सनत्कुमार उवाच
सोष्टाभिर्दानवैस्सार्धं गत्वा तत्पुरमन्तिके ।
निवेदयामास पितुः कृतार्थोन्धक आगतः ॥ १ ॥
प्रियाख्यातुस्ततो[^१] व्यास हिरण्याक्षोसुरेश्वरः[^२] ।
ददौ रत्नान्यनेकानि तथा कामानभीप्सितान् ॥२॥
स्वयं राजा तदा[^३] सर्वैः सुहृद्भिः सहवाहनैः ।
सह स्त्रीभिर्ययौ तूर्णं सोमस्तारागणैरिव ॥ ३ ॥
यथा - क. । २२ यदन्धक - ख. । २३ लोककण्टकम् - ख । २४ दैत्येन्द्रैर्जगाम - ख. । २५ प्रहृष्टचेतास्तपया - ख., …सं - ख. । २६ प्रदानो नाम - ख., प्रदान नाम - घ. । २७ त्रिसप्तति- तमो - क. ।
प्रियाख्यातुं ततो - ख । २ महासुरः - ख. । ३ ततः - ख. ।
स गत्वा नातिदूरेथ वने साशोकचम्पके ।
आससाद सुतं श्रीमान्[^४] सोमो बुधमिवापरम् ॥४॥
कृतार्थं स सुतम्[^५] दृष्ट्वा तुष्टोभूद्दानवेश्वरः ।
स्नेहात्स तम्[^६] परिष्वज्य मूर्ध्न्युपाघ्राय चासकृत् ॥५ ॥
कथं केन च कालेन के च लब्धा वरास्त्वया[^७] ।
पृष्टः स कथयामास यथावृत्तमशेषतः ॥६॥
तस्य तद्वरदानञ्च तथा माहात्म्यमेव च ।
श्रुत्वा तेसुरशार्दूलाः[^८] प्रणेदुः सागरा इव ॥७॥
सनत्कुमार उवाच
ततस्तं रथमारोप्य[^९] हिरण्याक्षोन्धकं सुतम् ।
सुहृद्भिस्तैः सहैवाशु प्रविवेश स्वकं पुरम् ॥८॥
स पुत्रसहितो भाति दैत्यः सम्पूर्णमानसः ।
चरन् राशिमिवादित्यो यथा सह शनैश्चरः ॥९॥
सनत्कुमार उवाच
ततः प्रविश्य दैत्येन्द्रः सुहृद्वर्गमुवाच सः[^१०] ।
अध्वर्युरिव[^११] सान्नाय्ये[^१२] यथान्यानृत्विजः स्थितान्[^१३] ॥ 8.75.१० ॥
हिरण्याक्ष उवाच
शृणुध्वं यदिदानीं मे कृत्यं हृदि चिरस्थितम् ।
कर्तव्यं सह सर्वैस्तु युष्माभिर्भीमविक्रमैः ॥११ ॥
मया मनीषितं पूर्व कृतकृत्य इहागते ।
अन्धके नगरेस्मिन्वै कर्ताहं कौमुदीमिति ॥१२॥
मखघ्नस्य च देवस्य देवरात्रिं महाप्रभाम्[^१४] ।
करिष्यामीति तत्सर्वं क्रियतामविशङ्कया ॥ १३॥
धीमान् - ख. । ५ तु तं - क ख । ६. त्सुतं (?) ७ इति (?) । ८… सुरपशार्दूलाः(?)- ख. । ९ रथमारोह्य - ख. । १० ह - क. । ११ अध्वयुःसह - ख । १२ सायाह्ने - क, सामाह्नेः ख. । १३ शुभान् - क. ख. । १४ प्रभोः - ख. ।
घुष्यतां नगरे ह्यस्मिंश्चत्वरेषु सभासु च ।
कौमुदीदिवसानष्टौ[^१५] सप्त चैव ममाज्ञया ॥ १४॥
तावदेव च देवस्य सन्तु मे देवरात्रयः ।
सुहृदो ये च दैत्येन्द्रा दानवाश्च महाबलाः ॥१५॥
सर्वासु दिक्षु तेपीह समायान्तु रमन्तु च ।
अस्मत्पक्षे च ये विप्राः शुक्रप्रभृतयः शुभाः ॥ १६॥
नागा रक्षांसि यक्षाश्च गन्धर्वा मनुजास्तथा ।
तेपि सर्वे समायान्तु रमन्तु च मया[^१६] सह ॥१७॥
सनत्कुमार उवाच
त एवमुक्ता दैत्येन्द्रा हिरण्याक्षेण धीमता ।
तथा चक्रुस्तदा सर्वं[^१७] यथोक्तममरद्विषा ॥ १८॥
दूतान् सम्प्रैषयन्[^१८] क्षिप्रं दैत्यानां दानवैस्सह ।
तथान्येषां च पक्षाणामात्मनः शक्तिनन्दन ॥ १९॥
निमन्त्रयति वो राजा हिरण्याक्षो महाबलः ।
सुहृद्वर्गैस्तु[^१९] सहिता गच्छध्वं तं दिदृक्षवः ॥8.75.२० ॥
घण्टिक[^२०]श्चाहतैर्वस्त्रैर्वेष्टितः सुविभूषितः ।
आरूढः पाण्डरं मत्तं गजं समवघोषयत् ॥२१ ॥
राजा जयति दैत्येन्द्रो हिरण्याक्षः प्रतापवान् ।
हता दैत्यद्विषः सर्वे दानवानाञ्च शत्रवः ॥ २२ ॥
जयाय दितिपुत्राणामादित्यानां भयाय[^२१] च ।
प्रातःप्रभृति राजा व आज्ञापयति कौमुदीम् ॥२३॥
देव[^२२]रात्रिं च[^२३] देवस्य रुद्रस्य सुरनाशनीम्[^२४] ।
सुसम्मृष्टोपलिप्ताभी रथ्याभिः क्रियतां पुरम्[^२५] ॥२४॥
दिवसे चाष्टौ - ख. । १६ हा - क । १७ सर्वे - ख. । १८ दूतानप्रेषयन् - क. ख । १९ .. श्च - ख । २० घण्ठिक ख । २१ जयाय -क । २२ दीप (?) । २२ … रात्रीश्च - ख. । २४ सुरनाशनीः - ख । २५ परां - क. ।
वासोभिरहतैः सर्वे भवन्तु[^२६] पुरवासिनः ।
स्रग्विणः सशिरःस्नाता दत्तभुक्ता[^२७] यथाक्रमम् ॥ २५॥
गायन्तु गायनाश्चैव नृत्यन्तु नटनर्तकाः ।
उच्छ्रियन्तां पताकाश्च गृहवीथ्यापणेषु च ॥ २६ ॥
गृहाणि चोपलिप्तानि नित्यमेव भवन्तु च[^२८] ।
पुष्पप्रकरजुष्टानि[^२९] धूपैर्नानाविधैरपि ॥२७॥
स्रग्दामवन्ति सर्वाणि वनमालाकुलानि च ।
ब्राह्मणाश्चैव[^३०] भोज्यन्तां क्रियन्तां वाचानि[^३१] च ॥२८॥
ब्रह्मघोषाश्च सर्वत्र पुण्याहोदीरणानि च ।
दीपरात्रौ च सर्वत्र राजमार्गे गृहेषु च[^३२] ॥ २९॥
अनन्तराः[^३३] क्रियन्तां वै प्रचुरस्नेहवर्त्तयः ।
तरुणाः सह योषिद्भिस्समन्तात्पर्यटन्तु[^३४] च ॥8.75.३० ॥
रममाणा हसन्तश्च गायन्तो नृत्तसेविनः ।
भाण्डवाद्यानि वाद्यन्तां नृत्यन्तां दैत्ययोषितः ॥३१ ॥
महादेवस्य पूजां च[^३५] गन्धपुष्पादिकीं शुभाम् ।
उपहाराँश्च विविधान् स्नपनानि[^३६] महान्ति च ॥३२॥
वलयः पुष्कला[^३७] श्चैव भक्ष्यभोज्यैरलङ्कृताः ।
दीपांश्च विविधाकारान् पानानि च रसाँस्तथा[^३८] ॥३३ ॥
फलानि च विचित्राणि मांसपक्वमनूपकम् ।
सुवर्णमणिचित्राणि ईश्वराय प्रयच्छत ॥३४॥
बद्ध्यन्तां पशवश्चात्र भोज्यन्तां द्विजसत्तमाः ।
यो न कुर्यादिदं सर्वं पुरवासी जनः[^३९] क्वचित् ।
पातयेत्तस्य शारीरं राजा दण्डं[^४०] महायशाः[^४१] ॥३५ ॥
सर्वैर्भवन्तु - क. । २७ दत्तपक्ता - क., दन्तपङ्क्त्या - ख, दत्तपक्षा (भक्षा?) - घ । २८ वः - क. । २९ पुष्पप्रकारैर्जुष्टानि - ख । ३०. श्चापि - ख. । ३१ वाचकानि - ख. । ३२ गृहेगृहे - ख. । ३३ अनुत्तराः - क. । ३४ रमत्ताः पर्यटन्तु - ख. । ३५ पूजाश्च - क ख । ३६ स्नापनानि - ख । ३७ पुष्कलाः - ख. । ३८ सरसानि च - ख. । ३९ नर. - क. ख. । ४० राजदण्डं - ख । ४१ महायसः - ख.
सनत्कुमार उवाच
एवं स[^४२] घोषयित्वा तु घाण्टिको हस्तिपृष्ठतः[^४३] ।
जगाम स्वगृहं भूयः कौमुदी चाभ्यवर्तत[^४४] ॥ ३६॥
यथोक्तं तत्तदा सर्वमकुर्वत पुरे जनाः ।
राजापि संयतः स्नातः शुचिः प्रयतमानसः ॥ ३७॥
दिवसे दिवसे व्यास स्नपयामास[^४५] यत्नवान् ।
पञ्चगव्येन शुद्धेन तैलेन च सुगन्धिना ॥ ३८ ॥
क्षीरेण सर्पिषा दध्ना रसैश्च बहुभिः शुभैः ।
पुष्पैः फलैश्च बीजैश्च रत्नैश्चाद्भिः समन्वितैः[^४६] ॥३९॥
भस्मना गन्धयुक्तेन उदकेन सुगन्धिना ।
एकैकस्य स्वयं राजा घटानां[^४७] दशभिः शतैः ॥8.75.४० ॥
दिवसे दिवसे व्यास त्र्यम्बकं सोभ्यसेचयत् ।
गन्धैः पुष्पैश्च धूपैश्च जप्यैर्बलिभिरेव च ॥४१ ॥
पूजयित्वा ततो राजा विप्रानन्यानभोजयत्[^४८] ।
स कृत्वा पशुभिर्मेध्यै रत्नैर्मणिभिरेव च ॥४२ ॥
बलिशय्यासनाद्यैश्च स्तूयमानो गृहान्ययौ ।
तथैवान्येपि दैत्येद्राः सोन्धकश्च महाबलः ॥४३ ॥
चक्रुः सर्वे मुनिश्रेष्ठ यथा राजा तथैव ते[^४९] ।
अन्धकं[^५०] स गृहीत्वा तु[^५१] हिरण्याक्षः प्रतापवान् ॥४४॥
पद्भ्यामपातयद् व्यास रुद्रस्येदमुदाहरन् ।
एष देवः[^५२] सदा पुत्र तवास्तु सुमुखः प्रभुः ॥४५॥
अस्मिन् भक्तिस्त्वया कार्या भाविता परमेश्वरे ।
एष वन्द्यश्च पूज्यश्च अतो नास्ति परो गुरुः ।
पूजयेथाः सदैवैनं भक्तितः परमेश्वरम् ॥४६॥
सं - ख. । ४३ हस्तिपृष्ठगः - ख. घ । ४४ चास्य - क., चाप्यवर्तत - घ. । ४५ स्नापयामास - क । ४६ रत्नैश्चापि समन्ततः - ख । ४७ घण्टानां - क. । ४८. नन्याँश्च भोजयत् - क. । ४९ च - ख. । ५० अन्ध - क. । ५१ सुगृहीतं तु - ख. । ५२ देव - क ख. ।
सनत्कुमार उवाच
स एवमुक्त्वा प्रणिपत्य शङ्करं महासुरः सोसुरदानवेश्वरः ।
जगाम धीमान् पुनरेव निर्वृतो[^५३] निवेशनं देवपतिर्यथा स्वकम् ॥४७॥
इति स्कन्दपुराणे कौमुदीमहोत्सवो नाम[^५४] पञ्चसप्ततितमो[^५५]ध्यायः