व्यास उवाच
भगवन् सर्वलोकज्ञ पितामहसमद्युते१ ।
तपः कृत्वा तदा देवी पुष्कलं हिमवत्सुता ॥ १ ॥
वरम्२ यथेप्सितम्३ लब्ध्वा ब्रह्मणो गौरवर्णताम् ।
किमन्यदकरोद्विप्र तपसोन्ते महामुने ॥२ ॥
सोमनन्दी च शार्दूलः किमवाप वरम्४ शुभम् ।
एतन्मे पृच्छतो ब्रूहि भक्ताय प्रणताय च५ ॥३ ॥
सनत्कुमार उवाच
नमस्कृत्य महादेवं परमं ब्रह्म शाश्वतम् ।
यं पठन्ति सदा साङ्ख्याः७ पुरुषं पञ्चविंशकम् ॥४॥
योगिनश्चैव षड्विंशं ब्रह्माद्याश्च दिवौकसः ।
प्रणम्य परया भक्त्या शिरसा तं त्रिलोचनम् ॥५॥
गौर्या समागमो व्यास शङ्करस्य यथाभवत् ।
तत् प्रवक्ष्यामि ते८ सर्वं शृणु योगविदां वर ॥ ६ ॥
तस्मिन् हिमवतः शृङ्गे तपः कृत्वा सुदुष्करम् ।
गौराङ्गी सा तदा भूत्वा शुद्धहेमसमप्रभा ॥७॥
दर्शने शङ्करस्याथ शर्वाणी मतिमादधे ।
मन्दरं गिरिमागम्य सहिता सोमनन्दिना ॥८॥
कुसुमवर्षैः (?) ।
महाद्युते - क. । २ वरान् - ख. । ३ यथेप्सितान् - ख. । ४ रमं - क., परं - (?) । ५ प्रणताय प्रियाय च - ख. । ६ नमस्कृत्वा - क. ख. । ‘७ साङ्ख्यं - ख. । ८ प्रवक्षाम्यहं - ख. ।
अपश्यद्भवने भर्तुर्द्वारमूले समास्थितम् ।
नन्दिनं गणपं देवी दीप्तपट्टिशधारिणम् ॥९॥
ततो नन्दीश्वरं दृष्ट्वा भक्तं प्रेम्णा गिरीन्द्रजा ।
एहि वत्स चिराद् दृष्टस्त्वमित्युक्तवती तदा ॥8.69.१०॥
नन्दी सम्प्रेक्ष्य तां चापि गौराङ्गीं हेमसप्रभाम् ।
हर्षेण महता युक्तः पादयोरपतद् भृशम् ॥११॥
प्रणम्य स तदा धीमानस्तुवत् पर्वतात्मजाम् ।
नमः सिद्ध्यै महादेव्यै रतये गतये९ नमः ॥१२॥
त्वं क्रिया कारणं त्वं च प्रकृतिर्मुक्तिरेव च१० ।
कान्तिर्द्युतिस्तथा तुष्टिश्शान्तिः स्वस्त्ययनं११ परम् ॥१३ ॥
दक्षिणा नियतिर्मृत्युः सन्ध्या विद्युदहः क्षपा ।
पृथिवी कौशिकी श्रीश्च शर्वाणी शर्ववल्लभा ॥१४॥
गणमाता दितिश्चैव पवित्रा विन्ध्यवासिनी ।
कृष्णा कात्यायनी गौरी भूतमाता तथेश्वरी ॥१५॥
भव देवि प्रसन्ना मे भक्तस्य प्रणतस्य च ।
अथ देवी तदा दृष्ट्वा नन्दिनं पादयोर्नतम् ॥१६॥
प्रोवाच वरदास्मीति स च वव्रे वरं शुभम् ।
प्रसन्नां१२ नित्यमेव त्वामिच्छामि१३ वरमुत्तमम् ॥१७॥
एवमस्त्विति सा प्रोच्य१४ प्रविवेशायतेक्षणा ।
अग्रतोस्या ययौ नन्दी सोमनन्दी च पृष्ठतः ॥१८॥
चन्द्रलेखोभयोर्मध्ये१५ ग्रहयोरिव सा बभौ ।
दूरादेव समालोक्य देवदेवो मुदान्वितः ॥१९॥
आजगाम महातेजाः सम्भ्रमोत्फुल्ललोचनः ।
पपात पादयोर्देवी देवदेवस्य धीमतः ॥8.69.२०॥
त (ग) तये रतये - ख. । १०.. र्युक्तिरेव च - ख. । ११.. स्तुष्ट्ययनं - क. । १२ प्रसन्ना - क. ख. । १३ त्वमेतो (षो?) स्तु - ख । १४ प्रोवाच - ख ॥ ५ चन्द्रलेखा तयोर्मध्ये - ख. ।
अथ देवस्तदायातां देवीं गिरिवरात्मजाम् ।
समुवाच१६ सुरश्रेष्ठः समालोक्य मुहुर्मुहुः ॥२१ ॥
दिष्ट्यासि१७ प्रीतवदना१८ दिष्ट्या च सफलं तपः१९ ।
दिष्ट्या२० चेदं२१ वरं वर्णं गौरं कनकसप्रभम् ॥२२॥
प्रियन्नः२२ सर्वथा देवि परमं यत्त्वमागता ।
प्रतिज्ञां पूरयित्वेह शार्दूलोयं कुतश्च ते ॥२३ ॥
एवमुक्ता तदा देवी भर्त्रा प्रणयपेशलम् ।
कथयामास देवाय सर्वञ्चरितमात्मनः ॥२४॥
देव्युवाच
प्रागहं यत्त्वया देव कृष्णवर्णेति भाषिता ।
तदा मन्युपरीताङ्गी गौरवर्णसमीप्सया ॥२५॥
हिमवच्छिखरं गत्वा तपोहं महदास्थिता ।
चिन्तयन्ती सदैव त्वामेकपादेन संस्थिता ॥२६॥
यस्मिन्निव दिने तत्र तपोहं समुपाश्रिता ।
तस्मिन्नेवैष शार्दूलः सोमनन्दी ममाग्रतः ॥२७॥
व्यतिष्ठत महादेव भक्त्या परमया युतः ।
दिव्यं वर्षसहस्रं तत्तपोयुक्ताहमास्थिता ॥२८॥
तावन्तं कालमेषोपि ममातिष्ठत् समीपतः ।
स्तब्धलाङ्गूलनेत्रास्यो निराहारो विलोकयन् ॥२९॥
आगतस्तपसश्चान्ते ब्रह्मा मम वरप्रदः ।
तमहं पूर्वमस्यार्थे वरं सम्प्रार्थय२४५ विभो२५॥8.69.३०॥
तेनायममरो देव जराशोकविवर्जितः ।
ममैवानुचरः पार्श्वे कृतो योगी च शङ्कर ।
वर्णं चेदमदरव तवादेशात२९ पितामहः ॥३१ ॥
तामुवाच - क. ख. । १७ दृष्ट्वा (ष्टा) सि - ख. । १८ प्रीतिवदगा - क । १९ फलमुत्तमा (मुत्तमं?) - क. । २० दृष्ट्या - ख. । २१ देवं - ख. । २२ प्रसन्नः - ख. । २३ मह्यं - ख. । २४ वरमप्राथम्य - क. ख. । २५ विभोः - क. ख. । च -२ तवादेवा (तदा देवी) - ख. ।
देवदेव उवाच
परितुष्टोस्मि ते देवि वरं वृणु यथेप्सितम् ।
मृगेन्द्रोयं गणश्रेष्ठः२७ सोमनन्दी महाबलः ॥३२ ॥
यादृशो मम नन्दीशस्तादृशस्ते२८ भविष्यति ।
यदन्यद् ब्रूहि तत्सर्वं करिष्यामि तव प्रिये२९ ॥३३ ॥
देव्युवाच
यस्मिन्देशे महादेव तपश्चरितमुत्तमम्३० ।
तं भूयोपि त्वया सार्द्धं द्रष्टुमिच्छामि शङ्कर ॥३४॥
सनत्कुमार उवाच
एवमुक्तस्य पार्वत्या प्रोवाच परमेश्वरः ।
रोचते चारुसर्वाङ्गि गन्तुं तत्र ममाव्यये ॥३५॥
रम्यं तद्धिमवच्छृङ्ग तप्तं यत्र तपस्त्वया ।
नन्दिनं स तदाहूय गणपाँश्च सहस्रशः ॥ ३६॥
जगाम सहितो देव्या हिमवन्तं महागिरिम् ।
देवैर्विद्याधरैस्सिद्धैर्गन्धर्वैर्मुनिसत्तमैः ॥३७॥
वन्द्यमानोसकृद्देवः स्तूयमानश्च सर्वशः३१ ।
नन्दिनः३२ पृष्ठमारूढः३३ प्रक्रीडितगणेश्वरः३४ ॥३८॥
हिमवद्गिरिमागम्य तं प्रदेशमुपागमत ।
स तं३५ शिखरमासाद्य रम्य३६ धातुविभूषितम् ॥३९ ॥
तुतोष परमप्रीतो रेमे च सगणेश्वरः ।
आगतं तमथो दृष्ट्वा मूर्तिमानचलस्तदा ।
उपतस्थे महादेवं प्रणिपत्य कृताञ्जलिः ॥8.69.४० ॥
कृत्वा तदर्घकुण्डन्तु३७ तस्मिञ्छिखरसत्तमे ।
वरदानेन शैलेन्द्रमन्वगृहणात्३८ पिनाकधृक् ॥४१ ॥
गणाः श्रेष्ठाः - ख । २८ च तादृशस्ते ख । २९ प्रियं (?) । ३० तपश्चरणमुत्तमम् क। ३१ सर्वतः - क । ३२ नादितं - क., नन्दिनं - ख । ३३ वृषमारूढः - क. ख. । ३४ प्रक्रीडति गणेश्वरः - ख. । ३५ सितं - क. । ३६ रम्य - क. । ३७ वरदकुष्ठ(?)न्तु - ख । ३८ मनुगृहणात् - क, ,.. मनुगृह्य - ख. ।
अमरो जरया त्यक्तः सर्वदुःखविवर्जितः ।
अभेद्यश्चैव वज्रेण मत्प्रसादाद् भविष्यसि ॥४२॥
पुण्यस्त्वमचलश्रेष्ठ भविता पापमोचनः ।
गौरीशिखर इत्येव लोके ख्यातिं गमिष्यसि ॥४३॥
दूरादेव नगश्रेष्ठ दृष्ट्वा त्वामुच्छ्रितं३९ जनाः ।
सवपापैर्विमोक्ष्यन्ते४० यास्यन्ति च परां४१ गतिम् ॥४४॥
त्रिरात्रमुषितो यस्त्वामभिरुह्य शुचिव्रतः ।
दृष्ट्वा गौरीमथाभ्यर्च्य ब्राह्मणं४२ तर्पयिष्यति ॥४५॥
नारी वाथ नरो वापि लोकं गौर्याः स यास्यति ।
यश्चेह त्यक्ष्यते प्राणान्नियमेन समाहितः ॥४६॥
स गाणपत्यं सम्प्राप्य मया सार्धं चरिष्यति ।
गौर्याश्चात्रैव सान्निध्यं सर्वदा ते भविष्यति ॥४७ ॥
सनत्कुमार उवाच
इत्युक्त्वा तं४३ नगश्रेष्ठं देवदेवस्त्रिलोचनः ।
पार्वत्या सहितस्तत्र परिचक्राम सर्वतः ॥४८॥
अथापश्यच्छिलां व्यास सौवर्णां मणिभूषिताम् ।
कथयामास तां देव्यै शिलां पश्येति स प्रभुः४४ ॥४९॥
तमाह देवी देवेशमिह तप्तं मया तपः ।
प्रियमेवं४५ मम स्थानं सोमनन्दिन एव च ॥8.69.५०॥
अथ तामनुजग्राह शिलां प्रीत्या भवस्तदा ।
शुचिरस्यां निराहारं त्रिरात्रं४६ यः४७ करिष्यति ॥५१॥
भवेत्तप्तं तपस्तेन लोकञ्च तव यास्यति ।
एकपादेन यो मर्त्यस्तिष्ठेदेकमहः शुचिः४८ ॥५२॥
तपनाभिमुखो भूत्वा त्वद्भक्तस्त्वत्परायणः ।
सोपि यास्यति ते लोकं गणपश्च भविष्यति ॥५३ ॥
तामुच्छ्रितं - क ख । ४० विमोक्ष्यन्ति - क ख । ४१ परमां क । ४२ ब्रह्माणं क। ४३ तमित्युक्त्वा - क. ख- । ४४ सत्प्रभः - क. । ४५ मेतन् - ख. । ४६ निराहारः - क. टि., निराहारत्रिरात्रं - ख. । ४७ यत् - क. । ४८ च्छचिः - क. ।
प्राणान् परित्यजेद्यश्च शिलायामिह दुस्त्यजान् ।
सोपि तप्ततपा भूत्वा ब्रह्मलोकं गमिष्यति ॥५४॥
इमञ्च पर्वतोद्देशमास्पदं सोमनन्दिनः ।
योभिगच्छेदहोरात्रं४९ सोपि नन्दिसमो भवेत् ॥५५॥
अथापृच्छत् पुनर्देवः पार्वतीं विचरन प्रभुः ।
कथमेतानि कुण्डानि बभूवुरिह शैलजै ॥५६॥
एवं पृष्टा पुनर्देवी वाक्यमेतज्जगाद ह ।
यदाहमागता देव तपस्तप्तुमिह प्रभो५० ॥५७॥
स्तनयोः५१ प्रस्रुते५२ धारे महत्यौ मे तदासकृत् ।
एते५३ ताभ्यां कृते कुण्डे सिततोये महाप्लवे५४ ॥५८॥
तपस्तप्तुमलङ्करानहं त्यक्तवती यदा ।
तदा तेभ्यः स्रुता देव जलधारापतद् द्रुतम् ॥ ५९॥
तथा५५ चेदमपां कुण्डं५६ द्वितीयं मे कृतं शुभम् ।
ब्रह्मणश्च यदा लब्धं गौरवर्णत्वमुत्तमम्र५७ ॥8.69.६० ॥
शरीरान्मे तदा देव कृष्णा५८ कोशी५९ विनिष्क्रमत्६० ।
तस्यां६१ कोश्यां६२ समुत्पन्नमेतत् कुण्डं तृतीयकम् ॥६१ ॥
अस्मिन् प्रदेशे देवेश त्वामभ्यर्च्य यथाविधि ।
हविर्भिर्मन्त्रयुक्ताभिरग्निकार्यं कृतं मया ॥ ६२॥
इमानि पादपस्थानि वल्कलानि समासते ।
इदं कृष्णाजिनं शुभ्रं स्थापितं तत्६३ पुरा मया ॥६३॥
अथ श्रुत्वा महादेवः पार्वत्या वचनं प्रभुः ।
प्रत्युवाच तदा देवीं प्रीत्या परमया युतः ॥६४॥
स्तनतोयेन यत्६४ पूर्णे६५ तव कुण्डे शशिप्रभे ।
स्तनकुण्डेति तेनैते६६ यास्येते ख्यातिमुत्तमाम् ॥६५॥
सोभिगच्छेदहोरात्र - ख, योधितिष्ठेदहोरात्रं (?) । ५० प्रभुः - क । ५१ तयोस्तु - ख । ५२ प्रस्तुते (?) । ५३ नमे (इमे)। - ख । ५४ महाह्रदे - ख. । ५५ तदा - क. । ५६ हीदं महत्कुण्डं । ५७ गौरवर्ण- मनुत्तमं ) । ५८ कृष्ण - क ख. । ५९ कौशी - क. । ६० व्यनीष्क्रमत् - क, निरक्रमत्? । ६१ तस्या (?। ६२ कोश्याः (?) ६३ यत् (?) ६४ ये - क. ख. । ६५ पूर्णं - क. । ६६ तेनैव - ख. ।
उपवासी नरो योत्र स्नात्वाभ्यर्च्य च देवताः ।
तर्पयित्वा पितॄन्सर्वान् ब्राह्मणान्भोजयिष्यति ॥६६॥
तद् भवेदक्षयं तस्य गणश्चैव भविष्यति ।
अलङ्कारात् स्रुता६७ धारा येयं तव वरानने ॥६७॥
एषालङ्कारधारेति नाम्ना ख्यातिं गमिष्यति ।
अस्यां स्नात्वा नरो यस्तु पितॄन्सन्तर्पयिष्यति ॥६८॥
अक्षयं तद् भवेच्छ्राद्धमश्वमेधञ्च विन्दति ।
नीलतोयमिदं यत्ते महत् कुण्डं शुभोदकम् ॥६९॥
नीलकुण्डमिति ख्यातिमेतत् सर्वत्र यास्यति ।
योस्मिन्नियमवान् स्नात्वा तर्पयेत्पितृदेवताः ॥8.69.७० ॥
तस्याक्षयं भवेत् सर्वं पापेभ्यस्स६८ प्रमुच्यते ।
मृतश्च स नरो देवि यत्र तत्र यथा तथा ॥७१॥
कौशिक्या विन्ध्यवासिन्या महागणपतिर्भवेत् ।
अग्निकार्यमिह स्नात्वा यः कुर्याद् ब्राह्मणः शुचिः ॥७२॥
अग्निहोत्रं हुतं तेन भवेद् द्वादशवार्षिकम् ।
एवमुक्त्वा महादेवः प्रोत्थाय मुनिसत्तम ॥७३॥
गृहीत्वा पादपस्थानि वल्कलानि तदा प्रभुः ।
नदी भवेति सम्प्रोच्य चिक्षेप प्रहसन्निव ॥७४॥
तान्यभूवंस्तदा व्यास नदी स्वच्छजला शुभा६९ ।
तटजैर्विविधैर्वृक्षैर्हंसचक्राह्वशोभिता७० ॥७५॥
तामुवाच सुरश्रेष्ठः पुण्यतोयां महानदीम्७१ ।
चीरेभ्यो निस्सृता७२ यस्मात् त्वमत्र सरितां वरा ॥७६॥
लोके पुण्यतमा तस्मान्निश्चीरेति भविष्यसि७३ ।
त्वयि स्नात्वा नरः क्षिप्रं सर्वपापैर्विमुच्यते७४ ॥७७॥
अलङ्कारस्रुता - ख. । ६८ पापेभ्यश्च - क. ख. । ६९ नदीष्वनुजलाशया - ख. । ७० सेविता(?)। ७१ सुपुण्यतोयवन्नदीं - ख. । ७२ चीरेभ्यः प्रसृता - क. ख. । ७३ भविष्यति - क. ख. । ७४ …विमोक्ष्यते -क. ।
पितॄन्सन्तर्पयेद्यस्तु श्राद्धं तस्याक्षयं भवेत् ।
कपिलाञ्चात्र यो दद्याद् ब्राह्मणाय समाहितः ॥७८॥
गोसहस्रफलं तस्य भविष्यति वरानने ।
अग्रमारुह्य यस्मात्त्वमत्र तप्तवती तपः ॥७९॥
अग्रारण्यमिति ख्यातिमेतद्यास्यति सर्वतः७५ ।
महाफलं७६ महापुण्यं७७ सर्वसिद्धिप्रदं शुभम् ॥8.69.८० ॥
पञ्चयोजनसंस्थानं७८ गौरीशिखरमुत्तमम् ।
इहोपोष्य७९ शुचिः स्नात्वा८० भक्त्या परमया युतः ॥८१ ॥
देहभेदं समासाद्य विमानस्थो विराजते ।
कृष्णाजिनं महापुण्यं सर्वपापहरं तव ॥८२ ॥
इदं द्रक्ष्यति यो विप्रः८१ स्वर्गस्तस्य न दुर्लभः ।
यत्फलं नैमिशारण्ये पुष्करेषु च यत्फलम् ॥८३ ॥
तदेव लभते देवि दृष्टवा कृष्णाजिनं द्विजः ।
वत्स्यामि चैव सततं त्वया सार्धमिह प्रिये ।८४॥
आवामिह स्थितौ देवि योर्चयिष्यति मानवः ।
आवयोर्गणपो भूत्वा जगत् सर्वं चरिष्यति८२ ॥८५ ॥
एवं नगेन्द्रं स तदानुगृह्य मुनीन्द्र सार्धं गिरिराजपुत्र्या ।
देवैस्ससिद्धैरनुगम्यमानः शर्वः पुनर्मन्दरमाजगाम ॥८६ ॥
इति स्कन्दपुराणे देवीसमागमे कोशीशिलास्तनकुण्डाजिनगौरी८३ शिखरवरप्रदानं८४ नाम ऊनसप्तति८५ तमोध्यायः