितम् ।
वल्गितास्फोटितोत्क्रुष्टं सिंहनादोद्धतं ययौ ॥७२॥
तद्धि तूर्यरवसिंहनादितैरश्वहेषितगजोग्रबृंहितैः ।
बाहुशब्दकुचितावनादितैर्याति दानवबलं भयावहम् ॥७३ ॥
इति स्कन्दपुराणे हिरण्याक्षनिर्याणं नाम सप्तसप्ततितमो[^४२]ध्यायः