०६७

सनत्कुमार उवाच
आजग्मुः कौशिकीं द्रष्टुमथ विन्ध्यं दिवौकसः ।
आदित्या वसवो रुद्रा मरुत्वान् मरुतोश्विनौ ॥१ ॥

धर्मा१ङ्गिरोशनो२ दक्षवसिष्ठभृगुकश्यपाः३ ।
पुलस्त्यपुलहागस्त्यसनकात्रिसनन्दनाः४ ॥२॥

अप्सरोयक्षगर्न्वाः५ सिद्धा नागा महोरगाः ।
उपवेदाश्च यज्ञाश्च वेदा६ विद्या सरस्वती ॥३॥

रथसारथीँश्च - क. । ४१ रथावपात्य - ख. । ८२ दितितनयपतिभ्यां - ख. । ४३ विहितवीर्यौ - क. । ४४ पर्यस्तनेत्रौ - क. ।
धर्मो - ख. । २ उशना - क. ख. । ३.. काश्यपाः - क. । ४. स्सनन्दनाः - क. । ५ गन्धर्व… - क. । ६ देव (बेव?) - ख. ।
समुद्राः सरितः शैलास्तीर्थानि विविधानि च ।
मातरो लोकपालाश्च नक्षत्राणि ध्रुवो ग्रहाः ॥४॥

अथोचुर्देवता देवीम्७ द्युतिमत्यो महाद्युतिम् ।
प्रहृष्टा हृष्टमनसा८मासीनामसुरद्विषः९ ॥५॥

दानवेन्द्रौ महासत्वौ त्वया त्रैलोक्यकण्टकौ ।
निघ्नत्या देवि लोकानां दुःखशल्यमपाकृतम् ॥६॥

ऋषयः पावनं देवि हविर्जुह्वति साम्प्रतम् ।
छन्दांस्यधीयते चोच्चैराचरन्ति व्रतानि च ॥७॥

यज्ञोयमधुना विप्रैरिज्यते१० बहुदक्षिणः ।
उटजेषु च विश्वस्ता मुनयः शेरते सुखम् ॥८॥

आसते११ निर्भया देवि१२ सन्तः सन्मार्गमाश्रिताः ।
आविर्भूतः पुनर्लोके विच्छिन्नः सत्क्रियापथः१३ ॥९॥

लोकपालाः शिरांस्युच्चैस्त्वत्प्रसादाच्च बिभ्रति ।
पृक्तः पुष्परजोभिश्च सुखो वाति समीरणः ॥8.67.१० ॥

जलानि देवि सरितः स्वच्छानि शिशिराणि च ।
त्वत्प्रसादान्महायोगे१४ वहन्ति विगतक्लमाः ॥११ ॥

इदानीञ्च पुनर्जाता गिरयो गिरिजात्मजे ।
विज्वराः शिशिरस्वादुनिर्ज्झरोदकवाहिनः ॥१२॥

फणान्१५ स्वस्तिकचक्राङ्कानुच्चैर्दधति भोगिनः ।
उदन्वन्तश्च१६ विश्वासादिदानीं सुखमासते ॥ १३ ॥

भ्रमन्त्यप्सरसो देवि त्वत्प्रसादाच्च साम्प्रतम् ।
सच्चेतोविमले व्योम्नि१७ विलासालसलोचनाः ॥ १४॥

सिद्धाङ्गनाश्च सेवन्ते विश्वस्ता देवि साम्प्रतम् ।
शिखरेषु महीध्राणामुत्फुल्लान् चन्दनद्रुमान् ॥ १५॥

र्देवदेवेन्दु - ख. । ८ हृष्टमनस (?) । ९.?. मसुरद्विषाः - क.,… षं - ख. । १० रीज्यते - ख. ११ आसाते - क. । १२ देवी - क. । १३ स क्रियापथः - ख. । १४ महासत्वा - ख. । १५ फणाः - क. ख. । १६ उदन्वतश्च - क. ख. । १७ विमलव्योम्नि - क. ।
स्वभावान्मधुपानाच्च रक्तोत्पलविलोचनाः१८ ।
विचरन्त्यधुना यक्षा गन्धमादनसानुषु ॥ १६॥

सुखं बिभर्त्ति वसुधामिदानीं विगतक्लमः१९ ।
शेषः फणैः स्व२० रत्नांशुवितानपरिवेषिभिः ॥ १७॥

माता त्वमसि लोकानां भीतानामभयप्रदा ।
वृणु२१ देवि वरानिष्टानभिषिच्यस्व चाच्युते ॥१८॥

एवमुक्ता सुरैर्देवी प्राह किञ्चित् स्मयन्निव ।
इच्छामि पितरं द्रष्टुमसमग्रेन्दुमौलिनम्२२ ॥ १९॥

सुप्रसन्नं प्रसन्नाञ्च जननीं शैलनन्दनाम् ।
पितृभ्यां चाध्वनुज्ञाता२३ मभिषेक्ष्यथ मां ततः ॥8.67.२० ॥

एवमुक्ताः सुरा दध्युरव्यग्रमनसस्तदा२४ ।
सपत्नीकं महादेवममितद्युतिपौरुषम् ॥२१॥

अथ ते ददृशुर्देवा देवदेवमुमापतिम् ।
तेजसामिव सर्वेषां सङ्घातं पुरतः स्थितम् ॥२२ ॥

जटानां प्रान्तबभ्रूणां शिरसा भारमुन्नतम् ।
बिभ्राणं२५ ज्वलितं२६ वह्निं दीप्तानामर्चिषामिव२७ ॥२३ ॥

कर्पूरभङ्गगौरेण स्नातं पुण्येन भस्मना ।
प्रान्तहेमलताजालं रौप्यं गिरिमिवोच्छ्रितम्२८ ॥।२४॥

तेजसा स्वेन तेजांसि तिरयन्तं२९ दिवौकसाम् ।
मध्यन्दिने प्रदीपानामर्चींषीव दिवाकरम्३० ॥२५॥

सुधाम्बुस्यन्दिनीं३१ तन्वीमेकतः३२ परिवेषिणीम्३३ ।
दधानं३४ मौलिना किञ्चित्कुटिलामैन्दवीं कलाम् ॥२६॥

रक्तशैवललोचनाः - क, रक्तशैलविलोचनाः - ख. । १९ विगतक्लमैः - क । २० स्वै - (?) । २१ शृणु - ख. । २२… महमद्येन्दुमौलिनम् - घ. । २३ चाभ्यनुज्ञाता - (?) । २४… मनसा तदा - क ख. । २५ विभ्रमाणं - ख. । २६ ज्वलितो - क. ख. । २७ वह्निर्दीप्तानामर्चिषामिव - क. ख. । २८… त्थितम् - ख. । २९ तिरस्कुर्वन् - क. ख. । ३. दिवाकरः - क. ख. । ३१ सुधाम्भः स्थन्दिनीं - ख.,… स्यन्दिनीं - क. ख. । ३२… रेकतः - क., एकतः - ख. । ३३ परिवेषिणी - क. ख. । ३४ दधानां - क. ।
विजिह्मामुज्ज्वलां३५ गुर्वीं धूसरां भस्मरेणुना ।
सैंहीं वसानमालम्बा३६ मीषद्भङ्गवतीं३७ त्वचम् ॥२७॥

छुरितोपान्तकायेन३८ फणरत्नमरीचिभिः३९ ।
महता भोगपतिना वक्षःस्थलविसर्पिणा ॥२८ ॥

भवानीं४० चास्य पार्श्वस्थां दीप्यमानां स्वतेजसा ।
वसानामंशुकं रक्तं कल्पपादपसम्भवम् ॥२९॥

मन्दारमालामुत्फुल्लां मत्तालिकुलसेविताम् ।
दधानामुत्तमाङ्गेन स्वरेणूत्करपिञ्जराम् ॥8.67.३० ॥

स्वःशिल्पिघटितै४१श्चित्रै रत्नांशुपरिवेषिभिः४२ ।
शातकुम्भमयैः श्लाघ्यैर्भूषितां भूषणोत्तमैः ॥३१ ॥

बिभ्रतीं रुचिरां शुद्धां शरच्चन्द्रांशुनिर्मलाम् ।
शिरोधरेणामहतीमेकावलिमनुत्तमाम् ॥३२॥

अथोत्थाय सुरास्सर्वे कौशिकीं चानतानना ।
तयोश्चरणपद्मेषु निपेतुस्तुष्टमानसाः ॥३३ ॥

अथोद्वीक्ष्य महादेवः कौशिकीमिदमब्रवीत् ।
अजेया सर्वभूतानां महायोगा महाद्युतिः ॥३४॥

विचरिष्यसि लोकाँस्त्वं सर्वत्राप्रतिघातिनी ।
इमाश्च देवताः सर्वास्त्वत्प्रसादादनिन्दिते ॥३५॥

भक्त्या बल्युपहारैश्च पूजयिष्यन्ति४३ मानवाः ।
वरदा चापि भक्तानां भविष्यसि सदानघे ॥३६॥

अभिषिच्यस्व च क्षिप्रं सुरैरसुरसूदनि ।
कृत्स्नं रक्ष च भूर्लोकं४४ पूज्यमाना सदाव्यये ॥३७॥

शर्वाणी च परिष्वज्य मूर्ध्नि चाघ्राय कौशिकीम् ।
प्राह प्रीता महाभागा४५ मत्प्रभावाद्४६ भविष्यसि ॥३८॥

विजिह्मनगरां - क., विजिह्मं तु - ख. । ३६ वसानमालम्बी - क. । ३७ रजोवतीं - ख. । ३८ छुरितोपात्तकायेन - क. । ३९ नखरत्नमरीचिभिः - क. । ४. भवानीं - क. । ४१ सुशिल्पिघटितै - क, स्वशिल्पिघटितै - ख. । ४२ परिवेष्टितैः - क. । ४३ पूजन्ति त्वां तु - ख. । ४४ भूलोकं - ख. । ४५ प्राप्तः पिता महाभार्या - ख. । ४६ मत्प्रसादाद् - ख ।
अर्चयन्ति यथा मां च सुरा यक्षा महोरगाः ।
गन्धर्वा मुनयः सिद्धास्तथा त्वामप्यनिन्दिते ॥३९॥

अर्चयिष्यन्ति सर्वत्र भक्ताः स्तोस्यन्ति चाव्यये ।
एवं तस्यै वरं४७ दत्त्वा गिरिजावृषभध्वजौ ॥8.67.४० ॥

नमस्कृतौ४८ तदा देवैरन्तर्दधतु४९रव्ययौ ।
अथेन्द्रो विश्वकर्माणमादिदेश तदा प्रभुः ॥४१ ॥

सुधर्मेव सभा दिव्या क्रियतामिह साम्प्रतम् ।
ऋतूँश्च सर्वाँ स्तत्रेत्थमादिदेश शतक्रतुः ॥४२॥

नानापुष्पोत्करैः क्षिप्रं भूमिः सम्यग् विभूष्यताम् ।
क्षुपगुल्मलतावृक्ष५० पुष्परेणुसुगन्धयः ॥४३ ॥

आक्षिपन्तो मनांस्यत्र सुखा वान्तु समीरणाः ।
सिञ्चन्तु वारिभिः पुण्यैर्विन्ध्यप्रस्थं पयोमुचः ॥४४॥

तारं नदन्तु शिखिनः प्रहृष्टाः सर्वतोदिशम्५१ ।
नृत्यन्तु परितश्चित्रान्दर्शयन्तः५२ पृथग्विधान् ॥४५॥

रसान्भावान्विलासाँश्च सर्वेप्यप्सरसां५३ गणाः ।
प्रतिसार्या सुवीणाश्च गन्धर्वा मधुरस्वरम्५४ ॥४६ ॥

लयतालसमं गेयं५५ गायन्तु च समन्ततः५६ ।
आहन्यन्तां समन्ताच्च देवदुन्दुभयो भृशम् ॥४७॥

पाणिभिः कठिनैस्तूर्णं५७ चित्ररूपा महास्वनाः ।
मन्दानिलसमुद्धूता लीनालिकुलपङ्क्तयः ॥४८॥

पतन्त्वस्मिन्प्रदेशे च दिव्याः कुसुमवृष्टयः ।
उच्छ्रियन्तां समन्ताच्च५८ पताकाश्चित्रमूर्तयः५९ ॥४९॥

वरान् (?) । ४८ नमस्कृत्वा - ख. । ४९ देवीरन्तर्धे च -.. ख. । ५० लतावृक्षाः - ख. । ५१ दिशः - ख. । ५२ दर्शयन्तः - क ख., दर्शयन्तु - क. । ५३ चाप्सरसां - क. ख. । ५४.. .स्वनाः - क, स्वराः - ख. । ५५ जयतालसमं - क., ऋष्यताल समा - ख. । ५६ समं तत इति वा छेदः । ५७… स्तूर्यं - क. ख. । ५८ पताकाश्च - ख. । ५९ समन्ताच्चित्रमूर्तयः - ख ।
ध्वजाश्च विविधाकारा हेमदण्डाः सुसंस्कृताः ।
अथाशु निर्ममे६० तत्र विश्वकर्मा महाद्युतिः६१ ॥8.67.५० ॥

नानारत्नोज्ज्वलस्तम्भां विचित्रमणिवेदिकाम्६२ ।
वज्रस्फटिकनिर्यूहां जाम्बूनदमयीं शुभाम् ॥५१ ॥

इन्द्रनीलोरुसोपानां६३ मुक्तादामावलम्बिनीम६४ ।
सध्वजां सपताकां च६५ घण्टास्वन६६ निनादिताम्६७ ॥५२॥

तपोनियमयज्ञानां साक्षात् सिद्धिमिवोद्गताम्६८ ।
भिन्नकालानि पुष्पाणि ददृशुर्देवतास्तदा ॥५३ ॥

समं सुपुण्यगन्धीनि६९ विचित्राणि बहूनि च ।
पुष्पकिञ्जल्कगर्भाश्च सुखस्पर्शाः सुगन्धयः ॥५४॥

नादयन्तो मुहुर्घण्टा ववुस्तत्र समीरणाः ।
प्रजगुः७० सुरगन्धर्वा ननृतुश्चाप्सरोगणाः ॥५५॥

ऋषयस्तुष्टुवुर्गीभिः पुण्याभिः कौशिकीं तदा ।
सर्वरत्नौषधैर्गन्धैः पूर्णाः पुण्यैश्च७१ वारिभिः ॥ ५६॥

आनीतास्तत्र कलशा हेमरत्नमयाः शुभाः ।
पद्मरागमयैः सिंहैश्चतुर्भिर्वज्रकेशरैः७२ ॥५७॥

उच्छ्वसद्भिरिव श्रीमदुह्यमानं हिरण्मयम्७३ ।
सर्वरत्नप्रभाजालखचितोपान्तमण्डलम् ॥५८॥

कल्पयामास देव्याश्च विश्वकर्मा वरासनम् ।
स्तुतिभिर्जयशब्दैश्च स्तूयमाना समन्ततः ॥५९॥

ऋषिभिर्देवताभिश्च देवदेवसुता ततः ।
तस्मिन् सिंहासने दिव्ये निषसादाथ कौशिकी ॥8.67.६० ॥

निर्मिमे - क ख । ६१ महाद्युति - क । ६२ विचित्रां मणिवेदिकीम् - ख. । ६३ पलासेकां - ख. । ६४ मुक्तादामार्थलम्बिनीम् - क । ६५ सपताकाश्च - क. ख. । ६६ स्वर - क. । ६७ विनादिताम् - ख. । ६८… वागताम् - क,… रिवोद्गतां - ख. । ६९ पुण्यगन्धानि - क. । ७० प्रगीताः - क. ख. । ७१ पूर्णैश्च - क, पूर्णाश्च - ख । ७२… र्ध्वजकेशरैः - ख. । ७३.. हिरण्य - ख. ।
कृतस्वस्त्ययना विप्रैः सुहुते७४ जातवेदसि७५ ।
वसाना वाससी शुक्ले कल्पद्रुमसमुद्भवे ॥६१॥

मुक्तादामावबद्धाङ्गी शुक्लस्रगनुलेपना ।
ततः सप्तर्षयो विष्णुर्धर्मो यज्ञः प्रजापतिः ॥६२॥

आदित्याः कश्यपो७६ रुद्रा लोकपाला हुताशनाः ।
शैलेन्द्राः पृथिवी गङ्गा७७ चन्द्रमा मरुतोश्विनौ ॥६३ ॥

समुद्रा वसवो लक्ष्मीः सन्ध्या कीर्तिः सरस्वती ।
नागेन्द्रा विहगेशाश्च विविधाश्च सरिद्वराः ॥६४॥

आदाय कलशान् सर्बानभ्यषिञ्चन्त७८ कौशिकीम् ।
पूर्णेन्दुबिम्बप्रतिमं रत्नदण्डं महाद्युतिम् ॥६५॥

जग्राह विततं छत्रं स्वयमेव शतक्रतुः ।
चामरैर्हेमदण्डैश्च दीर्घैश्चन्द्रांशुनिर्मलैः ॥६६॥

बीजयामासु७९ रायस्तैर्लोकपालास्तदाव्ययाम् ।
उवाच च ततः श्रीमान् कौशिकीं पाकशासनः ॥६७॥

पाहि कृत्स्नां भुवं देवि भगिनी त्वं ममाव्यये ।
भक्ताननुगृहाणेशे जहि चामरकण्टकान् ।
विचरस्व समस्तांश्च लोकान् सिद्धगणार्चिता ॥६८॥

इति वचनमथोक्त्वा कौशिकीं देवराज-
स्त्रिदशगणसमेतः शुभ्रलोलोरुहारः८० ।
उदपतदथ विन्ध्याद्विक्षिपन्व्योम्नि नीलान्
सलिलभरविनम्रानम्बुवाहान्समन्तात् ॥६९॥

य इमं शृणुयान्नित्यं पठेद्वा सत्समागमे८१ ।
इह लोके सुखं प्राप्य स याति परमां गतिम् ॥8.67.७० ॥

इति स्कन्दपुराणे कौशिक्यभिषेको नाम सप्तषष्टितमोध्यायः