०७२

व्यास उवाच
भगवन् सर्वयोगज्ञ श्रुतमाख्यानमुत्तमम् ।
परतः श्रोतुमिच्छामि यद् वृत्तं मुनिसत्तम ॥१ ॥

अपनीय तदा विष्णोः सिंहरूपं वृषध्वजः ।
किमन्यदकरोद्धीमानेतदिच्छामि वेदितुम् ॥२ ॥

सनत्कुमार उवाच
स्वयोनिं विष्णुमानीय देवदेवो भवस्तदा ।
मन्दरे सहितो देव्या विचचार महाद्युतिः ॥३ ॥

रम्यान् स काननोद्देशान् गिरेः प्रस्रवणानि च ।
अलञ्चकार देवेशः परिसर्पन् समन्ततः ॥४॥

त्वं - क. ५२ वपुः - घ. । ५३ स्वाक्यं - क., स्वाद्यं - घ. ५४ सप्ततितमो - क. ।
वनप्रेक्षारतम्[^१] देवं ज्ञात्वा शङ्करमव्ययम् ।
शरत्तत्र वसन्तश्च द्वावृतू समुपस्थितौ ॥५॥

ततो महीरुहाः सर्वे सरांसि च समन्ततः ।
नानाविधानि पुष्पाणि मुमुचुस्सहसा समम् ॥६॥

कमलोत्पलसञ्छन्नाः षट्पदव्रातसेविताः ।
हंससारससंवासा[^२] वाप्यस्तत्र मनोहराः ॥७॥

गन्धाढ्या जातयः क्षिप्रं बभूवुः सह चम्पकैः ।
अशोका[^३] गन्धपुष्पाश्च[^४] तथा चैवातिमुक्तकाः[^५] ॥८॥

उपतस्थुः समं देवं सर्वगन्धसुखानिलाः ।
सर्वर्तुकुसुमाकीर्णं दृष्टवा तद्वनमुत्तमम् ॥९॥

पुष्पाण्यादाय देवेशः स्वयमेव जगत्पतिः ।
अलञ्चकार हृष्टात्मा देवीं हिमगिरेः सुताम् ॥8.72.१० ॥

नन्दीश्वरञ्च पार्श्वस्थमात्मानञ्च सुरेश्वरः ।
ततः प्रणम्य देवेशं पार्वती प्रणयादिदम् ॥ ११ ॥

वचः प्रोवाच जननी कृत्स्नस्य जगतोव्यया ।
यथा मे देहजः पुत्रो भविता गोवृषध्वज ॥१२॥

त्वद्वीर्यस्त्वत्प्रभावश्च सर्वदेवनमस्कृतः ।
तथा कुरु महादेव यदि ते प्रियता मयि ॥१३॥

एवमुक्तस्तदा देव्या देवदेवस्त्रिलोचनः ।
प्रोवाचेदं महातेजा देव्याः प्रियचिकीर्षया ॥१४॥

एवं भवतु देवेशे विज्ञप्तिं सफलामिमाम् ।
करिष्यामि तवेशानि पुत्रस्ते स भवेद्यथा ॥१५॥

श्रेष्ठः सर्वसुरेशानां महायोगबलान्वितः ।
कृत्स्नं जगदिदं यस्य वशे स्थास्यति भामिनि ॥ १६॥

वनं प्रेक्ष्य रतिं - क., नवप्रेक्षारतिं - ख. । २ हंससारससंवाहा (धा?) - ख । ३ अशोको - क. ख । ४ गन्धपुष्पश्च - क. ख. । ५ .मुक्तकः - क. ख. ।
गच्छन्त्या तत् तपः कर्त्तुं वरः पूर्वमपि त्वया ।
प्रार्थितो ह्येष पुत्रार्थं तेनावश्यं ददामि[^६] ते ॥ १७॥

एवमुक्त्वा तु तौ देवौ गिरिजाभुवनेश्वरौ ।
नन्दीशेन तदा सार्धं विचरन्तौ जगद्गुरू ॥१८॥

सर्वोद्यानानि पश्यन्तौ विन्ध्यमाजग्मतुर्गिरिम् ।
अथागम्य तु विन्ध्यस्य सौवर्णं शिखरोत्तमम् ॥ १९॥

दरीकन्दरसङ्कीर्णं नानानिर्झरसंयुतम् ।
सतडिन्मेघसङ्घात[^७] घनीकृतशिलोच्चयम् ॥8.72.२० ॥

नानावृक्षशिलोपेतं नानाकुसुमसंयुतम् ।
नानाखगरवामोदं हेमरत्नोज्ज्वलं शुभम् ॥२१ ॥

मानसं तस्य मध्ये तु पुरं सृष्ट्वा[^८] महर्द्धिमत् ।
मणिहेममयं दिव्यं देवासुरविमोहनम् ॥२२ ॥

परमैश्वर्यसंयुक्तौ युतौ विविशतुः पुरम् ।
नन्दिनञ्च ततो देवी समाज्ञापयदव्यया । २३ ॥

वत्स नन्दिन् तथा द्वारे तिष्ठेस्त्वं गणपेश्वर ।
विशेन्नेह वथा कश्चित् सूक्ष्मो वायुरपि स्थितः ॥२४॥

कृत्वा शिरसि तामाज्ञां नन्दीशो गणपाधिपः ।
अभवद्[^९] द्वारमूलस्थः[^१०] कृत्वा तेजोतिदुस्सहम् ॥२५॥

योगयुक्तौ तदा देवौ परां मूर्त्तिं समास्थितौ ।
कृत्स्नस्य जगतो योनी पार्वतीभुवनेश्वरौ ॥२६ ॥

तस्थतुः सुचिरं कालं तनयार्थं महाद्युती ।
स न शक्यो मया वक्तुं ब्रह्मणा वा महामुने ॥२७॥

सुयोगो योभवद्[^११] देव्या देवदेवस्य शूलिनः ।
ब्रह्मणो मद्विधानाञ्च श्रेष्ठोसौ परमेश्वरः ॥ २८॥

अवश्यं त्वागमे वाच्यं यथावृत्तं यथाश्रुतम् ।
अतो वक्ष्यामि ते व्यास प्रियः शिष्यश्च मे भवान् ॥ २९॥

ददानि क.। ७ सङ्घातं क.। ८ दृष्ट्वा ९ भगवद् क.। १० स्थं क.।
योगसन्धानमास्थाय तयोरेवं महामुने ।
अतीतं स्थितयोर्दिव्यं सहस्रं शरदामभूत् ॥8.72.३० ॥

ततोभवन्निमित्तानि घोराणि त्रासनानि च ।
चचाल पृथिवी कृत्स्ना सशैलवनकानना ॥३१ ॥

नद्यः शोषं तदा जग्मुश्चुक्षुभे सरितां पतिः ।
तपनो निष्प्रभश्चासीद् ववावुष्णः[^१२] समीरणः ॥३२ ॥

पेतुरुल्का महाघोरा दिशश्चासन्सुदारुणाः[^१३] ।
एवमुत्पातवित्रस्ता शुभहेतोर्वसुन्धरा ॥३३ ॥

जगाम शरणं विष्णुं गत्वा चार्त्तिं न्यवेदयत्[^१४] ।
उत्पाता दारुणा देव बभूवुर्बहवो भृशम् ॥३४॥

तेनातीव समुद्विग्ना त्वामद्य शरणं गता ।
अथ विष्णुः सुरान्सर्वानिदमश्रावयत् प्रभुः ॥३५॥

ततो दिवौकसः सर्वे बृहस्पतिपुरोगमाः ।
एकत्र सङ्गता भूत्वा चक्रुर्बहुविधाः कथाः ॥३६॥

महाबुद्धिरथाहेदं वाक्यमङ्गिरसः सुतः ।
श्रीकण्ठो भगवानेष देवदेवस्त्रिलोचनः ॥३७॥

युक्तोभूद्धिमवत्पुत्र्या तनयार्थं महाद्युतिः ।
दिव्यं वर्षसहस्रन्तु योगेन परमेष्ठिनः ॥३८॥

अगाद्युक्तस्य[^१५] पार्वत्या बभूवुर्दारुणास्ततः ।
उत्पाता जगतस्त्रासाश्चिन्त्यते किमिहापरम् ॥३९॥

गच्छाम सहिताः सर्वे स्तोतुं भक्त्या वृषध्वजम् ।
यथा च देहजः पुत्रो भवेद्[^१६] देव्याः सुरेश्वराः ॥8.72.४० ॥

विज्ञापयाम देवेशं तथा शीघ्रमिहामराः ।
ततो वैवस्वतः प्राह वचः क्रोधाभिनिःसृतम्[^१७] ॥४१॥

ववावुष्णं - क. । १३ दिशश्चासंस्तदा (?) । १४ निवेदयत् - क. । १५ आगाद्युक्तस्य - क. । १६ पुत्रोभवद् - क. । १७ क्रोध - क., क्रोधविमिश्रितं (?) ।
किमर्थं भृशमुद्विग्ना भवन्तस्सर्व एव हि ।
यद्यसौ देवदेवस्य तनयोस्मासु भक्तिमान् ॥४२ ॥

उत्पत्स्यति न च द्रोग्धा ततः क्षंस्याम तं सुराः ।
अथ चेत्कर्कशोस्मासु द्रोग्धा वा स[^१८] भविष्यति ॥४३ ॥

तत एनमहं बद्ध्वा कालपाशेन बालकम् ।
आनेष्ये[^१९] स्ववशं[^२०] क्रूरं मृत्युना सहितोमराः ॥४४॥

न चेत्पुरन्दरो वज्रं तस्य क्षेप्स्यति मूर्धनि ।
द्विधा येन कृतो मूढः प्राणांस्त्यक्ष्यति दुस्त्यजान् ॥४५॥

ब्रुवतस्तस्य बह्वेवं क्रोधसंरक्तलोचनः ।
विष्णुः प्रोवाच धर्मात्मा वचांसि परमार्थवित् ॥४६॥

अहो त्वया सुविश्रब्धं प्रोच्यते भास्करात्मज ।
परमार्थमविज्ञाय क्रोधस्य वशवर्तिना ॥४७॥

तनयः किल यः शम्भोर्गिरिजायां भविष्यति ।
स मूढ इव यः कश्चिद् भविता वशगस्तव ॥४८ ॥

किमसौ मानवोन्यो वा जन्म[^२१] मृत्युसमन्वितः ।
उत्पत्स्यति रवेः पुत्र येन[^२२] स्याद्वशगस्तव ॥४९॥

कालेनापरिपूर्णेन मानवस्यापि भानुज ।
न त्वं नाशयिता[^२३] नाम किमु पुत्रस्य शूलिनः ॥8.72.५० ॥

तेजो भगवतः शम्भोर्यद् भविष्यत्यनुत्तमम् ।
स कथं वध्यतां यायात्[^२४] तव शक्रस्य वो विभो[^२५] ॥५१ ॥

ब्रवीमि वो हितं देवाः क्रियते यदि मद्वचः ।
प्रयाम सहितास्सर्वे तं प्रसादयितुं हरम् ॥५२ ॥

यो नः स्वयंवरे दत्तो वरस्तिष्ठति शङ्करे ।
तमेव वरयिष्यामो[^२६] वरमग्र्यं पिनाकिनम्[^२७] ॥५३ ॥

सम्भविष्यति (?) । १९ नयिष्ये - क. । २० स्वं वशं - क. ख. । २१ जनो - ख. । २२ तेन - क. ख । २३ वाशयिता - क., वशमिता (?) । २४ यातु (याता?) - क. टि. । २५ विभोः - ख. । २६ मृगशि … (?) - क. । २७ पिनाकिनः - क. ।
यथा न[^२८] देहजो देव्यास्तनयः सम्भविष्यति ।
नास्माकमहितं शम्भुः पुत्रमुत्पादयिष्यति ॥५४॥

वयमेव सुतास्सर्वे शङ्करस्याग्रजा[^२९] विभोः ।
न शक्यस्तपसा द्रष्टुं न ज्ञानेन[^३०] सुरेश्वराः[^३१] ॥५५॥

भक्त्या परमया द्रष्टुं शक्यः स्यात्स वृषध्वजः ।
आगच्छध्वं गमिष्यामो यत्र तिष्ठति शङ्करः ॥५६॥

परां भक्तिं समास्थाय यथा पश्येय शङ्करम् ।
हुतभुक् चैव नो देवस्तत्सकाशं[^३२] प्रवेक्ष्यति ॥५७॥

सर्वेषामेव विज्ञप्त्या[^३३] सुराणां सुरसत्तमाः[^३४] ।
इति श्रुत्वा वचस्तस्य विष्णोरमिततेजसः ॥५८॥

बृहस्पतिपुरोगास्ते हृष्टात्मानो दिवौकसः ।
साधुसाध्विति सन्तुष्टा वचांस्यूचुः सुरोत्तमाः ॥५९॥

ततो विष्णुसहायांस्ते गत्वा तच्छृङ्गमुत्तमम्[^३५] ।
ऊचुर्हुताशनं देवं वचः स्तुतिपुरस्सरम् ॥8.72.६० ॥

त्वमग्ने सर्वदेवानां हितकृत्सर्वतोव्ययः ।
प्रविश्य त्राहि नः सर्वाञ्छङ्कराय निवेदय ॥६१ ॥

तथा कुर्यास्सुरश्रेष्ठ[^३६] येन निर्गम्य शङ्करः ।
अस्मान्निरीक्षते देवः प्रह्वान् भक्तिमतः स्थितान् ॥६२ ॥

इत्युक्तस्स सुरैस्सर्वैः प्रत्युवाच हुताशनः ।
अकर्तव्यं हि मे देवा न युष्मान्प्रति विद्यते ॥६३ ॥

पार्वत्या सह संयुक्तं देवदेवेश्वरं[^३७] परम् ।
न मे शक्तिर्हरं द्रष्टुं भवन्तश्चाकुला भृशम् ॥६४॥

युष्मद्वाक्यमलड्घ्यञ्च कृच्छ्रमेतदतीव मे ।
प्रवेक्ष्ये दूतवद्देवाः[^३८] करिष्ये साहसं महत् ।
इत्युक्त्वा स जगामाशु भवनं[^३९] तत्कपर्दिनः ॥ ६५॥

ते - क । २९ शङ्करस्यात्मजा - क । २० ज्ञायेत - ख. । ३१ सुरेश्वर. - ख. । ३२ स्तम्भ. क. । ३३ विज्ञाप्यः - ख. । ३४ सुरसत्तमः - ख. । ३५,.. मुच्छ्रितं - क. । ३६ कुर्यात्सुरश्रेष्ठ - क. ख. । ३७ देवं देवेश्वरं - क. । ३८ सुतवद् देवाः - क. । ३९.. भवनं - क. ।
तत्रापश्यत् स्थितं द्वारे नन्दिनं परमौजसम् ।
द्वारमाक्रम्य तिष्ठन्तं दीप्तपट्टिशधारिणम् ॥६६॥

तं दृष्ट्वा स तदा वह्निः समालोक्य समन्ततः ।
नास्ति कश्चिदिहोपायः सूक्ष्मजन्तोरपि स्थिते ॥६७॥

प्रवेष्टुमिति सञ्चिन्त्य तमेव शरणं ययौ ।
नन्दिनं हुतभुग् देवस्तुष्टाव च कृताञ्जलिः ॥ ६८॥

नमो गणाधिपतये नमश्चण्डाय शूलिने ।
नमस्सेनाधिपतये नमः शर्वात्मने[^४०] सदा ॥६९॥

हालाहलाय रुद्राय नीलरुद्राय वै नमः ।
नमो िि?तिरुद्राय तथैवार्द्रपटाय च ॥8.72.७० ॥

नमस्ते स्वप्नरुद्राय भस्मरुद्राय ते नमः ।
नमः श्मशानरुद्राय कोटीरुद्राय ते नमः ॥७१ ॥

नमः पिङ्गलरुद्राय रुद्राधिपतये नमः ।
नमः प्रमथरुद्राय[^४१] भूतरुद्राय ते नमः ॥७२॥

विरूपाक्षाय रुद्राय श्वेतरुद्राय ते नमः ।
नमस्ते सततं देव नमस्ते सततं शिव ॥७३ ॥

नमस्ते सततं सौम्य नमस्ते भक्तवत्सल[^४२] ।
मम भक्तस्य देव त्वं देवानां हितमिच्छतः ॥७४॥

वरदो भव नन्दीश मा नः क्रोधं कृथाः प्रभो ।
ततो नन्दीश्वरः प्राह स्तुवन्तमनलं स्थितम् ॥७५॥

प्रीतस्तवानया वह्ने भक्त्याहं सुरसत्तम ।
ब्रूहि किन्ते प्रियेन्देव करवाणि[^४३] हुताशन ॥७६॥

अथ प्रोवाच वह्निस्तं वरदं नन्दिनं स्थितम् ।
यदि तुष्टोसि मे देव देयो यदि वरश्च मे ॥७७॥

सर्वात्मने - क. । ४१ प्रथमरुद्राय - क. । ४२ भक्तिवत्सल - क. । ४३ करोम्यद्य - क. ख. ।
देवकार्येण देवेश प्रवेष्टुं[^४४] दीयतां मम ।
भवनं देवदेवस्य वर एषोस्तु मे विभो । ७८॥

तं नन्दी प्रत्युवाचेदं कृच्छ्रं देयो वरो ह्ययम् ।
न तं शक्ष्यसि[^४५] देवेशं द्रष्टुं त्वं योगमास्थितम् ॥७९॥

सह देव्या महेशानं स्रष्टारं जगतोव्ययम् ।
तथाप्येष[^४६] मया तुभ्यं देय एव वरोनल ॥8.72.८० ॥

गच्छ सूक्ष्मतरो भूत्वा दुरालक्ष्यो हुताशन ।
प्रविश्य निष्क्रम क्षिप्रमविज्ञातागमक्रियः ॥८१ ॥

स नन्दिनाभ्यनुज्ञातो जातवेदा[^४७] मुदा युतः ।
ज्योतिः सूक्ष्मतरो भूत्वा भास्करस्यांशुना सह ॥८२॥

प्रविश्य भवनं शम्भोर्मणिस्तम्भमथाविशत् ।
वाह्नेय[^४८]मणिमध्यस्थं स्तम्भं तं भासयन्[^४९] मुहुः ॥८३ ॥

सोपश्यत्तत्र देवेशं देवीञ्च भुवनेश्वरीम् ।
तुष्टाव मनसा[^५०] देवौ ततोसौ हव्यवाहनः ॥८४॥

तथा संस्तूयमानश्च प्रीतिं देव्याश्च दर्शयन् ।
वीक्ष्य स्तभ्भं हरो देवीं वाक्यमेतदभाषत ॥८५॥

एष स्तम्भमणिर्देवि भ्राजमान इव प्रिये ।
संस्तौति मां त्वया सार्धं ददान्यस्मै वरं शुभम् ॥८६॥

देव्युवाच
एवं कुरु महादेव भक्तस्यास्य सुरेश्वर ।
स्तुवतस्त्वा मया सार्धं प्रयच्छ वरमुत्तमम् ॥८७॥

देवदेव उवाच
प्रीतोहं मणिमध्यस्थ भक्त्या ते विनयेन च ।
ब्रूहि कार्यं यथेष्टं त्वं तत्सर्वं ते भविष्यति[^५१] ॥८८॥

प्रवेशो (?) । ४५ शक्तोसि - ख. । ४६ यथाप्येष - क. । ४७ जातवेदो - क. । ४८ वह्नेय - -ख । ४९ भावयत् - क. । ५० वचसा - ख. । ५१ वर एष भविष्यति - ख. ।
अग्निरुवाच
देवास्त्वां द्रष्टुमिच्छन्ति बहिःस्था भुवनेश्वर ।
भगवँस्ते यथा सर्वे पश्येयुस्त्वां तथा कुरु ॥८९॥

देवदेव उवाच
एवमस्तु सुरश्रेष्ठ निर्गत्य त्रिदिवौकसाम् ।
ददामि[^५२] दर्शनं वह्ने भवतः प्रियकाम्यया ॥8.72.९० ॥

तथेति समनुज्ञातो वह्निस्तस्माद्[^५३] विनिर्गतः ।
देवेभ्यः कार्यमावेद्य तस्थौ योगं समास्थितः ॥९१॥

अथ निष्क्रम्य भगवान् देवदेवः पिनाकधृक् ।
जगाम त्वरितं तत्र यत्र देवाः समासते ॥९२॥

अथ दृष्टवा महादेवं देवास्सर्वे वृषध्वजम् ।
प्रणेमुर्मूर्धभिर्हष्टास्तुष्टुवुश्च मुदा युताः ॥९३ ॥

नमस्सहस्रनेत्राय सहस्रचरणाय च ।
महतां पतये नित्यं देवानां पतये नमः ॥९४॥

नमः श्मशानरतये व्याघ्रचर्मसुवाससे ।
ब्रह्मणश्च शिरोहर्त्रे[^५४] विष्णोर्वै[^५५] वरदाय च ॥९५॥

नमो दक्षमखघ्नाय नमस्ते त्र्यम्बकाय च ।
नमो भूताधिपतये प्रधानमथनाय च ॥९६॥

पिनाकपाणये नित्यं सर्वयोगात्मयोगिने ।
नमो नीलशिखण्डाय सपत्नीकाय वै नमः ॥९७॥

नमः कामेष्वसक्ताय कामसक्ताय वै नमः ।
नमस्सर्वाय[^५६] शर्वाय[^५७] दण्डिने[^५८] जटिने नमः ।
नमः सर्वात्मभूताय दिश नो यन्मनोगतम् ॥९८॥

एवं संस्तूयमानोथ सर्वैरेव सुरोत्तमैः ।
प्रत्युवाच महादेवस्तान्सुरान्प्रणतान् स्थितान् ॥९९॥

ददानि ख.। ५३ स्तम्भाद् ख.। ५४ नमो ब्रह्मशिरोहर्त्रे (?) ५५ विष्णवे क. ख. ५६ नमश्शर्वाय - ख. । ५७ सर्वाय - ख । ५८ मुण्डने - ख. ।
परितुष्टोस्मि भो[^५९] देवा ब्रूत किं[^६०] प्रददानि वः[^६१] ।
पुनः प्रणम्य ते देवाः प्राहुर्वचनमुत्तमम् ॥ 8.72.१०० ॥

यो नस्स्वयंवरे देव वरो दत्तस्त्वया विभो ।
तं प्रार्थयाम सहितास्तन्नो दातुं त्वमर्हसि ॥१०१ ॥

देव्या य एष पुत्रार्थं योगस्ते भुवनेश्वर ।
कृतोब्दानि बहूनि स्म तं[^६२] संहर नमस्तव ॥१०२॥

अशुभानि निमित्तानि दृश्यन्ते सुमहाद्युते ।
पृथिवी दुःस्थिता देव वयञ्च भृशमाकुलाः ॥१०३ ॥

तेनैष न यथा देव्या देहे सञ्जायते सुतः ।
जायेत च यथा देव तथा नः कर्तुमर्हसि ॥ १०४॥

तेषां तद्वचनं श्रुत्वा देवदेवोब्रवीद्वचः ।
महानेष वरः सर्वैः प्रार्थितः सुरपुङ्गवैः[^६३] ॥ १०५॥

तथापि च प्रयच्छामि युष्मत्प्रियचिकीर्षया ।
महान्तं किन्त्विदं कालं तेजस्सन्धारितं[^६४] मया ॥१०६ ॥

अस्य[^६५] प्रपश्यत[^६६] स्थानममोघं ह्येतदुत्तमम् ।
अथैवमुक्ता देवेन ते देवा मुनिसत्तम ॥१०७॥

बभूवुस्सहितास्तूष्णीं सुरा ब्रह्मपुरोगमाः ।
तेषां मध्ये तदा वह्निः[^६७] प्रोवाच भुवनेश्वरम् ॥ १०८॥

जुहुध्येतत्परन्तेजो मयि देव त्रिलोकप ।
जुहावाग्नौ ततस्तेजस्तदा स्वीयं[^६८] परं भवः ॥१०९॥

हुत्वा तस्मिन्ततः कृत्स्नं[^६९] तुष्टोभूत्परमेश्वरः ।
वरं वृणु हुताश त्वमिति प्रोवाच शङ्करः ॥8.72.११० ॥

ततो वह्निः प्रणम्येशं वरानभ्यर्थयद्[^७०] विभुम्[^७१] ।
इच्छेयमेतं[^७२] पुत्रन्ते मम नाम्ना प्रकीर्तितम् ॥ १११ ॥

वो - क ख. । ६० तं ब्रूत - ख ॥ ६१ च - क । ६२ तत् - क ख. । ६३ सुपङ्गवाः - ख. । ६४ …स्स्वन्धारितं (?) । ६५ अथ - क । ६६ प्रयच्छत - ख. । ६७ तेषामग्निस्तदा मध्ये - .क. । ६८ ..स्तदात्मीयं - क. । ६९ कृत्स्न ततस्तस्मिन - ख । ७० प्रार्थयद् - क ख. । ७१ विभु - क. । ७२ मेनं - ख ।
शापस्याहमगम्यः स्यां पश्येयं त्वाञ्च नित्यशः ।
धारयेयं सुखेनैतदुत्सृजेयञ्च शङ्कर ॥ ११२॥

सर्वभक्षोप्यलेपः[^७३] स्यां पापन्न च[^७४] भवेन्मम ।
मयि देवाश्च यज्ञाश्च प्रतिष्ठां यान्तु शूलधृक् ॥ ११३॥

अहं भूतेश्वरश्च स्यामहं पशुपतिश्च ह ।
अहं तव तनुः स्याञ्च त्वन्मूर्त्तिस्त्वदुपाश्रयः[^७५] ॥११४॥

वरमिच्छामि देवेश दीयमानमिमं[^७६] त्वया ।
एवमस्त्विति तत्सर्वं वह्नये प्रददौ विभुः ॥११५॥

विसृज्य च ततो देवान् देवदेवो वृषध्वजः ।
पुनर्विवेश भवनं देवी चैन[^७७]मभाषत ॥ ११६॥

क्व गत्वा त्वमिहायातः क्षिप्रं त्रिभुवनेश्वर ।
किन्तद् गुरुतरं कार्यं येन निर्गतवानसि ॥ ११७॥

ततः प्रोवाच देवेशः पार्वतीं रुषिताननाम् ।
गतोस्मि त्वरितो देवि देवैर्विज्ञापितः प्रिये ॥११८॥

बहिःस्थैः पद्मपत्राक्षि भक्तिमद्भिस्सुदुःखितैः ।
अथोवाच ततो देवी देवं सर्वजगत्पतिम् ॥ ११९॥

कथं त्वमागतान्देव बहिःस्थान् त्रिदिवौकसः ।
ज्ञातवानसि सन्त्रस्तान् केनाख्यातञ्च ते विभो ॥8.72.१२० ॥

देवदेव उवाच
प्रविश्य हुतभुग् देवि मणिस्तम्भं समास्थितः ।
न्यवेदयत्स्तुवन्मह्यं सर्वान्देवान्[^७८] बहिःस्थितान् ॥१२१॥

तवैवानुज्ञया[^७९] देवि तस्मै[^८०] दत्तो वरो मया ।
ततो भगवती क्रुद्धा[^८१] नन्दिनं प्राह[^८२] पार्वती ॥ १२२॥

सर्वभक्षोपलेप्यः - क. । ७८ स्यामापन्न च - ख- । ७५ …स्त्वदपाश्रयः - क. ख. । ७६ दीयमानमीदं - ख. । ७७ ञ्चैव - क. ख. । ७८ सर्वदेवान् - ख. । ७९ तवैषाज्ञा मया - ख. । ८० यस्मै - क, यस्ते - ख. । ८१ …भवत्सुसङ्क्रुद्धा - क. । ८२ प्रति - क. ।
कथं प्रविष्ट[^८३]स्ते वह्निर्द्वारस्थस्येह दुर्मते[^८४] ।
ततस्सास्य भृशं क्रुद्धा श्रवण[^८५] न्यस्तमुत्पलम् ॥१२३ ॥

गृहीत्वा वज्रसङ्काशं नन्दीशाय व्यसर्जयत् ।
द्वादशादित्यसङ्काशं प्रज्वलत्तत्तदोत्पलम्[^८६] ॥१२४॥

वधार्थं नन्दिनो[^८७] घोरं प्रससार स्फुटन्निव ।
हतो नन्दीश्वर इति प्रोच्योत्थाय च शङ्करः[^८८] ॥१२५॥

भद्रं भवोत्पलक्षिप्रमित्युक्त्वा गृह्णदुत्पलम् ।
अथोमापि ततो देवी प्रत्यापत्तिञ्जगाम ह ॥१२६॥

अहो बत महत्कष्टं कृतं क्रोधवशान्मया ।
कथञ्चिन्न हतो[^८९] नन्दी महागणपनायकः ॥१२७॥

तद् गृहीत्वा ततो हस्ताद् देवस्य श्रवणोत्पलम् ।
चिक्षेप त्वरितं देवी भद्रं भवतु ते सरः ॥१२८॥

एवमुक्त्वा ततः क्षिप्तं[^९०] देव्या तच्छ्रवणोत्पलम् ।
विन्ध्यपृष्ठे सरस्तत्र बहुपद्मोत्पलं बभौ ॥ १२९॥

हंससारससङ्कीर्णं चक्रवाकोपशोभितम् ।
नाम्ना भद्रोत्पलमिति हेमशृङ्गसमीपतः[^९१] ॥8.72.१३० ॥

तत्र स्नात्वा नरः[^९२] क्षिप्रं सर्वपापैः प्रमुच्यते ।
तत्राक्षयं सदा दानं पितृतर्पणमेव च ॥१३१ ॥

मृतश्चात्र नरो याति नन्दीश्वरसलोकताम् ।
ततो देवं[^९३] पुनर्देवी वाक्यमाह गिरेः सुता ॥१३२॥

किमूचुस्त्वां सुरा देव कीदृशं चार्चयन् वरम् ।
कथयामास देवेशस्ततो देव्यै बृषध्वजः ॥१३३॥

देवैर्विज्ञापितो देवि निर्गतोहं वरानने ।
देव्या य एष पुत्रार्थं योगस्ते भुवनेश्वर ॥१३४॥

प्रतिष्टवान् - क. । ८४ स्य सुदुर्मतेः - ख । ८५ श्रवणे - ख. । ८६ ज्वलन्तन्तन्तदोत्पलम् - क. ख । ८७ नन्दिने - क. । ८८ प्रोवाच्योत्थाय शङ्करः - क., प्रोत्थाय च स शङ्करः - -ख. । ८९ कदाचिन्नि हतो? - ख. । ९० क्षिप्रं - क. । ९१ हैमशृङ्गसमीपतः - ख । ९२ स्नातो - ख. । ९३ देव - ख। - -
अशुभान्यत्र दृश्यन्ते दारुणानि सहस्रशः ।
सन्त्रस्ता पृथिवी कृत्स्ना वयञ्च भृशमाकुलाः ॥१३५ ॥

तेनैष न यथा देव्या गर्भे सञ्जायते सुतः ।
भवेच्च तनयः श्लाघ्यो वर एष प्रदीयताम् ॥ १३६॥

ततोग्नौ तदद्भुतं तेजो मया पुत्रार्थमीश्वरि ।
सुतस्ते भविता श्रीमान् षट्शिरा द्वादशेक्षणः ॥ १३७॥

तस्य तद्वचनं श्रुत्वा शशाप गिरिजामरान् ।
यस्मान्मम सुतो देहे नेप्सितं तैर्दुरात्मभिः ।
स्वासु पत्नीषु तस्मात्ते न प्राप्स्यन्ति सुराः सुतम् ॥१३८॥

पृथिवी चापि सम्मूढा मच्छापोपहतेन्द्रिया ।
बहून्पतीन्समासाद्य न पुत्रं प्राप्स्यते क्वचित् ॥१३९ ॥

सनत्कुमार उवाच[^९४]
विरराम ततो देवी शप्त्वा देवान्सवासवान् ।
कैटभा नाम नाम्ना च पुण्या नैकवरप्रदा ॥8.72.१४० ॥

विन्ध्यस्य शिखरे हैमे तत्राभूद् गरिजा शुभा ।
पुण्यमायतनं तद्धि शिलाञ्च रमणाह्वयाम् ॥१४१ ॥

योभिगच्छेन्नरो व्यास मृतस्स गणपो भवेत् ।
अथाजग्मुः सुरास्सर्वे सार्धं तत्र हविर्भुजा ॥ १४२॥

विवर्णाः कश्मलोपेताः सगर्भा लज्जयान्विताः ।
तान्द्वाःस्थानागतान्नन्दी शङ्कराय न्यवेदयत् ॥१४३ ॥

प्रविश्य समनुज्ञाता देवमूचुर्दिवौकसः ।
तेजो न शक्नुमः सोढुमिदं त्रिभुवनेश्वर ॥ १४४॥

त्राहि नः सुरलोकेश यथा स्याम गतज्वराः ।
अन्धकश्चासुरोत्यर्थं तप्यते दुश्चरं तपः ।
भयञ्च नस्ततो देव दृश्यते सुमहद्विभो ॥१४५ ॥

वाक्यमेतद् ‘विररामे’ त्यादिपरवर्तिपद्यार्धानन्तरं पठितं क पुस्तके ।
देवदेव उवाच
मा भीर्भवतु वो देवा हनिष्याम्यहमन्धकम्[^९५] ।
युष्मदर्थे पराक्रान्तं हिरण्याक्षसुतं वरम् ॥१४६॥

यूयञ्च मेरुमध्यस्थं वनं यात सुविस्तृतम् ।
नाम्ना शरवणं[^९६] नाम पुण्यं द्वादशयोजनम् ॥ १४७॥

युष्माकं तत्र सम्भिद्य[^९७] कुक्षीन्दैवतपुङ्गवाः ।
मदीयं तत्परं तेजो निर्गमिष्यति दीप्तिमत् ॥ १४८॥

सुवर्णत्वं[^९८] च यास्यन्ति कुक्षयो वः सुरोत्तमाः ।
ततस्ते तद्वचः श्रुत्वा प्रणम्य शिरसा भवम् ॥१४९ ॥

श्रीमन्तं मेरुमाजग्मुः शरधानं च तच्छुभम् ।
यत्र तेषां तदा भित्त्वा कुक्षीन्तेजो निरक्रमीत्[^९९] ॥8.72.१५० ॥

युगान्तानलसङ्काशं दुर्निरीक्ष्यं सुरासुरैः[^१००] ।
मेरुश्चैवाभवत् क्षिप्रं श्रीमानति मनोहरः ॥१५१ ॥

सर्वं हिरण्मयं चक्रे तेजो माहेश्वरं परम् ।
वाति गन्धवहो[^१०१] दिव्यस्सर्वर्तुकुसुमावहः ॥ १५२॥

तेषाञ्च कुक्षिभेदास्ते सुवर्णत्वं परं ययुः ।
स्वर्गे दुन्दुभयो दिव्या नेदुः स्वयमनाहताः ॥ १५३ ॥

पुष्पाणां वृष्टयः पेतुस्सुगन्धीनामनेकशः[^१०२]।
नमस्कारैश्च भूतानामदृश्यानामभूत्स्वनः ॥ १५४॥

एवमादीनि पश्यन्तः शृण्वन्तश्च सुरोत्तमाः ।
गत्वा पिनाकिने हृष्टास्सर्वमावेद्य सुव्रत[^१०३] ।
प्रेषिताः स्थाणुना जग्मुः स्वाल्ँलोकान् हृषिताननाः ॥१५५॥

हंस्ये तमहमन्धकम् - क. । ९६ शरवन - क. । ९७ सम्मित्त्वा - क. । ९८ सपर्णत्वं - क. । ९९ तेजोभिश्च व्यतिक्रमं (न) - क । १०० सुरैरपि - क ख. । १०१ गन्धर्वरो - क. । १०२ सुगन्धाना- मनेकशः - क. । १०३ सुव्रताः - क ।
श्रुत्वा देवैरभिहितमिदं प्रीतियुक्तैर्वचोग्र्यं
प्रीता देवी हृदयमहिता पुत्रजन्मप्रवृत्तिम् ।
ज्ञात्वा तस्थौ विबुधवरदा योगमाता विधात्री
तुष्टिञ्चागाद्धृदि सुरशिरःस्पृष्टपादारविन्दा ॥१५६॥

इति स्कन्दपुराणे स्कन्दजन्मप्रवृत्तिर्नाम द्विसप्ततितमो[^१०४]ध्यायः