सनत्कुमार उवाच
अथ गत्वा स विप्रेन्द्र हिरण्याक्षसुतस्तदा ।
गङ्गाद्वारं शुभद्वारं तपोवनमनुत्तमम् ॥१ ॥
गृहे - क. । ७२ मुखं हि बन्धूनां भाषन्ते - ख, मुखंस्वबन्धूनामाभाषन्ते (?), सुखं हि बन्धूनां - क । ७३ शरेण (?) । ७४ -..सत्तमैः - क. ख. । ७५ परिनिश्चित्य - (?) । ७६ सहितो - ख.। ७७ तपसो - क. ख. । ७८ दृष्टिखेदविरहं - क. । ७९ प्रक्षोधितोन्तः श्वसनः - ख., प्रख्यापितान्तः, स्मयन् - घ. । ८० ध्यायन्पादमुमापतेः - क. टि., ..मुमापतेस्स - क. । ८१ अन्धकतपः प्रयाणे - ख. । ८२ द्विसप्ततितमो - क. ।
दिव्यं कनखलं नाम यत्र हैरण्वती नदी ।
वृक्षाः कनखला यत्र सर्व एव हि काञ्चनाः ॥२॥
यत्र दक्षः पुरा यज्ञमयजद् दैवतैस्सह[^१] ।
महादेवेन यत्रास्य यज्ञो विनिहतः पुरा ॥ ३ ॥
तत्रासौ देवमभ्यर्च्य स्नातः प्रयतमानसः ।
नमस्कृत्वा दैवतेभ्य इदं वचनमब्रवीत् ॥४॥
अन्धक उवाच
येस्मिन् तपोवने देवा भूतानि विविधानि च ।
सर्वांस्ताञ्छरणं यामि तपःसिद्धिं दिशन्तु मे[^२] ॥५॥
अद्यप्रभृति कर्त्तास्मि तप[^३] उग्रं सुदुश्चरम् ।
वरान् येनाप्नुयामिष्टान्मृत्युं वा प्राणनाशनम ॥६॥
सनत्कुमार उवाच
स एवमुक्त्वा तु ततः पाराशर्य महाबलः ।
संवत्सरं वायुभक्षो बभूव क्लमवर्जितः ॥७॥
तथा त्रिषवण[^४] स्नायी जुह्वानोग्नीँस्तथैव च[^५] ।
देवार्चनरतश्चैव जपहोमपरस्तथा[^६] ॥८॥
वर्षे वर्षे तु[^७] सम्पूर्णे स्वाङ्गादुत्कृत्य कार्षिकम्[^८] ।
पिशितस्य तदा भागं जुहावाग्नौ महासुरः[^९] ॥९॥
एवं तस्यागमद्दिव्यं सहस्रं मुनिसत्तम ।
जुह्वतः स्वानि मांसानि वर्षाणां प्रत्यहं तदा ॥ 8.74.१० ॥
सोसुरः शङ्खहाराम्बुसुधाकुन्देन्दुपाण्डरः ।
बभूवास्थिसिराशेषः केवलं[^१०] तपसि स्थितः ॥११ ॥
स तेन तपसा युक्तो भास्करं निष्प्रभं तदा ११ ।
सोमं च ग्रहताराभिस्सह चक्रे मितात्मवान् ॥ १२॥
देवतैस्सह क. ख. । २ माम् - ख. । ३. .स्मिन्तप - क- । ४ त्रिषवणं - क. । ५ जुह्वानोग्निं तथैव च - क. ख । ६ जप्यहोमपरस्तथा - क ख. । ७ वर्षेथ - ख. । ८ कायिकम् - क. । ९ महासुतः - ख. । १० केवले - ख. । ११ तथा - ख. ।
स एव भास्करो यद्वत् प्रकाशयति तेजसा ।
अशोषयत् पल्वलानि नदीकूपसरांसि च ॥ १३ ॥
पवनं स्तम्भयामास सोन्धकस्तपसा तदा[^१२] ।
व्योम्नि सिद्धा न गच्छन्ति विमानानि च पेतिरे[^१३] ॥१४॥
तस्य तत्तपसो रूपं दृष्टवा विघ्नशतान्युत ।
अकरोत् सहसा शक्रो विक्रियां न च सोन्वगात् ॥१५॥
ततो ब्रह्मा तमभ्येत्य[^१४] प्रोवाचान्धकदानवम् ।
महासुर तपो घोरं त्वया तप्तं महाबल ।
तुष्टोस्मि ते[^१५] महाबाहो चक्षुष्मान्भव सुव्रत ॥१६॥
शरीरं प्रकृतिं यातु यथापूर्वञ्च तेसुर ।
ब्रूहि चान्यं वरं भूयो यस्ते मनसि संस्थितः ॥ १७॥
सनत्कुमार उवाच
स चक्षुष्माँस्तदा[^१६] भूत्वा शरीरेणाक्षतेन च ।
उवाच प्रणतः साक्षाद्[^१७] ब्रह्माणं लोकभावनम् ॥ १८॥
अन्धक उवाच
भगवन् यदि तुष्टोसि यदि मे चरितं तपः ।
अप्रतिद्वन्द्वतां[^१८] सङ्ख्ये दैवतेभ्यः पितामह ॥१९॥
महाबलत्वं मायाश्च[^१९] तथा चामरतामपि ।
एतदिच्छामि देवेश यदि त्वं वरदो मम ॥8.74.२० ॥
सनत्कुमार उवाच
तस्य तद् वचनं श्रुत्वा प्रहस्य भगवान् विभुः ।
हिरण्याक्षसुतं प्राह पुनरेव वचः शुभम् ॥२१ ॥
अमरत्वं न दैत्यस्य ददामि[^२०] दितिनन्दन ।
सान्तरं तु भवेत्तत्ते स्वयमेवोत्तरं वद ॥२२ ॥
स्तपसस्तथा - ख. । १३ पेदिरे - ख. । १४ ब्रह्माणमभ्येत्य - ख. । १५ तुष्टोस्मिन्ते - क. । १६ चक्षुष्माँस्तु तदा - ख. । १७ सार्धं (सोन्धः?) - ख. । १८ अप्रतिद्वन्द्वता - ख. । ११ च - ख । २० ददानि - क., ददाति ख. ।
अन्धक उवाच
या स्त्री स्याल्लोकमाता वै प्रणमेयं न तां यदि ।
तदा स्यान्मम मृत्युस्तु मृत्युहीनोन्यथा[^२१] ह्यहम् ॥२३ ॥
ब्रह्मोवाच
एवमेतद् भवतु ते त्वया प्रोक्तं यदद्य वै[^२२] ।
अन्धको भव नाम्ना त्वं लोके ख्यातिं च यास्यसि ॥२४॥
सनत्कुमार उवाच
एवमुक्त्वा स भगवानन्धकं देवकण्टकम्[^२३] ।
जगाम स्वं तदावासं विररामान्धकश्च सः ॥२५ ॥
स गङ्गाम्भोभिराप्लुत्य देवमिष्ट्वा यथाविधि ।
अग्निं हुत्वा ततो धीमाननुमान्य तपोवनम् ।
सहायैत्सह दैत्येन्द्रो जगाम[^२४] पितुरन्तिकम् ॥२६॥
स हृष्टचेतास्तपसा[^२५] महाबलो विवृद्धकामः सुरशत्रुतोषणः ।
पितुस्सकाशं पुनरेव दीप्तिमानगच्छदुद्धूतबलाहकोपमः ॥२७॥
इति स्कन्दपुराणे अन्धकवरलाभो नाम[^२६] चतुःसप्ततितमो[^२७]ध्यायः