०७३

व्यास उवाच
अन्धकः कस्य पुत्रोसौ किं वीर्यः किं पराक्रमः ।
कथञ्च निहतः सङ्ख्ये सर्वमेतद्वदस्व मे ॥ १ ॥

सनत्कुमार उवाच
शृणु व्यास महाबुद्धे सर्वमेतद्यथाभवत् ।
अन्धकस्य पुरावृत्तं सर्वं वक्ष्यामि ते द्विज ॥२ ॥

कश्यपस्य सुतौ दित्यां दैत्यौ तौ सम्बभूवतुः ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षस्ततोनुजः ॥३॥

ज्येष्ठस्तत्राभवद्राजा हिरण्यकशिपुस्तदा ।
तस्मिन्विनिहते वीरे नरसिंहेन धीमता ॥४॥

हिरण्याक्षोभवद्राजा सर्वदैत्यनमस्कृतः ।
अपुत्रः स तपस्तेपे पुत्रहेतोरिति श्रुतिः ॥५॥

स शङ्कुकर्णं सम्प्राप्य सिन्धुसागरसङ्गमे ।
तपस्तेपे दितेः पुत्रो देवं द्रष्टुं पिनाकिनम् ॥६॥

व्यास उवाच
कथं तदभवद्दिव्यं पवित्रं लोकविश्रुतम् ।
शङ्कुकर्णं महेशस्य क्षेत्रं सर्वार्थसाधकम् ।
यत्फलं पुण्यसम्पच्च तन्मे व्याख्यातुमर्हसि ॥७॥

एकसप्ततितमो क.।
सनत्कुमार उवाच
पुरा हि भगवान्देवः कपर्दी नीललोहितः[^१] ।
सिन्धुसागरमागम्य लोकानुग्रहहेतवे ॥८॥

तपःकर्तुं समारेभे यदचिन्त्यं सुरासुरैः[^२] ।
दशस्वपि ततो दिक्षु रक्षणार्थं जगत्पतिः ॥९ ॥

स्थापयामास गणपान् निकुम्भादीन्सहस्रशः ।
शकुकर्णं महादंष्ट्रं स्थूलाक्षं स्थूलनासिकम् ॥ 8.73.१० ॥

ह्रस्वपादकरं चैव दारितास्यं विभीषणम् ।
शार्दूलचर्मसञ्छन्नं द्वीपिचर्मोत्तरच्छदम् ॥११ ॥

शङ्कुकर्णमिति ख्यातं गणेशं सुमहाबलम् ।
समाहूय समीपन्तु भगवानिदमब्रवीत् ॥ १२॥

स्वैस्त्वं गणेश्वरैस्सार्धं न विशेयुर्यथा सुराः।
तथा पाहि वनं वत्स यावदेतद् व्रतं मम ॥१३ ॥

एवं स कृत्वा रक्षां तु महादेवो वृषध्वजः ।
तपस्तेपे महत्तत्र घोरं परमदुश्चरम् ॥ १४॥

अथाजग्मुस्सुरास्तत्र सर्वे शक्रपुरोगमाः ।
निरुद्धाः शकुकर्णेन न चेलुः पदमग्रतः ॥ १५ ॥

देवा ऊचुः
भो गणेशा वयं देवं शर्वमुग्रं कपर्दिनम् ।
द्रष्टुं कार्येण सम्प्राप्तास्तन्नो दर्शयतानघाः[^४] ।
आकुलास्तमपश्यन्तो नश्याम[^५] प्रमथेश्वराः[^६] ॥१६ ॥

शङ्कुकर्ण उवाच
न युष्माभिः सुराः शक्यो देवो द्रष्टुं कथञ्चन ।
तपः कुरुत भद्र वस्ततो द्रक्ष्यथ शङ्करम् ॥ १७॥

नीललोचनः - ख. । २ सुरैरपि - क. । ३ कृत्वा स - ख. । ४ दर्शय ( दंशय?) मानघाः - क. । ५ न स्याम (? ), पश्याम - ख. । ६ प्रमथेश्वरं - क, । ७ शक्यं - क. ।
देवा ऊचुः
मा लोकानां विनाशः स्याद् गणेश्वर महाद्युते ।
इति प्रयच्छ नो द्वारं प्रसादं कुरु नः प्रभो[^८] ॥ १८॥

शङ्कुकर्ण उवाच
लोका नश्यन्तु यूयं वा न प्रवेशः प्रदीयते ।
विनष्टान्[^९] पुनरेवेशः स्रक्ष्यते भुवनेश्वरः ॥ १९॥

स्रष्टा स एव भूतानां स विनाशयिता तथा ।
तं विना कः सुराः शक्तो लोकान्नाशयितुं विभुम् ॥8.73.२० ॥

यच्छाम न वयं द्वारमाज्ञा नः पारमेश्वरी ।
त एवमुक्ताः[^१०] सञ्चिन्त्य जग्मुर्ब्रह्मसदः सुराः ॥२१ ॥

ततो निवेदयामासुर्ब्रह्मणस्ते सुरोत्तमाः ।
अथ ब्रह्मा सुरानाह मया सह पुनः सुराः ॥२२ ॥

गच्छध्वं गणपान् यावत् प्रत्यापत्तिं नयामि वः[^११] ।
ततस्ते ब्रह्मणा सार्धं विष्णुना च दिवौकसः ॥२३ ॥

तमेव पुनराजग्मुस्तिष्ठते यत्र शङ्करः ।
अथ तान्पुनरेवासौ[^१२] रुरोध गणपेश्वरः ॥२४॥

शङ्कुकर्णो गणाध्यक्षस्तेजसा प्रज्वलन्निव ।
अथ ब्रह्मा तमाहेदं सान्त्वमर्थयुतं वचः ॥ २५॥

गणेश्वर न देवानां दौष्ट्यं किञ्चिद्धि विद्यते ।
तव प्रसादात्पश्यन्तु देवा देवं[^१३] वृषध्वजम् ॥२६॥

शिरसा प्रणातास्तुभ्यं देवाश्चेन्द्रपुरोगमाः[^१४] ।
अहं च विष्णुना सार्धं प्रयाचेम गणेश्वर[^१५] ॥२७॥

तस्य तद्वचनं श्रुत्वा ब्रह्मणः स गणेश्वरः ।
क्रुद्धः पट्टिशमुद्यम्य वचः प्रोवाच निष्ठुरम् ॥२८॥

तत्प्रसाद कुरु प्रभो - ख. । ९ विनष्टे - क. । १० एवमुक्तस्तु - क । ११ च - क. । १२ पुनरेवाशु - क. ख. । १३ देवदेवं - क ख । १८. सेन्द्रपुरोगमाः - क ख. । १५ गणपेश्वरः - ख. ।
न मे गुरुतरो देवाः प्रणामो भवतां न्वयम् ।
आज्ञा गरीयसी शम्भोर्न प्रवेशोस्ति कश्चन ॥२९ ॥

प्रतिषिद्धान्[^१६] कथं ब्रह्मन्नियुक्ता रक्षणाय च ।
ईशाज्ञां समतिक्रम्य प्रयच्छाम प्रवेशनम् ॥8.73.३० ॥

तस्य तद्वचनं श्रुत्वा गणेशस्य महात्मनः ।
एकान्तं प्रययौ ब्रह्मा लज्जया परयान्वितः ॥३१ ॥

देवाः सर्वे ततो[^१७] दृष्ट्वा व्रीडायुक्तं पितामहम् ।
क्रुद्धा मन्युपरीताङ्गा वाक्यमूचुर्गणेश्वरम् ॥ ३२ ॥

गणाधिप न ते लज्जा गुरुमाक्रोशसे कथम् ।
नैवं[^१८] त्वां विब्रुवन्तं हि शंस्यते वृषभध्वजः ॥३३ ॥

अवमानं पुनर्मैवं[^१९] त्वमस्माकं कृथा गण ।
माद्य ते वयमुद्युक्ता नाशयिष्याम जीवितम् ॥३४॥

तेषां तद्वचनं श्रुत्वा शङ्कुकर्णो रुषान्वितः ।
वचः[^२०] प्रोवाच सङ्क्रुद्धस्तिर्यग् वीक्ष्य दिवौकसः ॥३५ ॥

गुरवः किं भवन्तो मे[^२१] येन शङ्केमराधिपाः ।
प्रसाद्य शङ्करं यूयं गता देवत्वमुत्तमम् ॥३६ ॥

गणभूताः सुरेशस्य यूयमप्यमरोत्तमाः ।
वयमप्यतियोगीशा गणपास्तस्य शूलिनः ॥ ३७॥

समाना यूयमस्माकं हीना वा त्रिदिवौकसः ।
यस्माद्वयं सुरेशानं पश्यामोनुचराम च ॥३८॥

सर्वैरेव सुरैस्तस्माद्वयं पूज्याः सदाधिकाः ।
पश्यामो निर्भया यूयं प्रवेशं कुरुतामराः ॥३९॥

यावदद्य गणेशानां बलं द्रक्ष्यथ दारुणम् ।
यद्वो बलं च योगश्च[^२२] यत्तपो यश्च वः श्रमः ॥8.73.४० ॥

प्रतिषिद्धं (?), .. द्धा - क । १७ ततो देवास्तथा - ख. । १८ नैव - क. । १९ अपमानं पुनश्चैव - ख. । २० तदा - ख । २१ भवन्त्येते - ख. २२ योगश्च - क. ख. ।
तत्सर्वं दर्शयध्वं वै ततो द्रक्ष्यथ[^२३] मे बलम् ।
तस्य तद्वचनं श्रुत्वा सर्वे देवाः सुगर्विताः ॥४१ ॥

प्रगृहीतायुधाः क्षिप्रं शङ्कुकर्णं विदुद्रुवुः ।
तेषामापततां व्यास सुराणां शूरमानिनाम् ॥४२॥

बलं जग्राह योगेन शङ्कुकर्णो महाबलः ।
निगृहीतबलास्ते तु सर्व एव सुरोत्तमाः ॥४३ ॥

नाशक्नुवन् पदं दातुं तस्थुः स्तम्भा इवाचलाः ।
निगृहीतेषु देवेषु विष्णुः प्रहरतां वरः ॥४४॥

अभिदुद्राव वेगेन शङ्कुकर्णं गणेश्वरम् ।
स योगेन तदा विष्णोर्देहमस्तम्भयद्बली ॥४५॥

स योगं पुनरास्थाय विष्णुरैश्वर्यसंयुतः ।
युयुधे शङ्कुकर्णेन स चैनं प्रत्ययुध्यत ॥४६ ॥

तयोस्तु योगेश्वरयो[^२४] र्युक्तयोर्मुनिसत्तम ।
बभूव सुमहद् युद्धं[^२५] योगेनैव परस्परम् ॥४७॥

विनिगृह्य स तं विष्णुं गणेशः शर्ववल्लभः ।
पितरं मम योगेन युयोध परमाद्भुतः[^२६] ॥४८॥

स[^२७] सूक्ष्मं योगमास्थाय ब्रह्मा[^२८] भूतान्यथाविशत् ।
यद्यद्विशत्यसौ भूतं ब्रह्मा लोकपितामहः ॥४९ ॥

तत्र तत्र स्थितं[^२९] ह्यग्रे शकुकर्णमवैक्षत ।
स भूतानि समुत्सृज्य तन्मात्राण्याविशत् प्रभुः ॥8.73.५० ॥

इन्द्रियाण्यथ तत्त्वानि भावाँश्चैव पितामहः ।
तत्र तत्र स योगात्मा योगं परममास्थितम् ॥५१ ॥

अपश्यत् स्थूलशिरसं शकुकर्णं महाबलम् ।
अथास्मिन्नन्तरे व्यास देवदेवस्य शूलिनः ॥५२॥

ज्ञास्थथ - ख. । २४ योगीश्वरयो - क. ख. । २५ दुद्रुवुश्च मुहुस्तत्त्वं - ख- । २६ परमाद्भुतं - ख । २७ सु - क. ख. । २८ महा - ख. । २९ तत्रास्थितं - ख. ।
दिव्यं वर्षसहस्रं तु प्रययौ द्वादशात्मकम् ।
समाप्तं चाभवद् व्यास व्रतं तस्य महात्मनः ॥५३॥

स समाप्ते[^३०] व्रते तस्मिन् युगान्ताग्निसमद्युतिः[^३१] ।
अवैक्षत दिशः सर्वा जीवयन्निव[^३२] शङ्करः ॥५४॥

सोपश्यन्निगृहीताँस्तान्[^३३] सर्वानेव दिवौकसः ।
साम्नैव स तदा देवः शकुकर्णं न्यवारयत्[^३४] ॥५५॥

सम्यगाज्ञा कृता वत्स त्वया मे गणपेश्वर ।
मुञ्च देवानिमान्सर्वान् मावमंस्था गणेश्वर ॥५६ ॥

एवं देवेन सम्प्रोक्तः[^३५] शङ्कुकर्णो गणाधिपः ।
विमुच्य देवताः सर्वास्तस्थो[^३६] देवसमीपतः ॥५७॥

सुरा अपि तदा सर्वे व्रीडया परया युताः[^३७] ।
प्रणेमुर्देवदेवेशं भक्त्या परमया विभुम्[^३८] ॥५८॥

तांस्तदा[^३९] व्रीडितान्देवः प्रहस्य विदितात्मवान् ।
उवाच ब्रह्मणा सार्धं विष्णुमाभाष्य सुस्वरम्[^४०] ॥५९॥

गणेश्वरोयं देवेशा मच्छासनपरस्सदा ।
यदनेन कृतं किञ्चिद् व्येतु तद्वः सुरोत्तमाः ।
कर्तव्यं यच्च तद् ब्रूत यदर्थं यूयमागताः ॥8.73.६० ॥

ब्रह्मोवाच
शङ्कुकर्णो ह्ययं श्रीमान गणेशो येन नो बलम् ।
हतं योगेन देवेश वरोस्मै सम्प्रदीयताम् ।
अस्मभ्यं परतो दद्यास्सदा[^४१] दर्शनमात्मनः ॥६१ ॥

देवदेव उवाच
अस्यैवेदं भवेन्नाम्ना पवित्रं लोकविश्रुतम् ।
शङ्कुकर्णमिति ख्यातं तथा स्थूलेश्वरं[^४२] शुभम् ॥६२॥

समाप्ते च - ख. । ३१ समप्रभः - ख । ३२ क्षीवयन्निव - ख. । ३३ ..तास्त्रान् - ख. । ३४ निवारयत् - क. । ३५ स प्रोक्तः - क । ३६ देवतान् सर्वान्तस्थौ - क ख. । ३७ परयान्विता? - ख। ३८ परमयान्विताः - ख. । ३९ ताँस्तथा - (?) । ४० सर्वशः - ख. । ४१ … त्सदा - क., शर्वः - ख । ४२ शूलेश्वरम् - क. ।
समन्ताद्योजनमितं[^४३] सर्वतीर्थसमन्वितम् ।
सर्वयज्ञफलैर्जुष्टं सर्वदानफलैर्युतम् ॥६३ ॥

योत्रागत्य[^४४] चरुं कृत्वा मां यत्नेनार्चयिष्यति ।
अहोरात्रोपवासेन मम लोकं स[^४५] यास्यति ॥६४॥

यत्किञ्चिन्नियमं कृत्वा योत्र संवत्सरं वसेत् ।
स योगं परमं प्राप्य शङ्कुकर्णसमो भवेत् ॥६५॥

यश्च प्राणानिह क्षेत्रे त्यजेन्नियममास्थितः ।
स देहभेदमासाद्य महागणपतिर्भवेत् ॥६६॥

पितॄणामक्षयं श्राद्धमिह दत्तं भविष्यति ।
इयं चैश्वर्यसम्पन्नास्तपोयोगबलान्विताः ॥६७ ॥

नित्यं द्रक्ष्यथ मां देवाः प्रयात विगतज्वराः ।
ततो देवो वरं दत्त्वा देवेभ्यः प्रभुरीश्वरः ॥६८॥

प्रकामं दर्शनं नित्यं तत्रैवान्तरधीयत ।
गते तस्मिन्महादेवे ब्रह्मा सुरवरैर्वृतः ॥ ६९॥

तत्र लिङ्गं प्रतिष्ठाप्य चक्रे तीर्थान्यनेकशः ।
दशाश्वमेधिकं तीर्थं[^४६] पुण्यं[^४७] पञ्चाश्वमेधिकम् ॥8.73.७० ॥

सुराणां चैव तीर्थानि कृत्वा स्वभवनं ययौ ।
एतत्ते कथितं व्यास सिन्धुसागरसङ्गमे ॥७१ ॥

परं भगवतः स्थानं पवित्रं लोकविश्रुतम् ।
सिद्धचारणसङ्कीर्णमप्सरोगणसेवितम् ॥७२ ॥

बहुपुष्पफलोपेतं सदा विहगनादितम् ।
तस्मिन् गत्वा वने व्यास हिरण्याक्षः प्रतापवान् ॥७३ ॥

पुत्रहेतोस्तपस्तेपे ध्यायमानस्त्रिलोचनम् ।
अथ देवस्तदा गत्वा सगणो वृषभध्वजः[^४८] ॥७४॥

योजनमिदं - क. ख. । ४४ योभ्यागत्य - क., योभ्यासया - ख । ४५ च - ख. । ४६ पुण्यं - क. । ४७ तीर्थं - क. ख. । ४८ सगणेशो वृषध्वजः - ख. ।
रम्यं हिमगिरेः शृङ्गं मैनाकमिति[^४९] विश्रुतम् ।
तस्थौ परमयोगीशः परं ब्रह्म सनातनम् ॥७५॥

तस्यागत्य तदा देवी संस्थिता पृष्ठतः शनैः ।
कराभ्यां पद्मतुल्याभ्यां नेत्रे शम्भोर्न्यमीलयत् ॥७६ ॥

जानीते नेति सञ्चिन्त्य क्रीडार्थं हिमवत्सुता ।
अथ तस्मिन् क्षणे व्यास जगदन्धमजायत ॥७७॥

अप्रदृश्यं हि तमसा तथाभूतं पुरा यथा ।
अथ देवस्तदा बुद्ध्वा तृतीयं नेत्रमव्ययम् ॥७८॥

ललाटेसृजदूर्ध्वस्थं युगान्ताग्निसमप्रभम् ।
तेजसा तस्य नेत्रस्य स गिरिर्भस्मसादभूत्[^५०] ॥७९ ॥

पार्वती पितरं दृष्ट्वा तथा दग्धं पिनाकिना ।
अपनीय करौ तस्थौ[^५१] विषण्णा पतिपार्श्वतः ॥8.73.८० ॥

अथ देवस्तदा दृष्ट्वा विषण्णवदनामुमाम् ।
सौम्येन चक्षुषापश्यच्छैलं तं[^५२] पुनरेव तु ॥८१ ॥

स तथा[^५३] दृष्टमात्रस्तु पुनः पौराणिकोभवत् ।
प्रकृतिस्थं पुनर्दृष्ट्वा देवी पितरमव्ययम् ।
प्रणम्योवाच भर्तारं हृषितास्या[^५४] गिरीन्द्रजा ॥८२ ॥

शैल एष त्वया देव किमर्थं भस्मसात् कृतः ।
किमर्थं प्रकृतिस्थश्च पुनरेव कृतः प्रभो ॥८३ ॥

तस्यास्तद्वचनं श्रुत्वा प्रोवाच परमेश्वरः ।
लोचने मे त्वया देवि यस्मिन्काले निमीलिते ॥८४॥

अन्धास्समभवल्ँलोकास्तदा सर्वे तमोवृताः ।
प्रकाशार्थं ततो देवि नेत्रमेतन्मया कृतम्[^५५] ॥८५॥

ललाटे सुमहद्येन दग्धोयमचलोत्तमः ।
त्वाञ्च दीनां पितृवधादुपलक्ष्य ततः शुभे ॥८६ ॥

इति (?) । ५० भस्मसाद्भवत् - क. ख. । ५१ तस्मिन - ख. । ५२ शैलमपश्यत् - ख । ५३ अथवा ( अथासौ?) - ख. । ५४ सा - ख । ५५ नेत्रमुन्मीलयावृतं - ख. ।
प्रियार्थं तव सुश्रोणि प्रकृतिस्थः पुनः कृतः ।
अस्मिंश्च तमसा ग्रस्ते लोके तीव्रेण सर्वतः ॥८७॥

उत्पन्नोन्धः प्रभावेण मम देवि तथैव च ।
तप्यमानाय दास्यामि हिरण्याक्षाय तं सुतम् ॥८८ ॥

एवमुक्त्वा स भगवान् प्रगृह्यान्धं गणैर्वृतः ।
सिन्धुसागरमागम्य हिरण्याक्षमुवाच ह ॥८९॥

पश्य मां त्वं दितेः पुत्र चक्षुर्दिव्यं ददामि[^५६] ते ।
शर्वोहमागतो दैत्य वरं ब्रूहि यथेप्सितम् ॥8.73.९० ॥

स प्रोत्थाय[^५७] हिरण्याक्षः प्रणम्य शिरसा भवम् ।
वरं सम्प्रार्थयद्[^५८] देवं पुत्रं दत्त्वेति सत्वरम् ॥९१ ॥

तमुवाच सुरश्रेष्ठः शिरसा[^५९] पादयोर्नतम् ।
अयन्ते सुरशार्दूल पुत्रः[^६०] पुत्रशताग्रजः[^६१] ॥९२॥

मावज्ञामन्ध[^६२] इत्यस्य कुर्यास्त्वमसुराधिप ।
भविता ते महानेष तपोवीर्थबलान्वितः ॥९३ ॥

न कस्यचित्वयं[^६३] वध्यो मत्तोन्यस्य भविष्यति ।
ततः स भगवान्देवस्तस्मै दत्त्वा सुतं शुभम् ॥९४॥

जगाम शिखरं रम्यं मैनाकं पुनरेव तु[^६४] ।
आदायान्धं सुतं सोपि हिरण्याक्षो महासुरः ॥९५॥

स्वमश्मकपुरं[^६५] यात्वा भार्यामाह मनस्विनीम्[^६६] ।
अयं तुभ्यं सुतो देवि दत्तो भगवता स्वयम् ॥९६॥

संवर्द्धयैनं योगेन मा प्रमादं कृथाः क्वचित् ।
तस्याः स्नेहेन तं दृष्टवा स्तनाभ्यां प्रस्नुतं[^६७] पयः ॥९७॥

संवर्ध्यमानः[^६८] कालेन सोन्धकः समवर्द्धत ।
यदा[^६९] तु यौवनं प्राप्तस्तदैवं[^७०] समचिन्तयत् ॥९८॥

ददानि - क ख । ५७ चोत्थाय - ख । ५८ वरमप्रार्थयद् - क. ख. । ५९ चिरया(मा?) । - ख. । ६० पुत्रं - क ख. । ६१ पुत्रशताग्रज - क,.. जः - ख. । ६२ अन्ध - क. । ६३ दयं - ख. । ६४ च - ख. । ६५ स्वकीयं पुन (र) - ख., स्वयमन्तःपुरं - (?) । ६६ यशस्विनीम् - क. । ६७ प्रस्नुतं - क ख. । ६८ संवर्द्धमानः - ख. । ६९ यथा - व । ७० …स्तुदैव - क. ख. ।
धिग् जीवितं ममान्धस्य मृत्युरेव वरो मम ।
योहमन्धो न पश्यामि गृह[^७१] सम्बन्धिबान्धवान् ॥९९॥

धन्यास्ते पुरुषा लोके ये स्वयं यान्त्यविक्लवाः ।
दृष्ट्वा दृष्टवा मुखं बन्धूनाभाष्य हि[^७२] यथासुखम् ॥8.73.१०० ॥

कार्यं भवेच्च लोष्टेन तृणेनाथ शवेन[^७३] वा ।
न मयानुगृहीतेन धिङ्मामशुभकारिणम् ॥१०१ ॥

सुतस्नेहादयं दैत्यः सदा मां रक्षते पिता ।
हन्तव्यं न विहन्त्येष कोषक्षयकरं हि माम् ॥१०२ ॥

नायं स्नेहेन सम्मूढो जानातीमां मम व्यथाम् ।
अहमेव करिष्यामि यत्कार्यं बुद्धिमत्तमैः[^७४] ॥ १०३ ॥

तपो महत्समास्थाय चक्षुष्मान् भविता ह्यहम् ।
स एवं परिनिश्चिन्त्य[^७५] बहुधान्धः सुबुद्धिमान् ॥१०४॥

आमन्त्र्य सहितं[^७६] मात्रा पितरं तं प्रणम्य च ।
जगाम तपसे[^७७] धीमान् सङ्कल्प्य कृतनिश्चयः ॥ १०५॥

पित्रा शोकपरिप्लुतेक्षणमुखेनायासखिन्नात्मना
मात्रा चासकृदश्रुपातमुखया संवीक्ष्यमाणश्चिरम् ।
तत्तीव्राधृतिखेददृष्टिविरह[^७८] प्रक्ष्वेडितोन्धः श्वसन्[^७९]
ध्यायन्देवमुमापतिं स[^८०] तपसे यातो गृहादन्धकः ॥ १०६ ॥

इति स्कन्दपुराणे अन्धकोपाख्याने तपःप्रयाणं[^८१] नाम त्रिसप्ततितमो[^८२]ध्यायः