पतितः - घ. । १२० शुष्ककाष्ठमिवानलः - घ । १२१ तुष्टोस्म्यद्य - घ । १२२ स - ख. । १२३ त्वं क्व यास्यसि - ख । १२४ सर्वशः - घ । १२५ समरपालिनः - क । १२६ क्षिप्तरेण्वन्धकारे - क. । १२७.. .पादातिवृन्दे - क. । १२ न सुरसमरे (?) ।
तदनु जयति दीर्घः पीनबाहूरुपादः पृथुरुचिरसुवक्षाश्चोन्नतांसः सुनेत्रः ।
मृगपतिसमगामी तोयदध्वाननादी सुरसमरविजेता दैत्यनाथो निशुम्भः ॥ इतिः ख. पुस्तकपाठ.
दनकुलभयहन्ता दैत्यनाथोसुरेन्द्रस्तदनु जयति धीमान् पीत (न ?) बाहूरुवक्षाः ।
मृगपतिगतिलीलो दीर्घनेत्रो विशालः पृथुऽरुचिरललाटो दैत्यनाथो निशुम्भः ॥ इति घ. पुस्तकपाठः ॥
असुरविजयो नाम - घ. ।
अथ निर्जित्य समरे देवान् देवद्विषस्तदा[^१] ।
आजग्मुः सहिता विन्ध्यं शिखरालीनतोयदम्[^२] ॥ १ ॥
प्रस्थाप्य विधिवत् सर्वान् तौ तदा[^३] दैत्यदानवान् ।
रेमाते सहितौ विन्ध्ये किन्नरोद्गीतकन्दरे । २ ॥
आरक्षिकस्तयोस्तत्र मूको नाम महासुरः ।
अपश्यच्छिखरे देवीम्[^४] ज्वलन्तीमिव[^५] तेजसा ॥३ ॥
पुण्यलक्षणसम्पूर्णां पुण्याभरणभूषिताम्[^६] ।
आगतां तत्र तां सिद्धिं पुण्यानां कर्मणामिव ॥४॥
अथ मूकस्तदा देवीं विस्मयोत्फुल्ललोचनः ।
दृष्ट्वा जगाम मनसा शुम्भं दानवसत्तमम् ॥५ ॥
यथेयं चारुसर्वाङ्गी प्रधाना सर्वयोषिताम् ।
तथा पुंसां प्रधानोसौ[^७] शुम्भो दैत्येन्द्रचन्द्रमाः ॥ ६॥
विस्तीर्णवक्षसस्तस्य[^८] विशालजघनस्थला ।
अनुरूपा भवेत् पत्नी दीर्घाक्षस्यासितेक्षणा ॥७॥
इति सञ्चिन्त्य मनसा तामुवाच[^९] सुमध्यमाम् ।
का त्वं त्रस्त[^१०] समुद्भ्रान्तसृगशाव[^११] विलोचने[^१२] ॥८॥
कः पिता तेनवद्याङ्गि का वा[^१३] माता तवानघे ।
किमर्थं वा वसस्यत्र[^१४] गिरौ दानवसेविते ॥९॥
एवमुक्ताश्च मूकेन महायोगा सुरेश्वरी ।
विज्ञाय मनसा कालं प्राप्तं शुम्भनिशुम्भयोः ॥ 8.63.१० ॥
स्मितपूर्वमिदं प्राह वाक्यं वाक्यविशारदा ।
मानुषीं मां विजानीहि गिरावस्मिन् कृतालयाम् ॥ ११ ॥
आत्रेयः स्वर्गतो विद्वान् पिता चक्रचरो[^१५] मम ।
विहाय मां पुरो बालां माताप्यनुगता पतिम् ॥ १२ ॥
स्सदा - घ । २ शिशिरे नीलतोयदम् - ख., शिखरं नीलतोयदम् - घ. । ३ पुनः संस्थाप्य विधिवत् सर्वांस्ते- घ. । ४ रम्ये - क । ५ स्वेन । - ख घ॥ ६ दिव्याभरणभूषिताम् - ख । ७ प्रधानोयं - घ. । ८ वपुषस्तस्य - घ. । ९ तां वाचमिदमाह - घ. । १० त्वमत्र - घ. । ११ शावक - घ । १२ लोचना - घ. १३ का च - घ, माता वा कस्तव - ख. । १४ - किमर्थमागतास्यत्र - ख. । १५ चक्रधरो - घ ।
आज्ञप्तास्मि तदा मात्रा प्रदायास्त्राणि दानव ।
वस विन्ध्ये गिरौ रम्ये योगं[^१६] च कुरु सर्वदा ॥१३ ॥
साहं वचनमार्यायाः[^१७] पालयन्ती नगोत्तमे ।
वसामि सिंहशार्दूल मातङ्गमृगसेविते ॥१४॥
इति देव्या वचः श्रुत्वा मूकः[^१८] संहृष्टमानसः ।
जगाम दानवश्रेष्ठं शुम्भं द्रष्टुं कृतत्वरः ॥ १५॥
अथ शुम्भं समासाद्य हर्षेणोत्फुल्ललोचनः ।
आचचक्ष इवाकारैरपूर्वं रत्नदर्शनम् ॥ १६॥
तं दृष्टवा विस्मयोत्फुल्लं रक्तायतविलोचनः[^१९] ।
मूकमाह तदा शुम्भः कस्मात्तुष्टोसि दानव ॥ १७॥
एवमुक्तः स शुम्भेन मूको वचनमब्रवीत् ।
अपूर्वमद्य दृष्टं मे स्त्रीरत्नं शिखरे गिरेः[^२०] ॥१८॥
न तादृशी मनुष्येषु न देवेष्वपि[^२१] सुन्दरी ।
न रक्षस्सु[^२२] न यक्षेषु न गन्धर्वपुरेषु वा ॥ १९॥
न नागेषु न सिद्धेषु न दैत्यपतिवेश्मसु ।
दृष्टपूर्वा मया राजन् यादृशी सा[^२३] वराङ्गना ॥8.63.२०॥
का त्वं कस्य किमर्थं वा वससीह गिराविति[^२४] । पृ
ष्टाब्रवीन्मया वाक्यमात्रेयदुहिता ह्यहम् ॥२१ ॥
वसामि चात्र[^२५] विन्ध्यस्य शिखरे मातुराज्ञया ।
इति भर्त्तुः समाख्याय विरराम स दानवः[^२६] ॥ २२॥
अथ शुम्भस्य हृदये मूकस्य वचसा सह ।
कामोवकाशमकरोद्विनाशाय सुरद्विषाम् ॥२३ ॥
ततः प्रोवाच दैत्येन्द्रः कामाकुलितमानसः[^२७] ।
गच्छ मूक मदर्थे तां[^२८] प्रलोभय सुमध्यमाम् ॥२४॥
योग्यं - घ, योज्या - क, द्यां ख। १७ माद्ययाः घ। १८ ऋतः (दूतः?) - ख । १९ विस्मयोत्फुल्लरक्तान्तायतलोचनम - घ । : २० गिरौ - क, ख । २१ देवेष्वस्ति - क. । २२ राक्षसेषु - घ. । २३ यादृशा तादृशा - क ख. । २४ गिरावपि - क ख. । २५ चित्रे - घ. । २६ विरेमे मूकदानवः - क. ख. घ । २७ समाकुलितमानसः - घ. । २८ त्वं - ख, न - क. ।
एवमुक्तः स शुम्भेन द्रुतमुत्थाय दानवः ।
प्रययौ यत्र सा देवी प्रागनेनाभिलक्षिता ॥२५॥
तं दृष्टवा दानवं देवी कृताञ्जलिमुपस्थितम् ।
किमर्थमागतोसीति मूकं पृष्टवती तदा ॥२६॥
एवं पृष्टोथ कौशिक्या प्राहेत्थं मूकदानवः ।
आर्ये दूतोस्मि शुम्भस्य त्वत्समीपमुपागतः ॥२७॥
अथ देवी स्मितं कृत्वा प्रसन्नमभिवीक्ष्य तम् ।
इत्थमाहागतं दूतं[^२९] किं स आहा[^३०] सुरेश्वरः ॥२८॥
इति पृष्टस्तदा देव्या प्राह मूकः कृताञ्जलिः ।
आर्ये दैत्येश्वरः शुम्भः पत्नीत्वेन वृणोति ते ॥२९॥
तस्य दानवसिंहस्य जेतुः शक्रस्य संयुगे ।
भवाग्र्या सर्वपत्नीनां पत्नी मृगविलोचने ॥8.63.३० ॥
एवमुक्ता तदा तेन विहस्याहामरेश्वरी[^३१] ।
स्वबाहूनवलोक्येत्थं युद्धशुल्का[^३२] मवेहि माम् ॥३१॥
मां विनिर्जित्य दैत्योसौ पत्नीं वै कर्तुमर्हति ।
मया वा निहतो[^३३] यातु काकगोमायुभक्ष्यताम्[^३४] ॥३२॥
एवमुक्तवतीं देवीमाह मूको हसन्निव ।
पत्या दानवदैत्यानां किं ते युद्धेन भामिनि ॥३३॥
क्रुद्धस्य यस्य[^३५] समरे न शशाक निरीक्षितुम् ।
मुखमैरावतस्कन्धगतोपि बलवृत्रहा ॥३४॥
श्रुत्वा तद् वचनं तस्य प्राह देवी स्मयन्निव[^३६] (?) ।
तृणानि मम दैत्येन्द्राः सर्वेपि रणमूर्धनि ॥३५॥
निवेदयस्व शुम्भस्य गच्छ त्वं दानवाधम ।
दौत्येनासि यतः प्राप्तो मयातो[^३७] न विहन्यसे ॥३६॥
किम्मा… - ख. । ३० किमाहासौ - क, दानवोसौ - ख. । ३१ महेश्वरा - क.,… मरेश्वरा - ख. । ३२ स्वान् बाहूनवलोक्याहमवैहि - क. । ३३ विनिहतो - ख. । ३८ भोज्यताम् - क. ख । ३५ तस्य - क. ख, । ३६ स्मयादिव (?) । ३७ त्वं - क ।
अथ प्रणम्य तां मूको ययौ पार्श्वं सुरद्विषः ।
अनुज्ञातश्च तेनासावाख्यातुमुपचक्रमे ॥३७॥
सा मया प्रार्थिता कन्या त्वदर्थे[^३८] दानवोत्तम ।
उवाच युद्धशुल्कास्मि जित्वा मां नेतुमर्हसि ॥३८॥
भूयश्चोक्तवती राजन् गर्वमालम्ब्य साङ्गना ।
तृणानि मम सङ्ग्रामे दैत्या इति सविस्मया ॥३९॥
तत्तदा वचनं तस्या मूकेनोक्तं निशाम्य सः ।
क्रोधाद्दर्पाच्च कामाच्च ममृषे नासुरोत्तमः[^३९] ॥8.63.४०॥
अथोत्थाय सभां रम्यामगच्छद्दानवाधिपः ।
स्फाटिकस्तम्भनिर्व्यूहां[^४०] विचित्रमणितोरणाम्[^४१] ॥४१ ॥
तस्यां[^४२] सिंहासने हैमे स्वास्तीर्णे महति स्थिरे ।
निषसाद महाबाहुः सुखायां[^४३] वरुणो यथा ॥४२॥
अनु तस्य निशुम्भोपि निषसाद वरासने ।
रत्नाङ्गदांशुनिवहच्छुरितोरःस्थलस्तदा ॥४३॥
तयोरनु महासत्वा विविशुर्दैत्यदानवाः ।
दरीं हिमवतो रम्यां वारिश्यामा[^४४] इवाम्बुदाः ॥४४॥
अथ तेषूपविष्टेषु दैत्यदानवराजसु ।
प्रोवाच वचनं शुम्भो घनस्तनितनिस्वनः ॥४५॥
आरक्षिको गिरो विन्ध्ये मदीयो मूकदानवः ।
विन्ध्यस्य शिखरे कन्यां दृष्टवान् चारुरूपिणीम् ॥४६॥
युद्धशुल्काहमित्याह न मदर्थेनेन[^४६] सार्थिता[^४७] ।
तृणानि मम दैत्येन्द्रा भूयश्चोक्तवती किल ॥४७॥
जित्वा तां प्रसभं कन्यां समरे गर्वशालिनीम् ।
विचेष्टमाना[^४८] मवशामद्यैवानेतुमुत्सहे ॥४८॥
त्वदर्थं - ख. । ३९ क्रोधो दर्पश्च कामश्च समं सर्वे (र्वम्) समुत्थितम् - ख. । ४० निर्व्यूहे - क, निर्यूहे ख. । ४१… मणितोरणे - क.,… णं - ख. । ४२ तस्मिन् - ख. । ४३ भूषितो - ख. । ४४ करिश्यामा - क, सविद्युतः - ख । ४५ युद्धशौल्किकमित्याह - ख । ४६ मदर्थेनेह - ख. । ४७ श्राविता - क., सा वृता - ख. । ४८ विवेष्टमाना क, विवेष्ट्यमाना - ख. ।
अथ तस्य वचः श्रुत्वा शम्भुर्नाम महासुरः ।
प्रहस्योच्चैर्महाबाहुरिदमाहासुरेश्वरम् ॥४९॥
वामप्रकृतयः सर्वाः स्वभावेन वराङ्गनाः ।
परिसान्त्व्या सकृद् राजन्[^४९] तां त्वमादातुमर्हसि ॥8.63.५०॥
श्रुत्वाथ वचनं शम्भोर्मयो दानवसत्तमः ।
प्रोवाचाभिनवोत्फुल्लनीलनीरजलोचनः ॥५१॥
आकारः कः पुनस्तस्याः का वा चेष्टा सुराधिप[^५०] ।
पार्श्वस्थानि च कान्यस्याः सदोपकरणानि वा ॥५२॥
इत्युक्तवति दैत्येन्द्रे मये मत्तेभविक्रमे ।
अथ दैत्यपतिर्मूकं पार्श्वस्थं समचोदयत् ॥१३ ॥
यं प्रश्नं पृष्टवाँस्तत्र मयो मतिमतां वरः ।
मूकस्तु तं तदा सर्वमाख्यातुमुपचक्रमे ॥५४॥
सदा सुसंस्थिता व्यक्षा करालदशनानना ।
अष्टबाहुर्घनश्यामा सुनासा वल्गुनिस्वना[^५२] ॥५५॥
सार्श्वस्थानि सदा तस्याः सर्वप्रहरणानि[^५३] च ।
तनुत्राणि च मुख्यानि चित्राण्याभरणानि च ॥५६॥
अत्यादित्यं वपुस्तस्याः कान्तिश्चातिनिशाकरा[^५४] ।
इत्याख्याय तदा मूको विरेमे दैत्यसंसदि ॥५७॥
अथ दीर्घं विनिःश्वस्य तदा मय महासुरः ।
प्रोवाच सदसि[^५५] स्वन्तं वचो वचनकोविदः ॥५८॥
नूनमुत्पादिता देवैः कृत्या युधि पराजितैः ।
विन्ध्यं महीध्रमायाता विनाशाय सुरद्विषाम् ॥५९॥
तदलं ते तया राजन् सन्ति कन्याः सुमध्यमाः ।
दीर्घाक्ष्यश्चारुसर्वाङ्ग्यो दैत्यदानववेश्मसु ॥8.63.६० ॥
गर्व - क. । ५० वद मूक महामते - घ- । ५१ सुरया - ख. । ५२ वल्गुभाषिणी - ख. । ५३ सर्वप्रकरणानि - क., सदोपरकराणि - घ. । ४ निशाकर - क ख. । ५५ वचसि - क. ख. ।
सम्यगाहृत्य ता राजन्ननुरूपाः कलस्वनाः ।
यथेष्टं क्रीड सततं प्रासादोदरसंस्थितः[^५६] ॥६१ ॥
एवमुक्ते तदा वाक्ये मयेनासुरसंसदि ।
प्राह वाक्यं तदा शुम्भो विहस्येत्थं महासुरः ॥६२॥
यदि सा दैवतैः[^५७] सृष्टा कृत्या[^५८] दानवशासने ।
अहत्वा दानवानाशु तदा सा न विरंस्यते[^५९] ॥६३॥
यावदेव न[^६०] कृत्यास्मानभियुङ्क्ते कृतोद्यमा ।
तावदेव प्रसह्याशु तां वशे कर्तुमर्हथ ॥६४॥
ततोनुमेनिरे सर्वे दैत्यदानवसत्तमाः ।
वचनं दैत्यराजस्य कालेनाभिप्रचोदिताः ॥६५॥
अथ सदसि समस्तान् दैत्यसिंहाँस्तदानीं
त्रिदशपतिविजेता वाक्यमेतद् विहृत्य[^६१] ।
उदपतदवलम्बिस्वच्छशुभ्रोरुहारो
नवजलभरनम्रः प्रावृषीवाम्बुवाहः[^६२] ॥६६॥
इति स्कन्दपुराणे (महदर?) संवादे त्रिषष्टितमोध्यायः