सनत्कुमार उवाच
देव्योपि तेषां विदितप्रयत्ना गजोत्तमानारुरुहुः सयत्नाः ।
शुचीन्मदाम्बुस्रवतः२ सुदन्तान् प्रशस्तगात्राम्बरहस्तपक्षान्३ (?) ॥१ ॥
सुपुष्करानुन्नतवृत्तकुम्भान्४ सुबालधीनञ्चितचारुकर्णान् ।
सुदन्तवेष्टान् कलविङ्कनेत्रान्सुवक्षसः स्वासनपृष्ठवंशान् ॥२॥
साङ्ग्रामिकानग्रजवान्५ वयःस्थान्सुशिक्षितानुन्नतपूर्वकायान् ।
आबद्धवर्मायुधचित्रघण्टान्६ समुच्छ्रितोरुध्वजवैजयन्तीन् ॥३ ॥
तासां पताकाध्वजशोभितानि विचित्रनानायुधभूषणानि ।
मातङ्गवृन्दानि तदा बभूवुर्वने वनानीव समागतानि ॥४॥
दैत्यापि ते वारणमूर्ध्नि षण्णा७ विस्फारयन्तो विबभुर्धनूंषि ।
सेन्द्रायुधाः साशनिशब्दगर्भाः शैलेषु मेघा इव सन्निलीनाः ॥५॥
सैन्यानि तान्याहनने गजानामाधोरणैराश्वभिचोदितानि ।
अन्योन्यमापेतुरभीरितानि८ वातेन वृन्दानि यथा घनानाम्९ ॥६ ॥
वेगेन नागानभिसृत्य नागा मदान्मदश्याममुखान्विषाणैः ।
लोहाभिनद्धैर्बिसकाण्डगौरैः शम्बूकदेशेष्वभिजघ्नुराजौ१० ॥७॥
रुपेतैः - क. ख. ।
समन्तात् - क., प्रमत्तान् - ख. । २ शुचिर्मदा वर्ष्मवतः - क., आविर्मदावद्धवैतः - ख. । ३ प्रशस्त- गात्राम्बरतः सुहस्तान् - ख. । ४ वृक्षकुम्भान५ - क. । ५… नुग्रजवान् - क. । ६ चर्मायुधचित्रघण्टान् - क. । ७ घण्टा - ख. । ८ समीरितानि - क ९ घनाघनानाम् - ख । १०… रभिजघ्नुराजौ - क. ख. ।
प्रसार्य हस्तानभितश्च केचिद्दानानुगन्धं द्विरदाभिसेरुः ।
आधोरणैरङ्कुशपाशवाग्भि११ रविध्यमानापि मदाभिदृप्ताः१२ ॥८॥
छिन्नानि पेतुर्निशितैः क्षुरप्रैः समुच्छ्रितान्यातपवारणानि ।
चित्राः पताका विविधा ध्वजाश्च परस्परेणाहनने गजेभ्यः१३ ॥१३ ॥
योधा निपेतुः परिनिष्टनन्तो विद्धाः शरैर्मर्मसु देवताभिः ।
सफेनमास्यै१४ रुधिरं वमन्तो धनूंषि सज्जानि१५ करैर्दधानाः ॥8.66.१० ॥
नागा निपेतुः१६ परितोभिपद्य१७ मर्मातिगै१८र्बाणवरैर्विभिन्नाः ।
देवीभिराजौ दितिजाधिपानां वाताभिनुन्ना इव गण्डशैलाः ॥११ ॥
मातङ्गमुख्यान्पतितान् परासून्१९ रणाजिरे नीलगिरीन्द्रकल्पान् ।
गन्धेन नागाः समदाः२० परीत्य विनम्य केचिद्२१ वदनैर्विनेदुः२२ ॥१२॥
छिन्नानि वक्त्राणि सकुण्डलानि भुजास्सशस्त्राश्च२३ सुचन्दनाक्ताः ।
पेतुर्गजेभ्योसुरयूथपानां देवीभिराजौ निशितैः क्षुरप्रै२४ ॥ १३ ॥
चुकूजुरुच्चैः परितो धनूंषि विनेदुराहत्य सुरारिमुख्याः ।
विपुस्फुरुर्ज्याः परिकृष्य मुक्ताः शराभिविद्धाश्च२५ गजा निषेदुः ॥ १४॥
नागैः पतद्भिर्विशिखाभिविद्धैः समुच्छ्रितोरुध्वजचारुपृष्ठैः ।
आस्तीर्यते भूरनिलप्रनुन्नैः सतालवृक्षैरिव शैलपादैः ॥ १५॥
नागा गजानाहननेभिजघ्नु२६र्दैत्याश्च देवीर्दितिजाँश्च देव्यः ।
दैत्यान् गजेन्द्रा द्विरदांश्च दैत्याः क्रुद्धाः२७ सरोषानभिसृत्य तत्र ॥ १६॥
शस्त्राभितप्तैः पतितैस्समन्तान्मातङ्गवृन्दैर्गिरिसानुकल्पैः ।
सञ्चारयोग्या न बभूव भूमिरायोघने दैवतदानवानाम ॥१७ ॥
अभ्यदितानि स्वबलानि दृष्ट्वा देवीभिराजौ निहतद्विपानि ।
शुम्भो निशुम्भश्च समाजभूमिमाजग्मतुर्दैत्यपती रथस्थौ ॥ १८॥
अग्रेसरैः पत्तितुरङ्गनागैर्व्रातैश्च देवद्विषतामुपेतौ ।
विस्फारयन्तौ धनुषी विचित्रे युद्धाय यत्तौ परिघोरुबाहू ॥ १९॥
राविध्यमानापि - क ,.. .रासि… - ख. । १२. भिमदाविदृप्ताः - क. ख.,… पि मदावदृप्ताः - ख. । १३ गजाश्च - क. । १४.. न्सै - क. । १५ सज्यानि - ख. । १६ निषेदुः - क. । १७.. .पद्मा - क. ख. । १९ पद्मातिगै - क. । १९ गतासून् - क. । २० समदान् - क. । २१ किञ्चिद् - क. ख. । २२.. .द्दिरेदुः - क. । २३ स - क. ख. । २४ निशितक्षुरप्रैः - क. । २५ शरातिविद्धाश्च - क. । २६ जग्मु - क. । २७ क्रुधा - क. ।
ज्ञात्वा तयोरागमनं तदानीं देवी चलत्पिङ्गलकेशराढ्यान् ।
सञ्चोदयामास रथस्य सिंहान् विस्फारयन्ती समरे धनूंषि ॥8.66.२०॥
ज्यानिं जवस्याथ तुरङ्गमाणां मदप्रमोषञ्च महाद्विपानाम् ।
चेतोविमोहं सुरविद्विषां च चापस्वनेनैव२८ चकार देवी ॥२१ ॥
आजौ समास्थाय परं प्रयत्नं शराः सुराणां रिपुभिः समस्ताः ।
अप्राप्य देवीं पतिताः पृथिव्यां पराजयं प्राहुरिवासुराणाम्२९ ॥२२॥
गभस्तिभिः स्थावरजङ्गमानि व्याप्नोति यद्वत् सविता दिनेषु ।
तद्वच्छरौघैर्दितिजाधिपानां रणाजिरे व्याप बलानि देवी ॥२३ ॥
निपेतुराशु व्यसवस्तुरङ्गमा विचस्खलुर्मत्तगजाः क्षरन्मदाः ।
चकम्पिरे योधवराः सुरद्विषां समं३० समस्ताः समरे शराहताः ॥२४॥
अर्च्चिर्भिरिद्धैर्ज्वलितो यथानलः कक्षाणि शुष्काणि दहत्यवारितः ।
दीप्तैः शरोघैः३१ समरेमरद्विषां सैन्यानि तद्वत् प्रददाह कौशिकी ॥२५॥
छायां३२ यथा स्थावरजङ्गमानां मध्यन्दिनेल्पां३३ कुरुते विवस्वान् ।
देवी तथा तां ध्वजिनीं रिपूणामल्पावशिष्टां समरे चकार ॥२६॥
आहूय देवीमथ दानवाधिपौ विस्फार्य चापे महती भिसेरतुः ।
तीक्ष्णैः सुपत्रैर्विशिखैश्च कौशिकीं सञ्छादयामासतुराहवाजिरे ॥२७॥
चापेषु यत्तौ३४ हरिषु ध्वजेषु महाभुजौ क्रोधपरीतचित्तौ ।
दैत्येश्वरौ संयति देवताया निचख्नतुर्वाणवरान्सुपत्रान् ॥२८॥
दैतेश्वरास्तानथ सायकौघानचिन्तयित्वा रिपुदर्पहन्त्री३५ ।
विव्याध दैत्यौ३६ युधि रुक्मपुङ्खै३७स्सुपर्वभिर्वाणवरैस्तुपत्रैः ॥२९॥
दैत्यावपीषूनविचिन्त्य३८ शूरौ गदे प्रगृह्योज्ज्वलचारुघण्टे ।
उद्भ्राम्य३९ यत्नातिशयेन देव्या रणाजिरे चिक्षिपतुर्बृहत्यौ ॥8.66.३० ॥
चापस्वनेनेव - क. । २९ बाहुरिवासुराणाम् - ख. । ३० समाः - ख. । ३१ शरैः सा - ख. । ३२ छाया - क. ख. । ३३ मध्ये दिनेल्पां - ख. । ३४ यस्त्यान् - क., यन्त्रां - ख. । ३५… हर्त्री - क. । ३६ बाणान् - ख. । ३७ रूक्षपुङ्खैः - क. । ३८ दैत्यावपीष्टन्न विचिन्त्य - घ., तौ न विचिन्त्य - ख. । ३९ उद्गम्य - क. ।
ते व्योम्नि बाणैश्शतशो निकृत्य सुपर्वभिर्हाटकचारुपुङ्खैः ।
विच्छेद देवी कवचे विचित्रे तयोः क्षुरप्रैरपरैः शिताग्रैः ॥३१ ॥
जघान चाश्वानथ सारथी च४० ध्वजौ च चित्रौ रथयोश्चकर्त्त ।
चखान चान्यानपि सत्पृषत्कान् सुरद्विषो र्मर्मसु हेमपुङ्खान् ॥३२॥
शुम्भो निशुम्भश्च रथावपास्य४१ दैत्येश्वरौ बाणवराभितप्तौ ।
आदाय निस्त्रिंशवरौ तदानीमुत्पेततुर्व्योम शितासिनीलम् ॥३३॥
अथ नभसि विमेघे धौतनिश्त्रिंशनीले
द्रुततरमभिसृत्य ग्रीवयोः सम्प्रगृह्य ।
दितितनयपती तौ४२ निष्पिपेषाशु देवी
विगतभयविषादैः स्तूयमाना मुनीन्द्रैः ॥३४॥
असृगथ वदनाभ्यामुद्वमन्तौ सफेनं
सपदि विहतवीर्यौ४३ पिष्टसर्वाङ्गसन्धी ।
असुभिरपगतैस्तौ रक्तपर्यन्तनेत्रौ४४
क्षितितलमभितस्तौ पेततुर्दैत्यसिंहौ ॥३५॥
इति स्कन्दपुराणे शुम्भनिशुम्भनिपातन नाम षट्षष्टितमोध्यायः