सनत्कुमार उवाच
आहत्य भेरीः सन्नह्य[^१] दितिजा दानवाश्च ते ।
तदा सन्नाहयामासू[^२] रथनागतुरङ्गमान् ॥१॥
गृहीततोयानानीय ततो दैत्या मतङ्गजान्[^३] ।
मदस्फातिकरान् दत्त्वा धूपाँश्च कवलानि च ॥२॥
तथा कक्षाश्च[^४] सन्नाह्या ग्रैवेयाँश्च सुसंस्कृतान् ।
अङ्कुशान् सर्वलोहाँश्च हेमरत्नपरिष्कृतान् ॥३॥
संस्थिताः - क.,.. संस्थितं - क. । ५७ देवतैस्तदा - क ख । ५८ कन्या- क. । ५९ सापि विरंस्यति - ख. । ६० न्न - क. । ६१. .विजेतुर्वाक्यमेतद् विधृत्य - क. । ६२ उदपतनविलम्ब्य स्वच्छशुभ्रोरुहारन्नवजलधरनम्रा प्रावृषेवाम्बुवाहः - क., उदपतदथ शुम्भः स्वच्छशुभ्रोरुहारो नवजलधरमत्तः - घ, प्रावृषीवाम्बुधारा - ख. । १ सन्नाह्याः - क. । २ सन्नाहमायासू - क. ख. । ३ दैत्येयान्मत्तदिग्गजां (न्) - क. । ४ कक्ष्याश्च - क. ।
करेणुषु समारूढाः समन्ताद् गजसादिनः ।
आबबन्धुर्विचित्राणि वर्माणि विधिवत्तदा ॥४॥
तिर्यगूर्ध्वमुखान् सस्यग्[^५] बबन्धुस्तोमरेषुधीन् ।
आयुधानि च सर्वाणि बबन्धुरुभयोरपि ॥५॥
पार्श्वयोरासनानां तु त्रयाणामपि भागशः ।
वैजयन्तीपताकाश्च समुच्छिश्रियिरे ततः ॥६॥
तुरङ्गान् स्नातपीताँश्च वर्मिणो बद्धबालधीन् ।
आरूढा बद्धनिस्त्रिंशा[^७] दानवा लोहजालिनः ॥७॥
आरूढा रथिनः केचिद् रथान् युक्ततुरङ्गमान् ।
सायुधान्सपताकाँश्च प्रयस्तान् स्वक्षकूबरान् ॥८॥
अथ शुम्भो निशुम्भश्च भ्रातरौ दानवेश्वरौ[^८] ।
आरुह्य बद्धकवचौ बलोन्मत्तौ महासुरौ ॥९ ॥
साङ्ग्रामिकौ सुसंयत्तौ रथौ वल्गत्तुरङ्गमौ[^९] ।
सायुधौ सपताकौ च कार्त्तस्वरमयौ पृथक् ॥ 8.64.१० ॥
निर्जग्मतुर्महोरस्कौ प्रयुक्तजयमङ्गलौ ।
मागधैर्वन्दिभिः सूतैः स्तूयमानौ पुरःसरैः ॥ ११ ॥
ततो यातुं समारब्धास्तूर्याण्याहत्य सङ्घशः ।
यत्रास्ते कौशिकी देवी तं शैलमभितोसुराः ॥ १२॥
अथ दानवसिंहानां ध्वजाः पेतुर्यियासताम् ।
अशिवञ्च शिवा नेदुर्दीप्तायां दिशि संस्थिताः ॥ १३ ॥
पपात नभसो रेणुः कपोतोदरधूसरः ।
उपरिष्टाच्च सेनाया बभ्रमुर्गृध्रवायसाः ॥ १४॥
प्रतीपञ्च ववौ तेषां रजोगर्भः समीरणः ।
ररास परुषं व्योम चचाल च वसुन्धरा ॥१५॥
मथो सम्यग् - ख. । ६ आरूढां (न्) - क । ७… शा (न्) - क. । ८ देवकण्टकौ - क. । ९ वल्गुतुरङ्गमौ - क. ख. ।
पराजयनिमित्तानि बुध्यमानाः सुरद्विषः ।
अभिजग्मुः कृतान्तेन कृष्यमाणा इवावशाः ॥१६॥
आदिदेशाथ दैत्येन्द्रो मूकमारक्षिकं तदा ।
गृहाण शुल्कमिति तां ब्रूहि गत्वा सुमध्यमाम् ॥ १७॥
स गत्वा वचनात्तस्य प्रणम्योवाच कौशिकीम् ।
शुल्कं किल गृहाणार्ये दीयमानं सुरद्विषा ॥ १८॥
एवमस्त्विति सा प्रोच्य तं विसृज्य च दानवम् ।
व्यवर्धत महायोगा योगमास्थाय कौशिकी ॥१९॥
अथ तस्याः समुत्पेदु[^१०] र्गात्रेभ्यः प्रमदोत्तमाः ।
बद्धगोधाङ्गुलित्राणाः सायुधा भीमदर्शनाः ॥8.64.२० ॥
वायसी वायसास्यानां स्त्रीणां कोट्या[^११] समावृता[^१२] ।
उपका[^१३] कोकिला[^१४] स्याभिस्तावतीभिर्महाबला ॥२१ ॥
प्रचण्डा सिंहवक्त्राभिर्देवीभिरभिसंवृता ।
उग्रा[^१५] व्याघ्रमुखाभिश्च परितः परिरक्षिता ॥२२ ॥
जया च गजवक्त्राभिर्जयन्ती[^१६] च महाबला ।
देवीभिः शिखिवक्त्राभिरमेया[^१७] भिर्वृतानघा ॥२३ ॥
जयमाना[^१८]श्ववक्त्राभिर्हंसास्याभिः प्रभावृता[^१९] ।
प्रभावती च चक्राह्ववदनाभिर्महाबला ॥२४॥
शिवा गोमायुवक्त्राभिरशिवा विद्विषां रणे ।
सरमा श्वमुखीभिश्च[^२०] वृता परमदुर्जया ॥२५॥
विजया श्येनवक्त्राभिः सर्वतः परिरक्षिता ।
कङ्कास्याभिर्वृता मृत्युर्हन्त्रीभिः समरे रिपून् ॥२६॥
नियतिर्मद्गुवक्त्राभि[^२१] र्दुर्जयाभिः परैर्युधि ।
अशनिः[^२२] कुक्कुटास्याभिर्बह्वीभिरभिनादिता[^२३] ॥ २७॥
समुत्पेतु… - ख. । ११ कोट्यः - ख । १२ समाश्रिताः - ख. । १३ उलूका (?) । १४ कौशिका… - ख. । १५ उषा - क. । १६… र्महाबलः - ख. । १७ रामया - क. । १८ जयमाला - ख । १९,?. स्समावृता - क । २० सुमुखीभिश्च - ख. । २१ नियती मद्गुवक्त्राभि - क. । २२ शकुनिः - ख. । २३. .रभिपालिता - क. ।
रेवती वृषदंशा च पूतना कटपूतना ।
आलम्बा[^२४] किन्नरी षष्ठी शकुनिर्मुखमण्डिका[^२५] ॥२८॥
अलक्ष्मीरधृतिर्लक्ष्मीः पोतकी वानरी स्पृहा[^२६] ।
एताश्चान्याश्च कौशिक्याः सम्बभूवुर्महाबलाः ॥२९॥
नानावेषधराभिश्च बह्वीभिः परितो वृता ।
बिभ्रतीभिर्विचित्राणि कवचान्यायुधानि च ॥8.64.३० ॥
ससर्ज कौशिकी तूर्णं[^२७] हैमान्साङ्ग्रामिकान् रथान् ।
युक्तानश्वैर्मनोवेगैः सायुधानुच्छ्रितध्वजान् ॥३१ ॥
वाजिनः सोपकरणान् मदोन्मत्तान्[^२८] मतङ्गजान् ।
आयुधानि तनुत्राणि तूर्याणि विविधानि च ॥३२॥
उवाच च महायोगा ता देवीः[^२९] पुरतः स्थिताः[^३०] ।
देव्यः शुम्भो निशुम्भश्च भ्रातरौ देवकण्टकौ ॥३३ ॥
नेतुं मां[^३१] किल सङ्ग्रामे विजित्य रणमूर्धनि ।
आगतौ तौ बलोन्मत्तौ सहितौ दैत्यदानवैः[^३२] ॥ ३४॥
तावहं[^३३] विनिहंस्यामि शेषान् हत सुरद्विषः ।
अजराश्चामराश्चैव भविष्यथ महाबलाः ॥३५॥
इति ताभ्यो वरं दत्त्वा समादिश्य च तास्तदा[^३४] ।
देवीर्देवी महाभागा युद्धाय कृतनिश्चया[^३५] ॥३६॥
अथ सा स्वरथं महारथं[^३६] मनसाचिन्तयदच्युता तदा ।
तमुपस्थितमाशु चिन्तितं प्रददौ यं गिरिराजनन्दना ॥३७॥
ज्वलदग्निसमानवर्च्चसं परितो रत्नमयूखमालिनम् ।
पुरतः समवेक्ष्य कौशिकी सुकृतं हेममयं नभश्चरम् ॥३८॥
विविधायुधवर्मसंयुतं प्रचलत्पिङ्गसटाकलापिभिः ।
समरे जयिभिर्द्विषद्बलं[^३७] युक्तं केसरिभिर्महाबलैः ॥३९॥
अलक्ष्मीः - ख. । २५ मुखमण्डिता - क. । २६ स्मृता - ख. । २७ सिंहं (शीघ्रं?) - क. । २८ मनोन्मत्तान् - क. ख. । २९ देवी - क ख । - ३० स्थितां - क. ख. । ३१ मे - क. । ३२ शशिसूर्य (ा) इवा बभौ - ख. । ३३ तानहं - क । ३४ ततः पुनः - ख. । ३५ कृतनिश्चयाः - क. । ३६ साश्वरथं महारथा - ख. । ३७… द्विषां बलं - ख. ।
नृत्यन्मयूरेण विकीर्णभासा समुच्छ्रितेनातितरां दृढेन ।
हैमेन रत्नद्युतिभास्वरेण ध्वजप्रवेकेण विराजमानम् ॥8.64.४० ॥
जग्राह विजया छत्रं सिंही सूता तदाभवत् ।
जयन्ती च जया चास्या दधतुश्चामराण्यथ ॥४१ ॥
ततः सा बद्धकवचा विविधायुधधारिणी ।
आरुरोह रथं दिव्यं स्रुताशीर्जयमङ्गला[^३८] ॥४२ ॥
सम्पूर्णचन्द्रद्युतिनाथ मूर्ध्नि समुच्छ्रितेनातपवारणेन ।
संवीज्यमाना च विचित्रदण्डैः सुचामरैरिन्दुमरीचिगौरैः ॥४३ ॥
ततस्तास्तूर्यमाहत्य नेदुर्नादान् पृथग्विधान् ।
देव्या देव्यः सुसंयुक्ता[^३९] बभूवुश्च पुरस्सराः ॥४४॥
तेन नादेन दैत्यानां हृदयानि चकम्पिरे ।
विससर्ज शकृन्मूत्रं हस्त्यश्वञ्चासुरे बले ॥८५॥
चकम्प इव भूर्लोकश्चुक्षुभुः सागरा इव ।
विचेलुरिवशैलेन्द्राः पूरितं व[^४०] नभस्तलम् ॥४६॥
तदा तद्देवतानीकं पताकाध्वजशोभितम् ।
विरेजे विनदत्तूर्यं सितनिस्त्रिंशसङ्कुलम्[^४१] ॥४७॥
बलाकापङ्क्तिशबलं सेन्द्रचापं महास्वनम् ।
नभस्ये मासि सतडिद् वृन्दं जलमुचामिव ॥४८॥
ततो जगाम संयच्छद्[^४२] दैत्येन्द्राभिमुखं तदा ।
जवेन देवतानीकं सङ्क्षिप्येव दिशो दश[^४३] ॥४९ ॥
अथ ददृशुरनीकमागतं सुररिपवो विविधोच्छ्रितध्वजम् ।
प्रतिभयजननं महास्वनं प्रलय इवाम्बुदवृन्दमुन्नतम् ॥ 8.64.५० ॥
इति स्कन्दपुराणे शुम्भनिशुम्भयुद्धे सैन्यवर्णनं नाम चतुःषष्टितमोध्यायः