कृतार्था जयमङ्गला - ख । ९ सुसंयत्ताः - ख । ४० प्रस्फोटेत - ख., पूरिरतेनेव - क. । ४१ शितनिस्त्रिंशसङ्कुलम् - ख. । ४२ संयत्तं - ख । ४३ ददर्श ह - ख, दशो दिशः - क. ।
सनत्कुमार उवाच
अथ ता देवताः क्रुद्धा दैत्यानग्रेसराँस्तदा ।
निजघ्नु[^१]र्विविधैः शस्त्रैस्ते च ता विभिदु[^२] र्युधि ॥ १ ॥
दैत्या नानायुधोपेता देवीर्जघ्नु[^३] स्तदा रणे ।
अबला[^५] बलिनो वीराः समरेमरविद्विषः ॥२ ॥
तुरङ्गिणस्तुरङ्गस्थाः पदातींश्च[^७] पदातयः ।
रथिनो रथसंस्थाश्च गजस्था[^८] गजसादिनः[^९] ॥३ ॥
रथा[^१०] नागास्तुरङ्गाश्च[^११] रथान्[^१२] नागान् तुरङ्गमान् ।
पदातीः[^१३] सादिनः शूराः सादिनीश्च[^१४] पदातयः ॥४॥
देव्योपि युधि सङ्क्रुद्धाः पत्तिसादिरथ[^१५] द्विपान् ।
निर्जघ्नु[^१६]र्दानवेन्द्राणां प्रासशक्ति परश्वधैः[^१७] ॥५॥
पादैश्च पिपिषुः शूरान्निपात्य भुवि दानवान् ।
विभिदुर्मुष्टिभिः काश्चिच्छिरांसि सुरविद्विषाम् ॥६॥
विदार्योरःस्थलं काश्चित् समरे दर्पशालिनाम् ।
पपुश्च रुधिरं देव्यः प्राणैस्सह सुरद्विषाम् ॥७॥
छिन्नाँश्च खण्डशः केचिद्[^१८] हेतीनुत्थाय[^१९] वेगिताः ।
निर्जघ्नु[^२०] र्देवताः क्रुद्धा मुष्टिभिर्वज्रसंहतैः ॥८॥
केचिन्मदाम्बुनिष्यन्दश्यामगण्डस्थला गजाः ।
पिपिषुः परमक्रुद्धाः समरे देवतारथान्[^२१] ॥९ ॥
कपोलभित्तिसंलीनमत्तषट्पदपङ्क्तयः ।
हतारोहा गजाः केचिन्निर्जघ्नुर्दैत्यदेवताः ॥ 8.65.१०॥
वर्मिणः केचिदुद्भ्रान्तशितनिस्त्रिंशपाणयः ।
चिच्छिदुर्देवतानीकं देवता दानवानपि ॥११ ॥
निर्जघ्नु - क. । २ ताम्बिभिदु.. - क., मिमृदुः - ख. । ३ देवीं जघ्नु - क. । ४ भयाद् - ख. । ५ जवना - घ. । ६ धीराः - क. । ७ पदातीश्च - ख । ८ गजाश्च - ख. । ९… ङ्गजसादिनः - क- । १० रत्ना - क. । ११ तुरङ्गाश्च - क । १२ रथौ - क. ख । १३ पादातीः - क. । १४ सादिनश्च - ख. । १५ रथान् द्विपान् - क. । १६ निजघ्नु - क. । १७ प्राशशक्तिपरश्वधैः - क. । १८ काश्चिद् - ख. । १९ नुच्छ्राय - ख. । २० निजघ्नु - ख. । २१ देवदानवान् - ख ।
मत्ताः प्रतिच्छन्न[^२२]मुखाँश्च[^२३] केचिद् गन्धेन विज्ञाय गजान्[^२४] गजेन्द्राः ।
घ्रात्वा तु गन्धं सहसाभिजघ्नुराधोरणैरप्यभिसङ्गृहीताः[^२] ५ ॥ १२॥
विस्फार्यमाणानि महाधनूंषि महाबलैर्दानक्योधमुख्यैः ।
तारं विरेसुः[^२६] समराजिरेषु क्रौञ्चा इव व्योम्नि शरन्निशासु[^२७] ॥१३ ॥
तूर्यस्वनैर्ज्यातलसन्निपातैर्नागाश्वनादै रथनेमिघोषैः ।
सम्पूर्णकुञ्जोदर[^२८] कन्दरोसौ[^२९] विन्ध्यश्चचालेव तदा समग्रः[^३०] ॥१४॥
देव्यः समुत्सार्य रणे रिपूणामुच्चैर्विनेदुः प्रसभं बलानि ।
नेदुश्च नादान् परिहृष्टचित्ताः प्रोत्सार्य देवीर्युधि दैत्ययोधाः ॥ १५ ॥
बलानि किञ्चित्क्षतजोक्षितानि प्रचक्रिरे तत्र गतागतानि ।
महावनानीव समीरणेन समीरितान्युद्गतपल्लवानि ॥ १६॥
छिन्नानि वक्त्राणि पुरस्सराणां विचित्रहैमाभरणोज्ज्वलानि ।
देवीभिराजौ पतितानि रेजुर्निकृत्तनालानि यथाम्बुजानि ॥ १७॥
प्रत्याहता विद्रुतभीतनागा सा देवताभिर्निहताश्वयोधा ।
दैत्येन्द्रसिंहैः प्रतिसन्निवृत्तैर्दोलायमानेव चमूर्बभूव ॥१८॥
हता निपेतुः समरे नदन्तो देवद्विषामञ्जनशैलकल्पाः ।
देवोभिराबद्धविचित्रघण्टा मर्मातिगैर्वाणवरैर्गजेन्द्राः ॥१९ ॥
बलानि तेषामभिसृत्य वेगादभ्याहतान्याश्वपसेरुराजौ ।
महोदधिं प्राप्य विवृद्धिकाले प्रत्याहतानीव सरिज्जलानि ॥8.65.२० ॥
देव्यश्च दैत्याश्च महासमाजे विरेजिरेन्योन्यविसक्तवाणाः[^३१] ।
संसक्तभासोपगमे घनानामभ्रे समूहा इव तारकाणाम् ॥२१ ॥
उद्घुष्य नामान्यथ[^३२] दानवेन्द्रा निर्जग्मुराशु[^३३] स्वबलाद्रथस्थाः ।
क्रुद्धाः सुयत्ता रथिनां वरिष्ठा विस्फार्य[^३४] चित्राणि शरासनानि ॥२२॥
देव्योपि संयत्ततरा रथस्थाः क्रुद्धा जवेनाथ तदाभिसस्रुः ।
मेघस्वनं प्रत्युदियाय षष्ठी कार्तस्वरं मृत्युरुदीर्णकोपा[^३५] ॥ २३॥
प्रतिच्छिन्न ख। २३ मुखाश्च क. ख. । २४ गजं क । २५ रस्तुतिसङ्गृहीताः २६ विनेदुः - ख. । २७ क्रौञ्चा इव व्योम शरन्निशान्ते - क., व्योमसरा (?). शरद्व्योमशरन्निशान्ते - ख । २८ कुमभोदर - ख. । २९ कन्दरेषु - क. । ३० समग्रं - क. । ३१ विषक्तबाणः - क., विभक्तबाणाः - ख । ३२… माणान्यथ - क. । ३३ राजौ - ख. । ३४ विस्तार्य - ख. । ३५ वेगं - ख, वेगा (?) ।
द्रुमेण लक्ष्मीरथ[^३६] संयुगस्था[^३६] मयेन कान्तिः सरमा मुरेण ।
घनेन चण्डा नियतिः खरेण प्रभावती धुन्धुमयात् सरोषा[^३८] ॥२४॥
दैत्या युयुत्सोत्सुकमानसास्ते[^३९] देवीः समायास्सभुजैस्सशस्त्रैः[^४०] ।
अभ्याययुः शीघ्रममृष्यमाणाः ख्यातावलेपाः स्वरथैस्सुयत्ताः ॥ २५ ॥ ज्योतिःप्रकाशान्तपनीयपुङ्खानाकर्णपूर्णायतचापमुक्तान् ।
सम्प्रेषयामासुरदीनसत्वा बाणप्रवेकान्युधि देवतानाम् ॥ २६॥
देव्योथ तेषां निशितान्सुपुङ्खान्मर्मच्छिदो दूरगमान्सुपत्रान् ।
आगच्छतां दानवयूथपानां बाणाननन्तान्ससृजुस्तथैव ॥२७ ॥
ते बाणमुख्या विविधा विरेजुरन्योन्यमुक्ता व्यतिषज्यमानाः ।
ते पूर्णमास्यां विघने दिनान्ते भासः[^४१] समूढा इव[^४२] चान्द्रसौराः[^४३] ॥ २८॥
छिन्ना निपेतुर्युधि देवताभिर्भुजाः सशस्त्रा दितिजाधिपानाम् ।
निरस्तभोगा निबिडा बृहन्तो निगीर्णजिह्वा इव पन्नगेन्द्राः ॥२९॥
मेघस्वनस्याथ रणे तदानीं क्रुद्धा शरौघान्विससर्ज षष्ठी ।
आगच्छतस्तानभितः पृषत्कैश्चिच्छेद दैत्यः शतशोन्तरिक्षे ॥ 8.65.३० ॥
बाणानथोद्वीक्ष्य तदा निकृत्तान् लघीयसोन्यान्विससर्ज तूर्णम् ।
दैत्योपि तानापततः पृषत्कान्व्रातैः शराणां बहुशश्चकर्त्त ॥ ३१ ॥
निकृत्य[^४४] बाणान्दितिजः पुनस्तान्[^४५] चिक्षेप षष्ठ्या दश रुक्मपुङ्खान्[^४६] ।
तानाशु षष्ठी प्रतिवार्य दैत्यं विव्याध षष्ठ्या तपनीयपुङ्खैः ॥३२॥
स तैर्विभिन्नो रुधिराक्तमूर्तिः प्रविह्वलः[^४७] च किञ्चिदवाग् बभूव ।
अपाकरोत्तं समरात् स्वसूतो[^४८] रथेन जाम्बूनदचित्रितेन ॥३३ ॥
कार्तस्वनः[^४९] काञ्चनचित्रपुङ्खान्[^५०] ससर्ज देव्याः[^५१] समरे पृषत्कान् ।
चिच्छेद तान् मृत्युरुदारपुङ्खैरनागता[^५२] नेव शराञ्छरौघैः ॥३४॥
र्युधि - ख । ३७ संयुजस्थे - ख. । ३८ मियाय रोषाद् - ख. । ३९ ययुः सोत्सुकमानसास्ते - क. । ४०… त्स भुजैः सहस्रै - - क. । ४१ भासां - क. । ४२ समूहा - क । ८३ चन्द्रसौराः - क. ख. । ४४ विकृत्य - क. । ४५ पुरस्तात् - क ख । ४६ रूक्षपुङ्खान् - क । ४७ सुविह्वलः - ख. । ४८ स सूतो - ख. । ४९ कार्तस्वरः - ख । ५० कार्मुकाश्चित्राणः? - ख. । ५१ दैत्याः (त्यः) - ख. । ५२… रनाशयं - ख.,… र्नभोगता (?) ।
छित्त्वा शराँस्तस्य शरैर्विचित्रैर्विव्याध तं वक्षसि पञ्चषष्ठ्या[^५३] ।
भिन्नः स तैराशु तथा विरेजे व्योम्न्यर्कपादैरिव[^५४] वारिवाहः ॥३५॥
अश्वांश्च तस्याशु जघान मृत्युः पृथक् पृषत्कै[^५५] स्तपनीयपुङ्खैः ।
आप्लुत्य दैत्योथ रथाद्धताश्वात्प्रगृह्य चर्मासिवरञ्च धौतम् ॥३६॥
क्रुद्धो नितान्तायतरक्तनेत्रो वेगेन देवीमभितः ससार ।
तच्चर्म तस्यापततः[^५६] शरौघैश्चकर्त्त मृत्युः शतशश्शिताग्रैः ॥३७॥
स कृत्तचर्मावरणो[^५७] सुरेन्द्रो निस्त्रिंशमुद्यम्य निशातधारम्[^५८] ।
अभ्यद्रवन्मृत्युमभूत्तदानीं खे रोहिणीं मेघ इवाभिविद्युत् ॥ ३८॥
तमापतन्तं युधि कालकल्पं मृत्युः शरैरुग्रभुजङ्गकल्पैः[^५९] ।
जघान मर्मस्वभिलक्षितेषु व्ययोजयच्चासुभिरेनमाशु ॥ ३९॥
लक्ष्मीर्द्रुमं बाणवरैरजय्या[^६०] समाकिरद्वारणराजलीलम्[^६१] ।
कर्णान्तमुक्तै[^६२] र्निशितैरजिह्मै रणाजिरे चारुसुवर्णपुङ्खैः ॥8.65.४० ॥
अजिह्मगास्ते विविधाः सुपत्रिता द्रुमस्य गात्रेषु निपेतुराहवे ।
स तैर्विचित्रैः शुशुभे विषक्तैर्महाद्रुमः पक्षिगणरिवाश्रितैः ॥४१ ॥
लक्ष्मीं ततः किम्पुरुषाधिपोसौ विव्याध बाणैर्दशभिः सुपुङ्खैः ।
वक्त्रे स पूर्णेन्दुसमानवक्त्त्रां बाह्वोः पृथक् चाष्टशतेन[^६३] धीरः[^६४] ॥४२ ॥
अचिन्तयन्तीषु[^६५] वरान्वरास्या मुखेस्य तीक्ष्णान्निचखान बाणान् ।
अन्यानसख्याँश्च[^६६] पृथक् शरीरे सुपत्रितान् हाटकमृष्टपुङ्खान्[^६७] ॥४३ ॥
लक्ष्म्यास्ततो दैत्यपतिः शितेन भल्लेन चिच्छेद रथे ध्वजाग्रम्[^६८] ।
अश्वांश्च तस्याश्चतुरश्चतुर्भिः सूतं च विव्याध शरेण तूर्णम् ॥४४॥
नाराचमादाय ततोस्य लक्ष्मीर्जघान सूतं युधि देवशत्रोः ।
विव्याध वाहाँश्च पृथक्पृषत्कैध्वजञ्च चिच्छेद रथस्य[^६९] तूर्णम् ॥४५॥
शष्ठ्याः - ख. । ५४ यथार्कपदैर्दिवि (?) । ५५ पृथक्तै - क ख. । ५६ तमन्तकस्यापततः - ख. । ५७ सत्कृत्य - क, कृत्तचर्मावदनो - ख. । ५८ निशीतधारैः - क., निशीतधारां - ख. । ५९.. तुल्यैः - क. । ६०… रजय्यं - ख. । ६१ वारणराजलीला - क. । ६२… कृष्टैः (?) । ६३ पृषत्काष्टशतेन - क. । ६४ वीरः - ख. । ६५ अचिन्तमानेषु - क. । ६६ अनेकसङ्ख्यांश्च - क. । ६७… पृष्टपुङ्खान् - ख. । ६८ रथध्वजाग्रे - ख. । ६९ रथेतथाष्टौ - क. ।
यन्त्रा विना तस्य रथं तदानीं ते सायकैरप्रतिमैः प्रतप्ताः[^७०] ।
सङ्ग्रामभूमेरपनिन्युरश्वाः[^७१] प्राणानिव स्वान्[^७२] परिरक्षमाणाः ॥४६॥
कान्तिर्मयं बाणशतैरवाकिरन्मयश्च कान्तिं निशितैः शरौघैः ।
नीहारपातैरिव सान्धकारं तदा[^७३] तयोरन्तरमास तत्र ॥४७॥
आदानसन्धानविकर्षणेषु स्थानक्रमप्रग्रहतेजनेषु[^७४] ।
शिक्षागुणैस्तावपरस्परेण विशेषयामासतुराजिमध्ये ॥४८॥
कान्तिर्मयास्तान्निचकर्त बाणान्मयश्च कान्त्या विशिखान्विमृष्टान् ।
छिद्रं समासेदतुरप्रधृष्यौ किञ्चिन्न तौ यत्र[^७५] परस्परस्य ॥४९॥
अश्वेषु सूते सरथे[^७६] ध्वजे च सर्वेषु गात्रावयवेषु चास्य[^७७] ।
अजिह्मगान् हाटकमृष्टपुङ्खान्[^७८] मयस्य कान्तिर्निचखान बाणान् ॥8.65.५० ॥
मयश्च कान्तिं सरथा'७९ ससूतां[^८०] सचारुचित्रध्वजवाजिमुख्याम् ।
सञ्छादयामास शितैः पृषत्कैर्वनस्थलीं मेघ इवाम्बुवर्षैः ॥५१ ॥
क्रुद्धाथ कान्तिः समरे मयस्य नाराचमुख्येन सुपत्रितेन ।
सूतं जघानाशु रिपोस्तदानीमष्टाभिरष्टौ[^८१] तुरगाँश्च बाणैः ॥५२॥
हताश्वसूतो विरथो[^८२] मयोथ निस्त्रिंशमादाय निशातधारम्[^८३] ।
ज्ञात्वैव कान्त्या समरे प्रभावं विहाय युद्धं वियदुत्पपात ॥५३ ॥
विव्याध तीक्ष्णैः सरमा रणाजिरे बाणैर्मुरं दानवदैत्ययूथपम् ।
दैत्योपि बाणैः सरमामजिह्मगैरभ्याहनद् गृध्रमयूरपत्रिभिः ॥ ५४॥
क्रुद्धाथ देवी निशितेन तस्य चिच्छेद भल्लेन धनुर्विचित्रम् ।
अन्यद्धनुः सोथ तदा[^८४] गृहीत्वा विव्याध देव्याश्चतुरस्तुरङ्गान् .॥५५॥
ते विह्वलाः शोणितमुद्वमन्तो दैत्येन्द्रबाणाभिहतास्तुरङ्गाः ।
भूमौ निपेतुः समरे श्वसन्तः प्राणाञ्जहुश्चाशु समं समस्ताः ॥५६ ॥
क्रुद्धाथ देवी सरमासुरस्य निस्त्रिंशमुद्यम्य सुपीतधारम् ।
उत्पत्य खं तस्य तदा जघान यन्तारमश्वाँश्च महाप्रमाणान् ॥५७॥
सुतप्ताः - ख । ७१… राशु - क. ख. । ७२… वाश्वाः - क. ख. । ७३ सान्धकारै - ख. । ७४ स्थान- ग्रहप्रग्रहतेजनेषु - घ. । ७५ तत्र - ख- । ७६ सूतेषु रथे. - ख. । ७७. . वात्र - क. । ७८ पृष्टपुङ्खान् - ख. । ७९ सरथं - क. ख. । ८० ससूतं - क. ख. । ८१ रथं तथाष्टौ - घ. । ८२ हताश्वसूताद्विरथो - क., ससूतं सरथं - ख. । ८३ निपीतधारम् - क. । ८४ शीघ्रतरं - ख. ।
मुरोथ वेगेन तदान्तरिक्षमुत्पत्य कोपान्निहताश्वसूतः ।
विव्याध देवीं दशभिःसुतीक्ष्णैः[^८५] शरैरुरस्युग्रभुजङ्गकल्पैः ॥५८॥
अचिन्तयित्वा सरमा शराँस्तान्[^८६] धनुर्विचिच्छेद तदा मुरस्य ।
स कृत्तधन्वा वियतीन्द्रशत्रुरन्तर्दधे संयुगमाशु हित्वा ॥५९॥
विव्याध चण्डा घनमापतन्तं शरैः शिताग्रैर्युधि रुक्मपुङ्खैः ।
विद्धः स तैर्दैत्यपतिर्बभासे करैरिवेन्दोरसितः पयोदः ॥8.65.६०॥
अभ्यद्रवत्तानविचिन्त्य वाणाँश्चण्डां घनः सायकजालवर्षी ।
आगच्छतस्तस्य शरैस्सुपत्रैर्विव्याध चण्डा रथवाजिमुख्यान् ॥६१ ॥
चिच्छेद दैत्योपि समुच्छ्रिताग्रं ध्वजं तुरङ्गाँश्च जघान देव्याः ।
हित्वा रथौ ताववतीर्य भूमौ[^८७] गृहीतचर्मासिवरौ प्रयत्तौ ॥६२ ॥
विचेरतुर्मण्डलमाजिमध्ये भूमिं तदाग्राङ्गुलिभिः स्पृशन्तौ ।
ताँस्ताँश्च मार्गान्[^८८] लघुपादचारौ छिद्रं न चान्योन्यमवापतुस्तौ ॥६३ ॥
अभिप्लुतोच्चप्लुतसिंहपातान्[^८९] निवृत्तकाक्रीडितकोर्ध्वबाहून् ।
खगापयाताभिहतापयातान्[^९०] निषण्णकाविद्धशिरोभिघातान्[^९१] ॥६४॥
उत्प्लुत्य वेगेन तदाथ तस्य शिरोधरामाशु चकर्त चण्डा ।
स कृत्तमूर्धा निपपात तस्यां सङ्ग्रामभूमावुरसाशु दैत्यः ॥६५॥
स शोणितादिग्धवपुस्तदानीं घनः परासुः पतितो धरण्याम्[^९२] ।
रराज सन्ध्याच्छुरितोरुमूर्त्तिर्वियद्गतो नील इवाम्बुवाहः[^९३] ॥६६ ॥
विव्याध तीक्ष्णैर्निर्यतिः सुपत्रैः खरं शरैर्वक्षसि हेमपुङ्खैः ।
आयोधने सम्मुखमापतन्तं भल्लेन चास्य ध्वजमुच्चकर्त[^९४] ॥६७॥
विद्धः स तैरभ्यपतन्सरोषो देवीं जिघांसुः समरेरिहन्ता ।
गुर्वी गदां चाशु तदा गृहीत्वा चिक्षेप देव्या रुधिराक्तमूर्त्तिः ॥६८ ॥
सा दानवाग्र्येण गदा[^९५] प्रमुक्ता[^९६] विचित्रहेमोज्ज्वलचारुघण्टा ।
सञ्चूर्णयामास रथं नियत्याः[^९७] सूतं ध्वजं चाशु९८ समुच्छ्रिताग्रम् ॥६९॥
शिताग्रैः - क. । ८६ सरोषा - ख. । ८७ भूमिं - क. ख. । ८८ मात्रां - क. । ८९… यातान् - क. । ९० - पथानाभिहतापयातान् - क. ९१ शताभिघातान् - ख. ९२ धरित्र्यां - ख. । ९३ नीच इवम्बुवाहः - क. । ९४ …माचकर्त - ख. । ९५ तदा - क. । ९६ प्रयुक्ता - ख. । ९७ नियन्त्री (म्) - क., नियन्ता - ख. । ९८ चारु - क. ।
उत्पत्य तूर्णं नियतिः स्ववाहात्९९ क्रोधेन संरक्तविलोलनेत्रा ।
अभ्येत्य तं दानवयोधमुख्यं खड्गेन मध्येस्य शिरः पफाल ॥8.65.७० ॥
स दानवो विस्फुटितोत्तमाङ्गः क्षितौ विरेजे स्रुतरक्तधारः ।
वज्रेण भिन्नः शिखराग्रदेशे गिरिर्यथा धातुरसप्रवाही ॥७१ ॥
प्रभावती धुन्धुमजिह्मयातैः शिलीमुखैरभ्यहनत्सुपत्रैः ।
उरस्युदारा१०० दशभिः शिताग्रैर्घनाघनव्रातसमानवर्णैः१०१ ॥७२॥
जघान सा षोडश देवतारेस्तुरङ्गमान् षोडशभिः पृषत्कैः ।
निहत्य चैकेन रथेस्य१०२ सूतमेकेन चास्य ध्वजमुच्चकर्त ॥७३॥
धुन्धुर्गदां भारसहस्रगुर्वी चिक्षेप१०३ कार्तस्वरचारुघण्टाम् ।
तामापतन्तीं शतशश्चकर्त्त प्रभावती दैत्यपतिप्रमुक्ताम्१०४ ॥७४॥
आदाय दैत्यः परिघं१०५ महान्तमाप्लुत्य१०६ वाहादभितः ससार ।
देवीमसा१०७वञ्जनशैलनीलो रणाजिरे काल इवात्तदण्डः ॥७५॥
अभ्यापतन्तं युधि दानवेन्द्रं देवी शरैरभ्यहनत् सुपत्रैः ।
देव्या१०८ समस्तानविचिन्त्य बाणानभ्येत्य तामाहवमूर्ध्नि रोषात् ॥७६॥
उद्भ्राम्य वैवस्वतदण्डकल्पं लौहं प्रयस्तं१०९ परिघोरुबाहुः ।
न्यपातयत्तं परिघं रथेस्या गिरेर्नितम्बे कुलिशं यथेन्द्रः ॥७७॥
अचूर्णयत्तं रथमाशु देव्याः साश्वं ससूतध्वजहेमचक्रम् ।
कालायसोसौ परिघोसुरास्तो वेगेन तत्रापससार देवी११० ॥७८॥
दृष्टा स तां तत्र तदापयातां तमेव लौहं परिघं गृहीत्वा ।
अभ्यद्रवद् दानवयोधमुख्यो दिवीव चित्रामसितः१११ पयोदः ॥७९॥
उत्पत्य सा दिव्यवरास्त्रमुक्तैः क्षुरप्रमुख्यैः परिघञ्चकर्त ।
उद्यम्य मुष्टिं निबिडं ततोस्या भूयोथ११२ दैत्यो वियदुत्पपात ॥8.65.८० ॥
स्वबाहोः - क. । १०० उरःसुधारा - ख. । १०१ घनेन प्रातःसु समानवर्णैः - ख- । १०२ रथस्य - क, रथे स - ख. । १०३ चिच्छेद - ख. । १०८ प्रयुक्ता - ख. । १०५ दैत्यम्परिघं - क- । १०६. मासव्रु - क. । १०७ समा - क. ख. । १०८ देव्याः - क. । १०९ प्रयन्ता (त्तः?) - क. । ११० देवीं - क. । १११… वसितः - ख. । ११२ भुजेथ - ख ।
तं मर्मगैर्मर्मसु बाणमुख्यैः सन्ताडयद्दानवमाशु देवी ।
भिन्नः स तैर्मर्मगमैः सुपुङ्खैरन्तर्दधे दानवयोधमुख्यः ॥८१ ॥
अथ समरमपास्य योधमुख्यै-
र्विहतपराक्रमपौरुषैरपेतैः११३ ।
सुरपतिरिपवो विनद्य नादान्
द्विरदवरानधितस्थुरात्तशस्त्राः ॥८२॥
इति स्कन्दपुराणे शुम्भनिशुम्भसङ्ग्रामे देवीयुद्ध नाम पञ्चषष्टितमोध्यायः