व्यास उवाच
स गत्वा मन्दरं भूयो गिरिपुत्र्या सह प्रभुः ।
यच्चकार महादेवस्तन्मे ब्रूहि महामुने ॥ १ ॥
सर्वशः - क. । ७६ महत्फलं - क. ख. । ७७ महत् पुण्यं - क. ख. । ७८ सङ्ख्यातं - क. ख. । ७९ इहापोष्य - क, इहोपाष्य - ख. । ८०.. .स्त्वान्तु - क । ८१ विप्र. - ख. । ८२ स विचरिष्यति - क. । ८३ गौर्याः - ख. । ८४ समाप्तम्- ख. । ८५ अष्टषष्टि - क. ।
सनत्कुमार उवाच
मन्दरं गिरिमागत्य१ पार्वत्या सहितो हरः ।
रेमे हिरण्मये दिव्ये सर्वरत्नविभूषिते ॥२ ॥
चारुसोपानसङ्कीर्णे चित्रपट्टशिलातले ।
तस्मिन् पुरवरे श्रेष्ठे मनसा निर्मिते तदा ॥३ ॥
गणेश्वरैर्महायोगैर्नन्दीश्वरपुरोगमैः ।
सिद्धैर्मुनिवरैश्चैव सेव्यमानो जगत्पतिः ॥४॥
उवास सहितो देव्या वन्द्यमान२स्तथैव च ।
तस्यैवं दीव्यतो व्यास देवदेवस्य धीमतः ॥५॥
सहस्राक्षः शशाङ्कश्च वायुश्चैव तदा गताः ।
समागम्य पुरद्वारं दृष्ट्वा ते नन्दिनं स्थितम् ॥ ६॥
ऊचुः प्राञ्जलयो भूत्वा शङ्करं सम्४ दिदृक्षवः५ ।
यथा पश्याम देवेशं नन्दिन् तत्कर्तुमर्हसि ॥७॥
अथ नन्दी समागत्य द्वारमूले समास्थितः ।
शम्भोर्निवेदयामास त्रीन्देवान् तु समागतान् ॥८॥
विशन्त्विति समाज्ञप्ते देवदेवेन नन्दिनि७ ।
विविशुस्ते त्रयो देवाः शङ्करस्यान्तिकं तदा ॥९॥
प्रणम्य सहितास्तस्थुः पश्यन्तो वरदं विभुम्८ ।
अथ तान्प्राह लोकेशः शिरोभिः प्रणतान् स्थितान् ॥8.70.१०॥
का वः९ कर्तव्यता देवाः किमर्थं यूयमागताः ।
ब्रूत दास्यामि तत्सर्वं यद्यन्मृगयथामराः१० ॥ ११ ॥
अथ देवः सहस्राक्षो वचः प्रोवाच शङ्करम् ।
हिरण्यकशिपुं हन्तुमसुरेन्द्रं महाबलम् ॥ १२॥
यच्चकार वपुर्विष्णुर्नारसिंहं भयानकम् ।
तं हत्वापि स दैत्येन्द्रं विष्णुः परबलार्दनः ॥१३॥
मागम्य, ख. । २ न (न्द) मान - क. । ३ समागत्य - क. । ४ शङ्करस्य - क. ख । ५ दिदृक्षया(? )। ६ समागम्य - क. । ७ नन्दिनः - क. । ८ वदनं (विभो?) - ख. । ९ च - ख. । १० मृगयतामराः - क ख ।
तद्रूपं नैव११ सन्त्यज्य स्वं वेषमकरोद्१२ विभो ।
तेन रूपेण देवेश क्रूरेणापि हितेप्सुना ॥१४॥
न वयं निर्वृता भूत्वा त्रासात्तिष्ठाम शङ्कर ।
स यथा सिंहरूपं तत्परित्यजति माधवः ॥ १५॥
प्रसादं नस्तथा कर्तुमर्हसि त्वं सुरोत्तम ।
अथ प्रोवाच तं शक्रं देवदेवः पिनाकधृक् ॥१६॥
सिंहरूपं यथा शक्र विष्णुस्त्यक्ष्यति भीषणम् ।
करिष्यामि तथा शक्र व्येतु ते मानसो ज्वरः ॥१७॥
अथ वायुस्तदा१३ देवं व्यज्ञापयत शङ्करम् ।
अशरीरो यथा न स्यां तथा मे कर्तुमर्हसि ॥१८॥
श्रुत्वा पवनविज्ञप्तिं देवस्तस्मै त्रिलोचनः१४ ।
शरीरं सुमहत् प्रादाद्येनासौ मूर्तिमानभूत् ॥१९॥
विज्ञापितं शशाङ्केन ततो व्यास महात्मना ।
दक्षेणाहं पुरा शप्तो यक्ष्मदेहो भविष्यसि ॥8.70.२०॥
स यथा यक्ष्महीनः स्यां प्रसादं मे तथा कुरु ।
विज्ञप्तिं१५ शशिनः श्रुत्वा देवस्तस्मै वचः१६ प्रभुः ॥२१ ॥
इदं१७ प्राह महातेजाः शशिने प्रणताय तु ।
तपः कृत्वा प्रभासे त्वं यक्ष्यहीनो भविष्यसि ॥२२॥
इति लब्ध्वा वरं सर्वे त्रयोपि सुरसत्तमाः ।
वायुसोमसहस्राक्षाः स्वानि वेश्मानि भेजिरे ॥२३ ॥
व्यास उवाच
भगवन्स कथं तेन नरसिंहेन सूदितः ।
हिरण्यकशिपुर्दैत्यः किम्प्रभावश्च सोभवत् ।
किं वीर्यं१८ किं तपश्चास्य शंसैतत् पृच्छतो मम ॥२४॥
तद्रूपमेतत् - ख. । १२ स्ववेषमकरोद् - ख., स्वं वेषं नाकरोद् (?) । १३ स्तथा - ख. । १४ श्रुत्वा विज्ञप्तिमेतस्य तस्मै देवस्त्रिलोचनः - ख. । १५ विज्ञप्तं - क. ख. । १६ वरं - क. ख. । १७ इमं - क. ख. । १८ किं वयाः - क. ख., किं वीर्यं (?) ।
सनत्कुमार उवाच
दितिर्नामाभवत् पत्नी कश्यपस्य१९ प्रजापतेः ।
दक्षस्य दुहिता व्यास२० सा जज्ञे तनयद्वयम् ॥२५॥
हिरण्यकशिपुं ज्येष्ठं हिरण्याक्षं कनीयसम् ।
अभिषिक्तः स दैत्यानां राजाभूद् ब्रह्मणा पुरा ॥२६ ॥
दानवानामथेन्द्रत्वे विप्रचित्तिर्महाबलः ।
सहस्राक्षश्च देवानामेतदिन्द्रत्रयं बभौ ॥२७॥
अथ तेषां तदा व्यास त्रैलोक्यं सम्प्रशासताम् ।
हिरण्यकशिपुर्दैत्यः शक्रराज्यजिहीर्षया ॥२८॥
त्रैलोक्यमात्मसात् कर्तुं मतिं तपसि सन्दधे ।
स गत्वा दक्षिणामाशां श्रीपर्वतसमास्थितः ॥२९॥
तपस्तीव्रं महत्तेपे दैत्यराजो महाबलः ।
स्वरक्तेन जुहावाग्नौ सम्मिश्राः समिधश्चरून्२१ ॥8.70.३० ॥
ऊर्ध्वबाहुनिरालम्बो दिवा सूर्यार्पितेक्षणः ।
एकपादोनिमेषश्च सोतिष्ठत् कृतनिश्चयः ॥३१ ॥
द्वे सहस्रे तदाब्दानां दिव्यानां स्थितवान्बली ।
महता तपसा तस्य त्रैलोक्यं सम्प्रचुक्षुभे२२ ॥३२॥
अथाभ्येत्य सुरश्रेष्ठो ब्रह्मा कमलवाहनः ।
इष्टं२३ वृणु वरं राजन्निति प्रोवाच सादरम् ॥३३ ॥
तं दृष्टत्वा दैत्यराजस्तु ब्रह्माणं वरदं प्रभुम् ।
वरं प्रार्थितवान् व्यास शृणु यादृशमीप्सितम ॥३४॥
भगवन्यदि तुष्टोसि वर एषोस्तु२४ मे विभो ।
अमरः स्यामवध्यश्च जराहीनो महाबलः ॥३५॥
न शस्त्रेण२५ नचास्त्रेण न रात्रौ न दिवा तथा२६ ।
नैवार्द्रेण न शुष्केण न पुंसा२७ न च योषिता२८ ॥३६॥
काश्यपस्य - क. । २० तात - घ. । २१ .श्चरु - क, ..श्चरं (श्चिर?) - ख. । २२ सम्प्रवक्षते - ख. । २३ इदं - क. । २४एषोस्ति - ख. । २५ न मन्त्रेण - क. ख. । २६ …थवा (?) । २७ पुंसा - क. । २८ योषितां - क. ।
अब्रवीत्२९ सोन्तरं व्रह्मा३० स चैनं समभाषत ।
अतश्च योन्यथा मृत्यु३१र्भविष्यति स मे प्रभो ॥३७॥
एवमस्त्विति तं प्रोच्य ब्रह्मा सुरवरोत्तमः ।
जगामात्मपुरं३२ क्षिप्रं शान्तः प्रीतः पितामहः ॥३८॥
सोपि सर्वासुरश्रेष्ठो हिरण्यकशिपुस्तदा ।
जित्वा शक्रं स्वयं राज्यं चकार दितिनन्दनः ॥३९॥
त्रैलोक्यमात्मसात् कृत्वा जित्वा सर्वान्दिवौकसः ।
आत्मनैवाभवच्छक्रः स्वयं वायुः स्वयं यमः ।
धनेशो वरुणो वह्निस्सर्व एवाभवत् स्वयम् ॥8.70.४०॥
प्रणमध्वं यजध्वं मां ब्रह्माहं सपुरन्दरः ।
इति प्राह ऋषीन्सर्वान्सिद्धान्विप्रांश्च सोसुरः ॥४१॥
व्यास उवाच
श्रीपर्वत इति प्रोक्तो यस्त्वया३३ मुनिसत्तम ।
कथं श्रीपर्वतोसौ वै३४ किं पुण्यं तत्र किं फलम् ॥४२॥
सनत्कुमार उवाच
हन्त३५ ते कथयिष्यामि यन्मां पृच्छसि सुव्रत ।
हिरण्यकशिपुर्दैत्यो यत्र तेपे महत्तपः ॥४३॥
गिरौ तस्मिन्महापुण्ये देवदेवो बृषध्वजः ।
उमया सहितो देव्या रेमे नित्यं महाद्युतिः ॥४॥
तिष्ठतस्तत्र३६ देवस्य देवी गिरिवरात्मजा ।
तपःसिद्धान् महायोगान्३७ ज्वलनादित्यवर्च्चसः ॥४५॥
कृत्वा प्रदक्षिणां३८ शम्भोस्सप्रणामं महामुने ।
गच्छतस्तान्मुहुर्दृष्ट्वा पप्रच्छ भुवनेश्वरम् ॥४६॥
सोब्रवीत् - ख. । ३. ब्रह्मन - ख. । ३१ अधश्चोर्ध्वं न मे मृत्यु - घ । ३२ …मात्मपरं (पदम्) ?- ख. । ३३ यत्त्वया क. ख. । ३४ सोवै (पर्वतोसौ वै?) - क- ख. । ३५ अहं - क. ख. । ३६ ..स्तस्य - क. । ३. महायोगी (गा?) - क. ख । ३८ प्रदक्षिणं - क. ख, ।
क एते देव संसिद्धा योगीशास्त्वां प्रणेमिरे ।
ततो देवः प्रहस्यैनामुवाच परमेश्वरः ॥४७॥
योगसिद्धा महात्मानो योगे पाशुपते स्थिताः ।
य इहाराध्य मां देवि जहुः प्राणान्नरोत्तमाः ॥४८॥
त एते सिद्धदेहार्थाः३९ स्वछन्दगतिचारिणः ।
मोक्षसिद्धेः परां४० निष्ठां गन्तारः परमं पदम् ॥४९॥
अथ सञ्चिन्त्य सुचिरं विस्मयायतलोचना ।
देवं प्रोवाच शर्वाणी वचः परमपूजितम् ॥8.70.५० ॥
यथाहमपि देवेश प्राप्नुयां सिद्धिमीदृशीम्४१ ।
करिष्यामि तथा यत्नमेषा चास्मि गता विभो ॥ ५१ ॥
ततः कृत्वा श्रियो रूपं देवी परमशोभना४२ ।
महत्तत्र तपस्तेपे सहस्रं परिवत्सरान् ॥५२॥
देवश्चास्या वरं प्रादात्तैः समानं४३ महाद्युतिः ।
कृत्स्नस्याध्यात्मतन्त्रस्य४४ मया प्रोक्तस्य भामिनि ॥५३ ॥
महायोगेश्वरी सिद्धा परार्थज्ञा भविष्यसि ।
अयञ्च पर्वतः श्रीमान्नाम्ना तव भविष्यति४५ ॥५४॥
श्रीपर्वत इति ख्यातश्चित्ररूपविभूषितः ।
समन्ताद्योजनशतं महापुण्यो भविष्यति ॥५५॥
इहागम्य च यो देवि त्वां मां च गिरिनन्दने४७ ।
शुचिः स्नात्वा४८र्चयेन्मर्त्त्यः स लोकं मम यास्यति४९ ॥५६॥
यस्त्विह५० त्यक्ष्यते प्राणाञ्छ्रीगिरावचलोत्तमे ।
त्रिनेत्रः कामगो भूत्वा गाणपत्यमवाप्नुयात्५१ ॥५७॥
इहागत्य च ये शैलं करिष्यन्ति प्रदक्षिणम् ।
शर्वायतनसंयुक्तं५२ भविष्यन्ति च५३ ते गणाः ॥५८॥
एते सिद्धाश्च देहार्थाः - ख., … र्वा (र्षा) - क. । ४० मोक्षसिद्धिपरां - क., सिद्धिं - ख. । ४१ ..मीदृशं - क., …मीश्वरीं - ख । ४२ परमशोभनं - ख. । ४३ समं स - क । ४४ मन्त्रस्य - क । ४९ भविष्यसि क. ख । ४६ द्रुमविभूषितः - ख. । ४७ नन्दिनि (?) । ४८ स्नातो - ख. । ४९ मम लोकं च यास्यति - ख. । ५० यश्चेह - ख. । ५१ स गाणपत्यमाप्नुयात् - क. । ५२ सर्वायतन- संयुक्तं - ख. । ५३ हि - क ।
अतिशयरमणीये सिद्धसङ्घैरुपेते
सुरभिकुसुमचित्रे श्रीगिरौ ये पुमांसः ।
व्यपगतमलदोषा मां प्रपश्यन्ति शुद्धा
वियति विहगयुक्तैस्ते विमानैः प्रयान्ति ॥५९ ॥
इति स्कन्दपुराणे श्रीगिरिवरप्रदानं५४ नाम सप्ततितमो५५ ऽध्यायः