०७१

सनत्कुमार उवाच
शासतस्तस्य दैत्यस्य हिरण्यकशिपोस्तदा ।
अगात्[^१] कालो महान् व्यास त्रैलोक्यं सचराचरम् ॥१ ॥

दर्पेण महताविष्टः[^२] श्रीमदोद्वृत्तचेतनः[^३] ।
अवमेने सुरान्सर्वान् न च धर्ममवैक्षत[^४] ॥२॥

स देवान् सहितान् सर्वाञ्छक्राद्यान् क्रोधमूर्च्छितः ।
चालितानपि[^५] राज्ये स्वे कृच्छ्रमापादयद् भृशम् ॥३ ॥

सन्ताप्यमानास्ते सर्वे ब्रह्माणं शरणं ययुः ।
भगवन् भूतभव्येश पितामह महाद्युते ॥४॥

हिरण्यकशिपुर्दैत्यस्त्वत्तो लब्धवरोनघ ।
त्रैलोक्यं कृत्स्नमाक्रम्य राज्यं नो हृतवान्दिवः[^७] ॥५ ॥

अनिशं चावमानन्नः[^८] प्रयुङ्क्ते वैरयातनम् ।
तेन विद्रावितास्सर्वे शरणं वयमागताः ॥६॥

प्रसादं कुरु देवेश स न स्यान्नो यथा रिपुः ।
त्यक्तधर्मा जगच्छत्रुर्हिरण्यकशिपुर्बली ॥७॥

एवं प्रोक्तस्तदा देवैर्देवः कमलवाहनः ।
प्रोवाचेदं महाप्रज्ञ देवानां प्रियकृद्वचः ॥८॥

वरप्रदाने अध्याय. ६०(७०) - ख. । ५५ ऊनसप्ततितमो - क. ख. ।
आगात्। - क. । २ …ष्ट - क । ३ …चेतसः - क. । ४ ..मवेक्षते - ख. । ५ चलितानपि - ख. । ६ सन्त्रास्यमानास्ते - क. । ७ दिवि - क. ख. । ८.. मवमानं नः - ख., चार्थमान - क ।
क्षीणं तद् दैत्यराजस्य तपस्तस्य दुरात्मनः ।
कृच्छ्रं गमितवान् यो वो राज्यञ्च हृतवान् रिपुः ॥९ ॥

तेनाहं प्रार्थितः पूर्वं सर्वावध्यत्वमुत्तमम् ।
अन्तरं भाषितश्चासौ मया सञ्ज्ञाविमोहितः ॥ 8.71.१० ॥

यदैवान्तरमाहाथ[^९] दैत्यराजो विचेतनः ।
तदैव[^१०] मनसा तोषमहमागां महाबलाः ॥११ ॥

ते यूयमद्य गच्छध्वं विष्णोर्भवनमुत्तमम् ।
तं ब्रूत सहितास्सर्वे तस्य नाशार्थमच्युतम्[^११] ॥ १२॥

नरसिंहवपुः[^१२] कृत्वा सकृदाहत्य हंस्यति ।
हिरण्यकशिपुं दैत्यं ततो निर्वृतिमेष्यथ ॥ १३ ॥

एवमस्त्विति ते सर्वे प्रणिपत्य पितामहम् ।
आजग्मुः सहिता देवा विष्णोर्भवनमादृताः ॥१४॥

अथ दृष्ट्वा महातेजा विष्णुर्देवानुपस्थितान् ।
उवाच श्लक्ष्णया वाचा वचश्चोक्तिमनोहरम्[^१३] ॥१५ ॥

स्वागतं भवतामस्तु किमर्थं यूयमागताः ।
पूज्या भवन्तस्सर्वे मे सुहृदोतिगरीयसः ॥१६॥

यद्वो[^१४] मनोगतं किञ्चिन्मया कार्यं दिवौकसः ।
क्षिप्रं तद् ब्रूत सङ्क्षिप्तं कर्ताहमविचारितम् ॥१७॥

विष्णुनैवं तदा प्रोक्ता देवाः शक्रपुरोगमाः ।
ऊचुः प्रहृष्टवदनाः संस्तुवन्तो जनार्दनम् ॥१८॥

हिरण्यकशिपोर्देव दैत्यराजो[^१५] महाबलात् ।
भयं नः सुमहज्जातं राज्यं चापहृतं दिवः[^१६] ॥१९॥

अवमानः प्रयुक्तश्च तेनास्मभ्यं सुरोत्तम ।
भुनक्ति स जगत् कृत्स्नं ब्रह्मद्विट् कश्यपात्मजः ॥8.71.२० ॥

यदेवान्तरमाहाथ - ख. । १० तदेव - ख. । ११ …मुच्यतां - क., …मुद्यतं - ख. । १२ नारसिंहं वपुः (?) । १३ …श्चेतोमनोहरम् - क, .श्चोक्तौ मनोहरम् - ख. । १४ यद्वा - क. । १५ दैत्यराज्ञो - क. । १६ दिवि ५. क. ख. ।
स यथा वध्यते दैत्यस्त्वया सर्वारिसूदन ।
तथा कुरु हृषीकेश वरोयं नः प्रदीयताम् ॥२१ ॥

ततो विष्णुश्चिरं ध्यात्वा वधोपायं प्रचिन्त्य च ।
प्राह देवान् सुरश्रेष्ठो वचसाप्याययन्निव ॥२२॥

एवमस्तु सुरश्रेष्ठाः सर्वं कर्तास्मि वो वचः
महाबलस्य दैत्येन्द्रो यतो युष्मान्वदाम्यहम् ॥२३ ॥

आविशन्तु[^१७] भवन्तोपि शरीरं मम सुव्रताः ।
सर्वदेवमयो भूत्वा दृप्तं हंस्यामि वो रिपुम्[^१८] ॥२४॥

ततो देवास्तदा सर्वे विविशुर्वैष्णवीं तनुम् ।
स चापि बलवान् भूत्वा रूपं कृत्वा भयानकम् ॥२५॥

नारसिंहं महातेजा नखदंष्ट्राविभूषणम्[^१९] ।
जगाम विलसन् विष्णुर्हिरष्यकशिपोः पुरम् ॥२६॥

उद्यानं स बहिस्तस्य[^२०] सर्वर्तुकुसुमैर्वृतम्[^२१] ।
नृसिंहो दैत्यसिंहस्य दृष्ट्वा तस्थौ सुविस्मितः ॥२७॥

चम्पकाशोकजातीभिः कदम्बैर्बकुलैरपि[^२२] ।
तथा सुरभिपुष्पैश्च समन्तादुपशोभितम् ॥२८॥

सरोभिः पद्मसञ्छन्नैर्हंसचक्राह्वशोभितैः[^२३] ।
वृक्षैः कामफलैश्चैव वैभ्राजसदृशं वनम्[^२४] ॥२९॥

तद्बभञ्ज नृसिंहस्तु खेलगामी मदोत्कटः ।
सरांसि क्षोभयामास करीव स मदोल्बणः[^२५] ॥8.71.३० ॥

स रेजे वनमध्यस्थः परिसर्पन्नितस्ततः ।
मेरोरचलराजस्य स्थितं शृङ्गमिवोच्छ्रितम्[^२६] ॥३१ ॥

अथाभ्येत्य[^२७] नृसिंहं तं वनपाला रुषान्विताः ।
बलिनो वारयामासुस्ताँश्चैवाभ्यहनद्[^२८] बली ॥३२॥

आविशध्वं - क. । १८ रिपून् - क, ऋपून् - ख. । १९ विभीषणम् - क. । २० .. स्तत्र - ख. । २१ सर्वर्तुकुसुमायुतं - क. । २२ कदम्बबकुलैरपि - क. ख. । २३ सेवितैः (?) । २४ घनं - (?) । २५ समदो ललन् - ख. । २६ मिवोत्थितं - ख. । २७ अथागत्य - ख. । २८ चैव व्यहनद् - क. ख.. ।
हतशेषास्ततस्तत्र[^२९] प्रविलीनास्तु[^३०] येसुराः[^३१] ।
ते गत्वा कथयामासुर्हिरण्यकशिपोस्तदा ॥ ३३ ॥

तेषां तद्वचनं श्रुत्वा दैत्यराजो महाबलः ।
प्रह्लादञ्चानुह्रादञ्च नमुचिं बाष्कलिं बलिम् ॥३४।
विप्रचित्तिप्रधानाँश्च सर्वानाहूय दानवान् ।
प्रोवाच त्वरितं गत्वा बद्ध्वा सिंहं ममान्तिकम् ॥३५॥

समानयत दैत्येन्द्रा न हन्तव्यः कथञ्चन ।
क्रीडनं[^३२] सिंहपोतोसौ देव्या मम भविष्यति ॥ ३६ ॥

इति श्रुत्वासुरास्सर्वे विप्रचित्तिपुरोगमाः ।
उद्यानं सहिता गत्वा नृसिंहं ददृशुः स्थितम् ॥३७॥

दूरस्थाश्चिक्षिपुः पाशाँस्ताँन्स[^३३] चिच्छेद माधवः ।
अथ विद्रावयामास दानवान् केशरी भृशम् ॥३८॥

ततो हतसहायास्ते दैत्या विमनसो ययुः ।
पार्श्वं दानवराजस्य सर्वञ्चाकथयँस्तदा ॥३९ ।
अथ क्रुद्धः स्वयं राजा हिरण्यकशिपुर्बली ।
रथमास्थाय सन्नद्धा नृसिंहं प्राद्रवद्रुषा ॥8.71.४० ॥

स रथः सिंहराजेन सायुधः पर्वतोपमः ।
सम्भ्राम्य पातितस्तूर्णं चूर्णमागान्महीतले ॥४१ ॥

ततो भग्नरथो दैत्यः क्रोधात्संरक्तलोचनः ।
वृक्षमुत्पाट्य वेगेन नृसिंहाय व्यसर्जयत् ॥४२॥

अथासौ पतितो गात्रे सिंहराजस्य पादपः ।
मृत्खण्ड[^३४] इव पाषाणे क्षिप्तश्चूर्णं[^३५] जगाम ह .॥४३ ॥

गृहीत्वा स तदा सिंहो हिरण्यशिपुं सकृत् ।
तलेनाहत्य[^३६] तं प्राणैर्व्ययोजयत सत्वरम् ॥४४॥

सिंहनादं महत् कृत्वा नखैर्वज्रमयैर्विभुः ।
उरो बिभेद दैत्यस्य महाशैलोपमं हरिः ॥४५॥

स्तु ये तत्र - क. । ३० प्रवलीनास्तु - क., प्रप… - ख. । ३१ …स्तु तेसुराः - क., भये - ख । ३२ क्रीडनः - ख. । ३३ ..स्ताँश्च - क. ख. । ३४ मृदगण्ड - क., मृद्भाण्ड - ख. । ३५ ..ञ्चूर्णं ख ३६ बलेनाहृत्य - क.
हते तस्मिन्महादैत्ये विष्णुना शक्तिनन्दन ।
दानवा न हताः[^३७] ये तु विविशुस्ते रसातलम् ॥४६॥

दिवो राज्यं[^३८] पुनः शक्रो लेभे निष्कण्टकं महत् ।
दिवौकसश्च सर्वे ते स्वानि राज्यानि भेजिरे ॥४७॥

अथागत्य ततो देवः शूलपाणिर्वृषध्वजः ।
सुरैर्विज्ञापितो व्यास यत्ते कथितवानहम् ॥४८ ॥

विष्णोस्त्याजयितुं रूपं सैंहमद्भुतकर्मणः ।
शरभस्स तदा भूत्वा हिमवच्छिखरोपमः ॥४९॥

चतुर्भिः पृष्ठजैः पादैस्तीक्ष्णदंष्ट्रो[^३९] महाबलः ।
नरसिंहसमीपं तु गत्वागर्जत् समाहितः ॥8.71.५० ॥

अथ सिंहस्तदा दृष्ट्वा शरभं समुपस्थितम् ।
क्रोधेन महताविष्टस्तलेनैनमताडयत्[^४०] ॥५१ ॥

स हतस्तेन सिंहेन शरभो नैव चुक्षुभे ।
ततः शरभमाहत्य वज्रदेहं महाबलम[^४१] ॥५२॥

आत्मनैवागमत् कृच्छ्रं स्पर्शात्तस्य महात्मनः ।
ततो विष्णुश्चिरं ध्यात्वा ज्ञात्वा शङ्करमागतम् ॥५३ ॥

प्रणम्य शिरसा तं वै[^४२] स्तोतुमेवं[^४३] प्रचक्रमे ।
नमः शर्वाय रुद्राय सेनान्ये शर्मदाय[^४४] च ॥५४॥

नमः परमदेवाय ब्रह्मणे परमाय च ।
कालाय यमरूपाय कालदण्डाय वै नमः ॥५५॥

नमः लान्तकर्त्रे च कालेकालहराय च[^४५] ।
नमः पिनाकहस्ताय रौद्रबाणधराय च ॥५६॥

चण्डाय वामदेवाय सर्वयोगेश्वराय च ।
नमो विद्याधिपतये ब्रह्मणः पतये नमः ॥५७॥

निहता - ख. । ३८ देवराज्यं - क. ख. । ३१ … रष्ट्रदंष्ट्रो - क. । ४० …वमताडयत् - क. ख. । ४१ महाबलः - ख. । ४२ तस्मै - क. ख. । ४३ मेनं - क. ख. । ४४ सर्वदाय - ख. । ४५ कालाकालहराय च - ख. ।
नमोसुरवरघ्नाय कालचक्राय ते[^४६] नमः ।
संवर्त्तकाग्निचक्राय[^४७] प्रलयान्तकराय च ॥५८॥

नरनारायणेशाय नरनारायणात्मने ।
ममैव वरदात्रे च सर्वकामप्रदाय च ॥५९॥

शरभाय सुरूपाय व्याघ्रचर्मसुवाससे ।
नन्दीश्वरगणेशाय गणानां पतये नमः ॥8.71.६० ॥

इन्द्रियाणामथेशाय मनसस्पतये नमः[^४८] ।
नमः प्रधानपतये सुराणां पतये नमः ॥६१॥

नमोस्तु भावपतये तत्त्वानां पतये नमः ।
चराचराणां[^४९] पतये भूतानां पतये नमः ॥६२॥

त्रैलोक्यपतये चैव लोकानां पतये नमः ।
योगदाय नमो मह्यं तथैवैश्वर्यदाय च ॥६३ ॥

अवध्यत्वप्रदात्रे च तथैवाजप्यदाय[^५०] च ।
भगवंस्त्वत्प्रतिष्ठोस्मि त्वन्निष्ठस्त्वत्परायणः ।
शरणं त्वां प्रपन्नोहं प्रसीद मम सर्वदा ॥६४॥

य इमं शृणुयान्नित्यं शुचिः प्रयतमानसः ।
स रुद्रलोकमासाद्य देवस्य गणपो भवेत् ॥६५॥

धन्यं यशस्यमायुष्यं स्वर्ग्यं पापप्रणाशनम् ।
श्रावणं श्रवणं चास्य तथानुस्मरणं सदा ॥६६॥

सनत्कुमार उवाच
स एवं स्तूयमानस्तु विष्णुना भुवनेश्वरः ।
हृषीकेशमुवाचेदं वचः परमपूजितम् ॥६७॥

तुभ्यं विष्णो मया दत्तः पुण्यो ह्येष वरः शुभः ।
अयोनौ सज्जमानस्य स्वयोनौ प्रतिपादनम् ॥६८॥

वै - क. ख. । ४७ संवर्त्तकाग्निवक्त्राय - घ. । ४८ मनसां पतये नमः - क. ख. । ४९ चराचरस्य - ख । ५० …याव्ययाय च - ख. ।
स त्वं विष्णुर्महातेजा मत्तो लब्धवरस्सदा ।
वेलायां त्वां[^५१] समुद्रस्तु तिर्यग्योनिमसूत यः (?) ॥ ६९॥

कृतं कार्यं त्वया सर्वं हिरण्यकशिपुर्हतः ।
एहि गच्छ शुभां योनिमात्मनः परमाद्भुताम् ॥8.71.७० ॥

ततस्तमाक्रमत् पादैः सिंहं शरभसत्तमः ।
अयोजयच्च देहेन पुनर्दिव्येन केशवम् ॥७१ ॥

विष्णवेथ वरं दत्त्वा दैत्यघ्नं स वृषध्वजः ।
प्रकृतिस्थो भवेत्युक्त्वा तत्रैवान्तरधीयत ॥७२॥

दत्वा तस्मै वरमनुपमं विष्णवे लोकधाता
दैत्यघ्नत्वं सुरपुरवधूलोचनैः पीयमानः ।
नीलाम्भोदद्युतिनिभमुरः[^५२] प्रोद्वहच्छूलपाणि-
र्धाम स्वीयं[^५३] परममुनिभिर्वन्द्यमानो जगाम ॥७३ ॥

इति स्कन्दपुराणे हिरण्यकशिपूपाख्याने शरभकृतनरसिंहोद्धाराख्यानं नाम एकसप्ततितमो[^५४]ध्यायः