०७६

सनत्कुमार उवाच
अथ तस्यां सह स्त्रीभिः कौमुद्यां दैत्यदानवाः ।
रेमिरे रक्तमनसो देवाः स्वर्गगता इव ॥ १ ॥

तत्र काचिच्छुभापाङ्गी पद्मं दिव्यं मुखोपरि ।
मुखारविन्दत्राणार्थं ददौ सोमभयादिव ॥२॥

अपरा चरणेनैत्य[^१] प्रियं मत्ताभ्यताडयत् ।
शीतांशुरिव पादेन विकचं शरदम्बुजम्[^२] ॥३ ॥

अपरा राजमार्गाणामनभिज्ञाः कुलस्त्रियः ।
स्फाटिकोपचितां भूमिं दृष्टवा मुञ्चन्ति पादुकाम् ॥४॥

उत्कृष्य वसनं चान्या[^३] विप्रेन्द्र जलशङ्कया ।
राजमार्गेषु गच्छन्ति दृष्ट्वा मणिचितां भुवम् । ५॥

काचित् प्रियेण सन्त्यक्ता रक्तेनान्येन निर्गता ।
गृहाच्चन्द्रांशुभिः स्पृष्टा पपात मदनालसा ॥६॥

पतितैव[^४] च सा सोममुवाचेदं कुलाङ्गना ।
भूयो मां त्वं करैस्तीक्ष्णैर्दहसे नलिनीमिव ॥७॥

सूर्येण किल दग्धानि जीवयस्यौषधानि(?) ह ।
मदनेन कथं दग्धां न जीवयसि मां दृढम् ॥८॥

निर्वृतिं - ख. । ५४ पुरप्रवेशो नाम - घ- । ५५ चतुःसप्ततितमो - क. ।
नेत्य - क. ख. । २ शरदविकचाम्बुजं - ख. ३ मान्या - क. । ४ पतिता - ख ।
काश्चिद्[^५] रमण्यो दोलासु दोलयन्त्यो परस्त्रियः ।
जलचन्द्र इवाभान्ति वीचिचञ्चलमूर्त्तयः ॥ ९ ॥

केचिद् गायन्ति सहिताः स्त्रीभिर्दैत्या महाबलाः ।
गन्धर्वा नन्दनवने अप्सरोभिर्यथा सह ॥ 8.76.१० ॥

राजमार्गः क्वचिद् भाति स्त्रीभिर्बह्वीभिरावृतः ।
यथा नभसि चित्रोसौ दिव्यो देवपथः शुभः ॥११ ॥

क्वचिन्नूपुरकाञ्चीना कोकिलानाञ्च[^६] निस्वनः ।
बभौ श्रोत्रसुखः श्रोतुः[^७] कलामदनदीपनः ॥ १२॥

क्वचिद्रमणरक्तानां स्त्रीणां व्यास प्रियैः सह ।
हृदयव्याकुलकरः श्रूयते मधुरः स्वरः[^८] ॥ १३ ॥

एवं समभवद् व्यास बहुचित्रः स उत्सवः[^९] ।
दानवानां तदा प्रीतिसौख्यविश्रम्भवर्द्धनः ॥ १४॥

तस्मिन्नुपरये भूयः पूर्ववत्सम्प्रतिष्ठिते ।
प्रकृतिस्ते जने व्यास दानवास्ते समागताः ॥ १५॥

विविशुर्भीमसंह्रादाः सभां दिव्यां मनोरमाम् ।
जाम्बूनदमयस्तम्भां वज्रवैदूर्यवेदिकाम् ॥ १६ ॥

मुक्तादामावलम्बाढ्यां[^१०] स्रग्दामोत्तमभूषिताम् ।
वज्रवैदूर्यनीलेन्द्रमहानीलाम्रपल्लवैः ॥ १७॥

लोहितैः स्फाटिकैश्चैव तथा मरकतैरपि ।
दिव्यजालोपसन्नद्धां[^११] किङ्किणीचित्रशोभिताम्[^१२] ॥ १८॥

बहुपुष्पफलैश्चैव सर्वकामप्रदैर्द्रुमैः ।
उपेतां दीर्घिकाभिश्च बहुशय्यासनां शुभाम् ॥१९॥

अक्लमा बहुनिष्यन्दां[^१३] सर्वदुःखविवर्जिताम् ।
सर्वकामसमृद्धां च बहुस्त्रीपुरुषाकुलाम् ॥ 8.76.२० ॥

काचिद् - क. । ६ नूपुराणां च– ख। ७ श्रोतुं - क ख । ८ स्वनः - ख. । ९. स्तदोत्सवः क। १० विलम्बान्तां - ख । ११ दीव्यज्जालोपसन्नद्धां (?), दिव्यलाजो. - ख, दिव्यचित्री (?) १२. -जालशोभिताम् - (?) । १३ निस्पन्नां - घ,
विविशुस्तां सभां दिव्यां दैत्या दर्पसमावृताः ।
प्रह्रादश्चानुह्रादश्च सिनिर्वाष्कल एव[^१४] च ॥२१ ॥

विरोचनो बलिश्चैव बलिपुत्राश्च विश्रुताः ।
सहस्राणि दश द्वे च येषां श्रेष्ठो महाबलः ॥२२ ॥

बाणो नाम महामायो राजा बाहुसहस्रधृक् ।
बाणस्य पुत्रा ये चान्ये सहस्राणि दशैव ते ॥२३ ॥

मुरो धमुषुमण्डश्च (?) विप्रचित्तिश्च दानवः ।
कालो हयशिराश्चैव सम्बरः कालसम्बरः ॥२४॥

विश्रुतश्चेन्द्रदमनः कालनेमी च दानवः ।
तथा सुन्दनिसुन्दौ च विपाकः पाक एव च ॥२५॥

राहुश्च शतकेतुश्च ध्वजस्तारः सतारकः ।
महिषो दुन्दुभिश्चैव कालकश्च महाबलः ॥२६॥

अन्धकश्च तथाटिश्च बकः शरभ एव च ।
स्वर्भानुर्वृषपर्वा च मधुः कैटभ एव च ॥२७॥

महाकायः शतानन्दः शतदुन्दुभिरेव च ।
कार्त्तस्वनश्च हस्ती च बलो नरक एव च ॥२८ ॥

ध्वाङ्क्षो मूकेल्वलौ चापि वातापी सासृपुञ्जिकः? ।
कण्डलश्चैव मीढश्च दुर्लोमा चैव विश्रुतः ॥२९॥

धुन्धुश्च शतमायश्च शतावर्तोथ दुस्सहः ।
चन्द्रसूर्यौ नरश्चैव देवान्तकनरान्तकौ ॥8.76.३० ॥

ब्रह्महा यज्ञहा चैव इल्वलः (?) पिल्वकस्तथा ।
मयश्च दानवश्रेष्ठो मयपुत्राश्च विश्रुताः ॥३१ ॥

तेषामष्टौ सहस्राणि सर्वे च कृतनिश्चयाः ।
वृत्रश्च दानवश्रेष्ठो नमुचिर्भजहस्तथा ॥३२ ॥

शतोदरश्च व्यंसश्च ताथायश्च (?) ह्रदोदरः ।
केशी तथा प्रलम्बश्च कबन्धो धेनुकश्च ह ॥३३ ॥

बाष्कलिरेव क।
हालो गार्ग्यशिराश्चैव कुशः शम्भुस्तथैव च ।
तथा गगनमूर्धा च सालुकः शाल्व एव च ॥३४॥

मेघनादश्च विख्यातो महानादस्तथैव च
खरोथ खररोमा च सूचीलोमा च दानवः ॥ ३५॥

परिघोपरिघश्चैव दण्डः काश्यप एव च ।
दुन्दुभिश्च महाकायः सैंहिकेयश्च यो गणः ॥३६ ॥

तथा हालाहलश्चैव अन्धकारक एव च ।
पौलोमाः षष्टिसाहस्राः कालकेयाश्च[^१५] विश्रुताः ।
कालकञ्जाः सहस्राणि अष्टौ ते देवकण्टकाः ॥३७॥

निवातकवचानाञ्च तिस्रः कोट्यो महाबलाः ।
ता एता गणिताः सर्वाः कोट्यः षष्टिः सुरद्विषाम् ॥३८॥

तत्पक्षान् वर्जयित्वा तु मनुष्यान्पन्नगानपि ।
राक्षसाँश्च[^१६] पिशाचाँश्च[^१७] यक्षान्[^१८] पक्षिण एव च ।
तेषामपि तदा व्यास कोट्यो विंशतिसम्मिताः[^१९] ॥३९॥

ते तां सभां समाविश्य सर्वे दर्पात् सुरद्विषः ।
सविद्युदुल्का भान्ति स्म प्रावृड्जलधरा इव ॥8.76.४० ॥

ते स्वनन्त[^२०] इवाम्भोदा सधूमा इव पर्वताः ।
महिषा इव नर्दन्तः केतवोनागता इव ॥४१ ॥

उत्पाता इव निर्मुक्ताः सविषा इव पन्नगाः ।
गजा इव च सम्मत्ताः पवना इव वेगिताः ॥४२॥

सुराणां विप्रकारार्थं तस्थुरापूर्य तां सभाम् ।
अथ गत्वा सभापालो राजानमिदमब्रवीत् ॥४३ ॥

सुखासीनं तदा व्यास सिंहासनगतं युवा ।
प्रणम्य शिरसा पूर्वं जानुभ्यामवनिं गतः ॥४४॥

कालकेशाश्च क । १६ राक्षसाश्च - क. । १७ पिशाचाश्च - क. । १८ यक्षाः - क. । १९ सङ्गताः - क. । २० स्रवन्त क।
बद्धाञ्जलिपुटः सम्यग् वाचा श्लक्ष्णपदाक्षरम् ।
स्वामी[^२१] जयतु सर्वेषामसुराणां जयावहः ॥४५॥

प्रह्रादाद्याः[^२२] सभां सर्वे विप्रचित्तिपुरोगमाः ।
प्राप्ता विदितमस्त्वेव यदन्यत् कर्तुमर्हसि[^२३] ॥४६॥

सनत्कुमार उवाच
ततः सुरद्विषः श्रुत्वा सर्वान्प्राप्तान् सभां तदा ।
उत्तस्थौ सहसा राजा शक्रकेतुरिवोत्सवे ॥४७॥

स किरीटी महादंष्ट्रो मुञ्जकेशो महाहनुः ।
आकर्णाद्दारितास्यश्च महाच्छत्रशिरास्तथा ॥४८॥

आजानुबाहुर्वृत्ताक्षः पिङ्गाक्षश्चोर्ध्वरोमवान् ।
वज्रसंहननश्चैव महायोगी महाबल ॥४९॥

किरोटेनाति सम्भाति सवित्रेवोदयस्तथा ।
हारवर्याङ्कितोरस्कः सबलाक इवाम्बुदः ।
सपुत्रः प्रययौ व्यास हिमवानिव मूर्त्तिमान् ॥8.76.५०॥

स तां तदा दानवराजसत्तमो विचित्ररत्नांशुपरीतकुण्डलः ।
सभां विवेशासुरदैत्यपुङ्गवैः समावृतां द्यामुदितैर्ग्रहैरिव ॥५१ ॥

इति स्कन्दपुराणे हिरण्याक्षस्य सभाप्रवेशो नाम षट्सप्ततितमो[^२४]ध्यायः