०६८

हुत्वा वै - ख. । ७५ जातवेदसं - ख । ७६ आदित्यकाश्यपो - क. । ७७ रुद्रा - क. । ७८ सर्वेप्यभ्यसिञ्चन्त (?) । ७१ बीज्यमाना.. - क. । ८० शुभ्रलम्बोरुहारः - ख., वज्रहस्तोरुवाहः - घ. । ८१ मत्समागमे - घ. ।
सनत्कुमार उवाच
अथ ता देवता देवी कौशिकी देहसम्भवाः ।
न्यवेशयन्महाभागा देशेषु नगरेषु च ॥१ ॥

बहुपुत्रां प्रलम्बो च लङ्कायां सन्न्यवेशयत् ।
लम्बौष्ठीम्१ वृषदंशां च किन्नरीं चैव सिंहले ॥२॥

गोकर्णे रेवतीं देवीं पाण्ड्येषु मुखमण्डिकाम् ।
आभीरेष्वशिवां चैव शान्तिं च वरणातटे ॥३ ॥

वत्सगुल्मे प्रभां देवीं लक्ष्मीं कोलगिरावपि२ ।
उपकां पारसीकेषु वायसीं यवनेषु च ॥४॥

प्रचण्डां च तुषारेषु३ कोशलेषु च लम्बिकाम् ।
जयां च विजयां चैव स्वपुरे सन्न्यवेशयत् ॥५॥

प्रभावतीं कलिङ्गेषु जयन्तीं नागसाह्वये ।
काश्मीरेषु४ च सा५ षष्ठीं सरमां मलयेषु च ॥६॥

पूतनां च सुपीरेषु मृत्युं पृष्टपुरे६ तथा७ ।
कोटीवर्षे८ बाहुमांसाम्९ पौण्ड्रेषु कटपूतनाम् ॥७॥

अस्पृष्टां मध्यदेशे तु१० किन्नरीं बर्बरेषु च ।
वाराणस्यां निरायास्यां११ चित्रघण्टां च कौशिकीम्१२ ॥८॥

महाकालीं महाकाले वानरीं शबरेषु१३ च ।
शेषाश्च देवताः सर्वा ग्रामेषु नगरेषु च ॥९॥

कर्वटेषु महीध्रेषु कौशिकी सन्न्यवेशयत् ।
कस्यचित्त्वथ कालस्य स्वर्णाक्षे हि महातपाः१४ ॥ 8.68.१०॥

यत्र विष्णुर्वरं लेभे१५ देवमाराध्य शङ्करम् ।
चक्रं सुदर्शनं नाम द्विषतामन्तकोपमम् ॥ ११ ॥

लम्बोष्ठीं - ख. । २ कौञ्चगिरावपि - घ. । ३ खारेषु - क. । ४ कश्मीरेषु - क. । ५ स्थिता - ख. । ६ पिष्टपुरे - ख. । ७ तदा - क. । ८..? से - क. । ९ बहुमांसां - क. ख. । १० शु ( षु?) - ख. । ११ निरायासां - क. । १२ कौशिकी । (?) । १३ शबलेषु - ख. । १४ स्वर्णाकृति - ख, कृष्णाकृतिर्महातपाः - घ. । १५ र्वँराल्ँलेभे - क. ख. ।
ऋषिरास्ते महाभागः शरद्वान्नाम१६ गौतमः ।
तस्य यज्ञं१७ जगामाथ देवी तेन निमन्त्रिता ॥ १२॥

तस्यास्तत्रागमं ज्ञात्वा सूनुः शुम्भस्य१८ वीर्यवान् ।
आजगामाशु तं देशं महिषो नाम दानवः ॥ १३ ॥

सुसंहतः पृथूरस्को महाग्रीवः सुबालधिः ।
वक्त्र(क्र?)शृङ्गः पृथुखुरो१९ विशालोच्छ्रितमस्तकः ॥ १४॥

बद्धवैराशयः क्रू रो२० महासत्वोतिदुर्जयः ।
वज्रनिष्पेषपरुषं नर्दमानो महास्वनः ॥१५॥

अञ्जनाद्रिसमप्रख्यो युयुत्सुर्बलदर्पितः ।
देव्याः पन्थानमावार्य२१ दानवेन्द्रसुतः स्थितः ॥ १६ ॥

विज्ञाय तस्यागमनं योगेशा२२ विन्ध्यवासिनी ।
जगाम त्वरिता तत्र यत्रासौ दानवाधमः२३ ॥ १७॥

अथ दृष्ट्वा स तां देवीं क्रोधाद्रक्ततरेक्षणः ।
अभ्याजगाम वेगेन यत्नमास्थाय दानवः ॥ १८॥

उद्वालधिस्तीक्ष्णविषाणकोटिः सुपीनवक्षाः कठिनोर्ध्वकर्णः ।
अभ्यापतद् गुग्गुलताम्रनेत्रो जवेन देवीमसिताद्रिकल्पः ॥ १९॥

तं कौशिकी वीक्ष्य तदापतन्तं दैत्येन्द्रपुत्रं महिषं सरोषम् ।
चुक्रोध ताम्रायतचारुनेत्रा स्थिता धरण्यामसुरेन्द्रहन्त्री ॥ ॥8.68.२० ॥

अभ्येत्य तां दानवराजसूनुर्बलेन मत्तः परमेण देवीम् ।
अभ्याहनद्वक्षसि लोलहारे शृङ्गेण शक्रायुधकर्कशेन ॥२१ ॥

विषह्य तं तस्य तदा प्रहारं जग्राह शृङ्गे महिषं करेण ।
उद्भ्राम्य चोच्चैः परितः सरोषा न्यपातयद् भूमितले श्वसन्तम् ॥२२॥

उद्गृह्य सा बालधिमिन्द्रशत्रोः कृत्वा च पादं शिरसि प्रसह्य२४ ।
त्रिशूलमादाय बिभेद पृष्ठे व्ययोजयच्चासुभिराशु दैत्यम् ॥२३ ॥

सरस्वान्नाम - घ. । १७ सञ्ज्ञां - क. । १८ जम्भस्येति पुराणान्तरसम्मतः पाठः । १९ पृथुशिरो - ख । २. क्रुद्धो - क. । २१.. मावृत्य - ख. । २२ योगेन - ख. । २३ दानवोधमः - ख. । २४ प्रगृह्य - ख., प्रसह्यं - क. ।
कुलिशकठिनशृङ्गं नीलजीमूतकल्पं
महिषमथ निहत्य प्रौढदर्पन्तदानीम् ।
विविधकुसुमवृष्ट्या२५ सर्वतः कीर्यमाणा
धरणिधरमगच्छत् कौशिकी सन्निवासम् ॥२४॥

इति स्कन्दपुराणे महिषासुरवधो नामाष्टषष्टितमोध्यायः