सनत्कुमार उवाच
अथ निर्जित्य दैत्येन्द्रौ दिवम्[^१] विक्रमशालिनौ ।
जग्मतुः सहितौ दैत्यैर्विन्ध्यं तुङ्गशिलोच्चयम् ॥१ ॥
सम्पूज्य विधिवद्दैत्यान् प्रस्थाप्य भ्रातरौ तदा ।
रेमाते विन्ध्यपादेषु फुल्लपादपसानुषु ॥२॥
दैत्याभ्यामथ विज्ञाय ब्रह्मा सुरपराभवम् ।
विचिन्त्यैकमनाः सम्यग् वधोपायं तयोस्तदा ॥३ ॥
तिलं तिलं समादाय रत्नेभ्यश्चारुदर्शनाम् ।
ससर्ज कमनीयाङ्गीमङ्गनां वल्गुनिस्वनाम् ॥४॥
तिलोत्तमेति तस्याश्च नाम चक्रे पितामहः ।
दिव्यानामपि सा स्त्रीणामुपमेव[^३] तदा बभौ ॥५॥
अतिसम्पूर्णवक्त्राम्[^४] तामतीन्दीवरलोचनाम् ।
अतिहंसस्वनालापामतिमत्तेभगामिनीम् ॥६॥
लक्ष्मीर्निरीक्ष्य सव्रीडा पङ्कजेनावृणोन्मुखम् ।
वपुर्भिश्चैव चार्वङ्ग्यास्त्रेपुरुद्यानदेवताः ॥७॥
देवान् - घ. । २… मनङ्गां - क. । ३… मतिरूपा : - च. । ४ सिन्दूरवक्त्रां - घ. । ५. स्स्वैश्च - क ख. ।
तामुत्पाद्य ततो धाता[^६] पाकशासनमब्रवीत् ।
शम्भुना मदनः पूर्वं निर्दग्धो लोचनाग्निना[^७] ॥८॥
तस्य प्रोद्भूतये[^८] याम सर्वे[^९] पार्श्व पिनाकिनः ।
तमाराध्य ततः[^१०] कुर्म्मो यथा स्यान्मदनः पुनः ॥९॥
अथ ते ब्रह्मणा सार्धं तया चासुरविद्विषः ।
जग्मुर्विन्ध्यगिरेः शृङ्गं यत्रास्ते भगवान् हरः ॥8.62.१० ॥
तत्र शर्वमपश्यन्तो दध्युस्ते सुरसत्तमाः ।
गृणन्तः प्रणवं सर्वे शिवसन्यस्तचेतसः ॥ ११ ॥
अथ लिङ्गं समुत्तस्थौ तेषां मध्ये दिवौकसाम् ।
सुसंहतं[^११] सुसंश्लिष्टं समूहस्तेजसामिव ॥१२॥
उच्चचार तदा तस्मादुच्चैर्वाग्[^१२] विशदाक्षरा ।
निर्दग्धोयं मया पापस्तपस्विजनकण्टकः ॥ १३ ॥
युष्मदर्थे विमोक्ष्यामि कार्यं वोयं[^१३] करिष्यति ।
करोतु परितश्चेयं मां प्रदक्षिणमङ्गना ॥ १४॥
एवमुक्ता महेशेन सा चकार प्रदक्षिणाम्[^१४] ।
सन्निधायाञ्जलिं मूर्ध्नि रक्तेन्दीवरकोमलम्[^१५] ॥१५॥
नेमे[^१६] मूर्तिं तदा पूर्वां निस्ससार ततो मुखम्[^१७] ।
त्र्यक्षं प्रसन्नबिम्बोष्ठममितद्युति कान्तिमत् ॥ १६॥
अथ तेजो विनिःसृत्य[^१८] वदनेन्दोः पिनाकिनः ।
तां विवेशाङ्गनामाशु[^१९] शरद्भास्करभास्वरम् ॥१७॥
अथ सा दक्षिणां मूर्त्तिं प्रणेमे चारुदर्शना ।
निर्जगाम तदा दीप्तं मुखं सुरगुरोस्ततः ॥१८॥
वारिभारालसाम्भोदरुचिमद्[^२०] भीमनिस्वनम् ।
करालदशशनोद्भासि दीप्तरक्तान्तलोचनम् ॥ १९ ॥
तां समुत्पाद्य धाता तु - घ. । ७ नेत्रवह्निना - घ । ८ प्रोद्धृतये - घ । ९ यामस्सर्वे - क. घ. । १० तथा - क. ख । ११ सुसङ्घातं - क ख, । १२ दुर्बोध… - ख । १३ यः - क. ख. । १४ प्रदक्षिणं - क घ. । १५… लोचनं - घ. । १६ रेमे - घ. । १७ तदा - क. ख । १८.. .भिनिःसृत्य - घ. । १९ आविवेशाङ्गनामाशु - घ. । २०… धारालसाम्मोदरुचिरं - घ. ।
अत्यादित्यं ततस्तेजो मुखान्निःसृत्य दक्षिणात् ।
दृश्यमानं सुरैस्सर्वैर्विवेश प्रमदोत्तमाम् ॥ 8.62.२० ॥
प्रणेमे सा ततस्तस्य पश्चिमां मूर्त्तिमञ्जसा ॥
निश्चक्राम ततस्तस्या[^२१] मुखं त्र्यक्षमनुत्तमम् ॥ २१ ॥
ततस्तेजो विनिःसृत्य मुखेन्दोर्मदनद्विषः[^२२] ।
दीप्यमानं विवेशाशु तामेव प्रमदोत्तमाम् ॥२२ ॥
उत्तरां मूतिमागत्य प्रणेमे सा कृताञ्जलिः ।
तस्या[^२३] मुखं सुसम्पूर्णं सुप्रसन्नं विनिर्ययौ ॥२३ ॥
तस्मात्तेजो विनिःसृत्य सूर्यदीप्तानलप्रभम्[^३४]।
विवेश प्रमदामाशु तामेव वरवर्णिनीम् ॥२४॥
मुखानि देवदेवस्य सुराणामर्थसिद्धये ।
चत्वारि निर्ययुर्दिक्षु न तस्या रूपविस्मयात् ॥२५॥
आत्मसंस्थं पुरा तेजो दग्ध्वा यन्मदनं कृतम् ।
अनुजग्राह देवेशस्तेन तां प्रमदोत्तमाम् ॥३६॥
अब्रवीच्च सुरान् सर्वाँस्तत्रेदं वचनं शिवः ।
यस्मादियं मां युष्मांश्च मण्डलेन प्रदक्षिणम् ॥२७॥
चक्रे सर्वान् सुरश्रेष्ठाः स्थानं तस्मादिदं मम ।
भविष्यति गिरौ विन्ध्ये मण्डलेश्वरसञ्ज्ञितम् ॥ २८ ॥
मण्डलेश्वरमेतच्च यः करोति प्रदाक्षिणम् ।
प्रदक्षिणीकृता तेन सप्तद्वीपा मही भवेत्[^२५] ।
सान्निध्यं सर्वदा ह्यस्मिन् करिष्यामि वरप्रदः[^२६] ॥२९॥
मण्डलेश्वरमीशानं दृष्टवा तु प्रयतो नरः ।
अश्वमेधफलं प्राप्य मम लोकमवाप्स्यति ॥8.62.३० ॥
नैकसिद्धसमाकीर्णं किन्नरोरगसेवितम् ।
युष्माभिः सर्वदा युक्तं भविष्यति मम प्रियम् ॥ ३१ ॥
ततस्तस्मान्मुखं - घ. । २२… र्वदनत्विषः - क. । २३ तस्मान् - घ. । २४ सूर्यानलप्रभामिव - घ. । २५ इति पद्यं दृश्यते घ. पुस्तके, न तु मण्लेश्वरमीशानमिति । २६ वरप्रदम् - क. ।
एषा तिलोत्तमा चैव यदर्थं सुरसत्तमाः ।
सृष्टा युष्माभिरव्यग्रा तद्वः कार्यं करिष्यति ॥३२ ॥
एतामवेक्ष्य तौ दैत्यौ मोहितौ मदनार्दितौ ।
अन्योन्यं यास्यतो नाशमेषा चैव भविष्यति ॥३३ ॥
अजरा चामरा[^२७] चैव सर्वाप्सरवरा शुभा ।
पूज्या चेह सदा स्थाने वन्द्या चैव भविष्यति ॥३४॥
सनत्कुमार उवाच
एवमुक्ते[^२८] महेशेन सुराः सुप्रीतचेतसः ।
तां स्त्रियं प्रेषयामासु[^२९]र्वधार्थं दैत्ययोस्तदा ॥ ३५॥
सहायान् प्रददौ चास्यै ब्रह्मा कमलवाहनः ।
क्रोधं दर्पमृतूत्सर्वान्[^३०] मात्सर्यं मदमेव चः[^३१] ॥३६॥
कालं मृत्युं च मोहञ्च विषादञ्चामितद्युतिः ।
अथ सम्प्रेषयित्वा तु देवतास्तां तिलोत्तमाम् ॥३७॥
आत्मानं पिण्डयामासुर्देवास्ते सर्व एव हि ।
कः कः कतम आयात इहाद्येति सुरर्षभाः ॥ ३८॥
ततो मध्ये स्थितं नत्वा भूयस्ते परमेश्वरम् ।
पिण्ड्यमानेषु देवेषु यस्मान्मध्ये समास्थितः ॥३९॥
पिण्डारेश्वर इत्येव तत्रासावभवत्ततः[^३२] ।
पिण्डारेश्वरमीशानं दृष्ट्वा भक्त्या तु[^३३] मानवः ॥8.62.४० ॥
सर्वाशुभविनिर्मुक्तो[^३४] देहभेदे गणो भवेत् ।
पृथिव्यां यानि लिङ्गानि[^३५] चतुर्मुखायतनानि च[^३६] ॥४१ ॥
ह्यमरा - घ । २८ एवमुक्ता - घ । २९ शंसयामासु - घ. । ३० क्रोधदर्पादिकान् सर्वान् - घ. । ३१ रागं मदनमेव च - क. ख । ३२ तदा - घ. । ३३ च - घ. । ३४ शुभाशुभविनिर्मुक्तो - घ. । ३५ सर्वाणि - क. ख । ३६ चतुर्मुखानि मे सुराः - घ ।
तानि सर्वाणि दृश्यानि इदं दृष्ट्वा भवन्ति हि ।
ततस्ता देवताः सर्वाः कृत्वा कार्यमतन्द्रिताः ॥४२॥
प्रणस्य(म्य) परमेशानं स्वानि सद्मानि भेजिरे ।
सापि चारुमुखापाङ्गी पीनोन्नतपयोधरा[^३७] ॥४३ ॥
आक्षिपन्तीव[^३८] चेतांसि सुराणां विभ्रमैस्तदा[^३९] ।
प्रतस्थे दक्षिणामाशामासाते यत्र दानवौ ॥४४॥
विन्ध्यपादेषु रम्येषु विहगोद्गीतसानुषु ।
भ्रमन्तावथ दैत्येन्द्रौ स्थितां ददृशतुस्तु ताम्[^४०] ॥४५॥
अशोकशाखामुत्फुल्लामालम्ब्योन्मत्तषट्पदाम् ।
वसानामंशुकं चित्रमाबद्ध[^४१] मणिमेखलाम् ॥४६॥
गायन्तीं मधुरं रक्तं समं कलमनाकुलम्[^४२] ।
तारमन्द्रातितारैश्च स्वरैः सम्यगलङ्कृतम् ॥४७॥
साक्षादिव तपःसिद्धिं श्रियं मूर्त्तिमतीमिव ।
प्राप्तामिव रतिं साक्षात् कान्तिं चान्द्रमसीमिव ॥४८॥
ममैवेयं[^४३] ममैवेय[^४४] मिति तौ दानवोत्तमौ[^४५] ।
अभिसृत्य तु तौ[^४६] देवीं पाण्योर्जगृहतुः समम्[^४७] ॥४९॥
अथ दर्पमदक्रोधमात्सर्याविष्टचेतसौ ।
तौ चुक्रुधतुरत्यर्थमन्योन्यस्यासुरोत्तमौ ॥ 8.62.५० ॥
तयोर्गदेन्तकः[^४८] कालो मृत्युश्चाविविशुर्द्रुतम् ।
प्रगृह्याथ गदे क्रुद्धावन्योन्यमभिजघ्नतुः ॥ ५१ ॥
अथैकैकेन[^४९] तौ तत्र प्रहारेणाभिताडितौ ।
विषण्णौ भिन्नसर्वाङ्गौ[^५०] शिवशापविमोहितौ[^५१] ॥५२ ॥
पीनोत्थितपयोधरा - क. ख । ३८ आपिक्षन्ती च - क. घ. । ३९ विद्रुमैस्तदा - घ । ४०… स्ततः - घ. । ४१.. मालम्ब्य (म्ब) - क,… मानस्या - घ । ४२ समदकगुण्या - घ. । ४३ ममैवैषा - घ. । ४४ ममैवेति - घ. । ४५ दानवौ रूपमोहितौ - घ, तौ तदा दानवोत्तमौ - घ. । ४६ च तां - घ., शुभां - क । ४७ स्वयं - क. । ४८ तयोर्दं (र्दे) हेन्तकः - घ । ४९ यथ त्वैकेन - ख. । ५० विषण्णास्धितसर्वाङ्गौ क., विसञ्ज्ञौ - घ. । ५१ शिरसा परिमौहितौ - घ. ।
विसञ्ज्ञौ पतितौ भूमौ छिन्नमूलाविव द्रुमौ ।
अथ निर्ययतुस्तत्र[^५२] कामोपहतचेतसौ ॥५३॥
आत्मानौ सह शुक्रेण तयोर्दानवमुख्ययोः ।
तौ तदा[^५३] निर्गतौ तत्र तयोर्जीवौ दुरात्मनोः ॥५४॥
बलिनौ चारुसर्वाङ्गौ बालावाशु बभूवतुः ।
एकस्तत्राब्रवीद्बालः शुम्भोहं द्विषतामिति ॥५५॥
निशुम्भोप्यहमन्यस्तु बालस्तत्रावदत्तदा ।
अथ विन्ध्यः[^५४] समासाद्य बालौ तावमितद्युती ॥५६॥
आदिदेशात्मनः पत्नीं पाहि त्वं बालकाविति ।
ववृधातेथ तौ तत्र दानवेन्द्रसुतावुभौ ॥५७॥
कृष्णपक्षक्षये यद्वद् युगपच्छशिसागरौ[^५५] ।
बुद्ध्वा तौ च तदा जन्म[^५६] दानवाभ्यामरिन्दमौ ॥५८॥
तपश्चेरतुरत्युग्रं[^५७] पर्णाम्बुपवनाशनौ ।
तपसाराधितस्ताभ्यां तत्रागत्याब्रवीत्प्रभुः ॥५९॥
तुष्टास्मि युवयोः पुत्रौ वरं किं'५८ वा ददान्यहम्[^५९] ।
वव्राते तौ वरं वीरावजय्या[^६०] वध्यतां सदा ॥8.62.६०॥
प्रार्थनां तां तयोः श्रुत्वा प्रत्युवाच पितामहः ।
अवश्यं पुत्रयोरेष्यं मरणं येनकेनचित् ॥६१॥
सुरेभ्योन्यत्र दैत्येन्द्रावमरत्वं न विद्यते ।
इत्युक्तवन्तं ब्रह्माणं वव्राते दानवौ वरम् ॥६२॥
उभावपि[^६१] सुनिश्चित्य सम्प्रहृष्टतनूरुहौ ।
जगन्मातुश्च[^६२] या कन्या विना तस्याः पितामह ॥६३॥
मा[^६३] भूतामावयोर्देव सदा मृत्युपराजयौ ।
एवमस्त्विति तौ प्रोच्य दैत्येन्द्रतनयावुभौ ॥६४॥
निर्ववतुस्तत्र - घ. । ५३ ततस्तौ - घ । ५४ विन्ध्यं - ख घ । ५५. च्छणिभास्करौ - क. ख., … त्सिन्धुसागरौ - घ. । ५६ जग्मुर् - घ । ५७ तपश्चरतुरत्युग्रं - घ. । ५८ कं (?) । ५९ ददाम्यहं - क. ख. । ६०… वजेया - ख । ६१ हतावपि - घ- । ६२ जगन्मातेव - घ,… न्माते च - क., जगत्पते - ख. । ६३ न - ख. ।
विश्वस्य जगतः स्रष्टा तत्रैवान्तरधीयत ।
अथ तौ तपसस्तीव्राद्विरम्य कृतमङ्गलौ॥६५॥
मौलिनौ[^६४] बद्धकवचौ[^६५] हाराङ्गदविभूषितौ ।
हरिचन्दनदिग्धाङ्गौ पीतकौशेयवाससौ ॥६६॥
विन्ध्यप्रस्थेषु रम्येषु चेरतु[^६६]र्दानवोत्तमौ ।
पितामहाद् वरप्राप्तिं श्रुत्वा शुम्भनिशुम्भयोः ॥६७॥
आजग्मुर्दानवा हृष्टाः पातालतलवासिनः ।
शम्भुर्मयो घनः केशिर्नरको नमुचिर्द्रुमः ॥६८ ॥
अन्ये च कोटिशो दृप्ता हतशेषाः सुरद्विषः ।
विन्ध्यप्रस्थे निषेदुस्ते समेताः सर्वदानवाः ॥६९॥
नानाद्रुमलतागुल्मविकीर्णकुसुमोत्करे[^६७] ।
धन्विनो बद्धनिस्त्रिंशाश्चित्राभरणभूषिताः ॥8.62.७० ॥
सेन्द्रचापास्तडित्वन्तो नभसीव बलाहकाः ।
अथोवाच मयस्तत्र दानवो दानवोत्तमौ ॥७१ ॥
पितृभ्यां युवयोर्भुक्तं त्रैलोक्यमखिलं पुरा ।
युवाभ्यामधुना दैत्यो कस्मान्नादीयते पुनः ॥७२॥
समेतानमरान्[^६८] सर्वान्निर्जित्य रणमूर्धनि ।
ये सहाया हि वां पित्रो[^६९] र्बभूवुः सुरविद्विषः ॥७३ ॥
त एवामी बलोन्मत्ताः सहाया युवयोर्युधि ।
इत्युक्तवति दैत्येन्द्रे मये शुम्भो महासुरः ॥७४॥
निशुम्भस्य मुखं प्रेक्ष्य वाक्यमित्थं तदाब्रवीत् ।
भूर्लोकमखिलं दैत्या युष्माभिः सह साम्प्रतम् ॥७५॥
संविभज्य सुरान्सर्वाञ्जेष्यामो रणमूर्धनि ।
जम्बूद्वीपं स्वयं सोथ जग्राहासुरसत्तमः ॥७६ ॥
भौमिनौ - ध. । ६५ बद्धकेयूरौ - घ. । ६६ चरतु.. - घ. । ६७.. कीर्णे विस्तीर्णकुसुमोत्करे - ख. । ६८ … व्रमरान् - घ. । ६९ पुत्रौ - ख. घ. ।
शाकद्वीपं निशुम्भाय ददौ भ्रात्रे कनीयसे ।
शाल्मलिद्वीपगोमेदौ[^७०] दानवेभ्यो ददौ प्रभुः ॥७७॥
क्रौञ्चद्वीपकुशद्वीपौ दैत्येभ्यः प्रददौ च सः ।
दैत्येन्द्रः पुष्करद्वीपं भार्गवाय न्यवेदयत् ॥७८॥
एवं प्रतिविभज्याशु[^७१] भूर्लोकमखिलं तदा ।
इज्याञ्जलिनमस्कारान् यज्ञान् सर्वा[^७२]श्च सत्क्रियाः[^७३] ॥७९॥
आच्छिद्य दैवतेभ्यस्ते जगृहुर्दैत्यदानवाः ।
बभूवाथ ततो यज्ञः कश्यपस्य[^७४] महात्मनः ॥8.62.८० ॥
आगत्य तं[^७५] तदा यज्ञं ममृदुः[^७६] सुरशत्रवः ।
आधिपत्यं हि नः कृत्स्ने[^७७] भूर्लोके कश्यपाधुना ॥८१ ॥
सर्वावस्थासु यज्ञे[^७८]स्मिन्नस्मान् त्वं यष्टुमर्हसि ।
एवमुक्तस्ततो दैत्यैर्मारीचः कश्यपस्तदा ॥८२॥
गम्भीरमर्थवद्वाक्यमुवाचेत्थं स्मयन्निव ।
त्रैलोक्यमात्मनः[^७९] कृत्वा जित्वा सर्वामरान् रणे ॥८३ ॥
यज्ञभागाँस्ततो दैत्याः सर्वानादातुमर्हथ ।
एवमुक्तास्तदा तेन दैत्यदानवसत्तमाः ॥८४॥
बलं सर्वं समादाय[^८०] कृत्वा साङग्रामिकीः[^८१] क्रियाः ।
प्रशस्तेषु कृताचारा मुहूर्त्त[^८२] र्क्षदिनेषु ते ॥८५॥
रथैर्नागैस्तुरङ्गैश्च निर्ययुर्दैत्यदानवाः ।
पृष्ठतः पुरतः सम्यक् पार्श्वयोरुभयोरपि ॥८६॥
विधाय रक्षो संयत्ता ययुर्देवान् जिगीषवः ।
तेषामागमनं ज्ञात्वा द्विषतां पाकशासनः ॥८७॥
संहतानां[^८३] सुसंयत्तो[^८४] युद्ध्वा नाकं जिगीषताम्[^८५] ।
विधिं विधाय स्वपुरे[^८६] समस्तं दौर्गकर्मिकम् ॥८८॥
शाल्मलिप्लक्षद्वीपौ च (?),… गोमेया (?) - ख. ॥ ७१ प्रतिविभज्याथ - घ. । ७२ सर्वां - क. । ७३ सत्क्रियां - क. । ७४ काश्यपस्य - क । ७५ तु - घ. । ७६ सङ्गृह्य - घ- । ७७ कृत्स्नं - ख. घ. । ७८ तस्मात्त्वं दानवान् - घ । ७९ मन्विलम्? - घ । ८० समानाय्य - घ. । ८१ सङ्ग्रामिकीः - क. । ८२ मूहूर्ते - ख. । .८३ सङ्घातानां - ख. । ८४ दानवानां - घ । ८५ योधानां विजिगीषताम् - घ. । ८६ समरे - घ. ।
पुण्येषु[^८७] तिथिनक्षत्र[^८८] -मुहूर्त्त[^८९] करणेषु सः[^९०] ।
मुनीन् विधिवदभ्यर्च्य नमस्कृत्वा पिनाकिने ॥८९॥
सार्धं सुरगणैः सर्वेर्निर्ययौ कृतमङ्गलः ।
हिमवच्छिखराकारं चतुर्दन्तमनेकपम् ॥8.62.९० ॥
आरुह्यैरावतं शश्वन्मदतोयौघवर्षिणम् ।
महताहैमदण्डेन[^९१] रत्नांशुपरिवेषिणा ॥९१ ॥
उच्छ्रितेनातपत्रेण ध्रियमाणेन भास्वता[^९२] ।
वीज्यमानः शरच्चन्द्रकिरणोत्करनिर्मलैः ॥९२॥
चामरै रत्नदण्डांशुसमूहखचितोदरैः ।
आशीर्भिर्जयशब्दैश्च मुनिभिः परिवर्द्धितः ।९३ ॥
अभितः स्तूयमानश्च सूतमागधबन्दिभिः ।
अथावकाशे विस्तीर्णे[^९३] समे पादपवर्जिते ॥९४॥
रचयामास देवानां पद्मव्यूहं[^९४] बृहस्पतिः ।
मरुद्भिः सहितं कृत्वा कणिकायां शतक्रतुम्र[^९५]॥९५॥
पत्रेषु च वसून् रुद्रानादित्याँश्च न्यवेशयत् ।
केशरेषु यमं[^९६] कालं कुबेरवरुणावपि ॥९६ ॥
अनन्तं सहितं नागैर्नाले[^९७] गुरुरकल्पयत् ।
देवानन्यान् समेताँश्च रक्षोगन्धर्वसेनया ॥९७॥
पुनः सरः[^९८] स पद्मस्य परितः[^९९] पर्यकल्पयत् ।
अथ दानवतूर्याणां शब्दं श्रुत्वा दिवौकसः ॥९८॥
आजघ्नुर्मुदिता भेरीर्नेदुर्नादाँश्च सङ्घशः ।
विमिश्रान्[^१००] तूर्यशब्देन श्रुत्वा नादान्[^१०१] दिवौकसाम् ॥९९॥
संयत्ताः[^१०२] सुतरां चक्रुः प्रयत्नं दानवेश्वराः ।
अथ ते दानवा दृष्ट्वा पद्मव्यूहं दिवौकसाम् ॥8.62.१००॥
पुण्ये च - ख. । ८८ तिथिनक्षत्रे - ख । ८१ मूहूर्ते - ख. । ९० च सः - (?) । ९१ हेमदण्डेन - ख. घ. । ९२ मूर्धनि - च. । ९३ - अथाकाशे सुविस्तीर्णे - घ । ९४ प्रतिव्यूह - घ. । ९५ शतक्रतुः - क. घ. । ९६ मयं - क । ९७ नलि क., नाले समुपकल्पयत् - घ. । ९८ पुरः सरान् - क. घ., पुरस्तात्स - ख. । ९९ सरितः - क. । १०० विमिश्र - घ. । २०१ नादं घ. । १०२ संयतौ - घ ।
पप्रच्छुर्भार्गवं तत्र तद्भेदममितौजसः ।
स पृष्टो दानवश्रेष्ठैर्व्यूहभेदमनाकुलः[^१०३] ॥ १०१ ॥
विचिन्त्य भार्गवो धीमानीत्थमाहासुराँस्तदा ।
विकीर्णाः[^१०४] परितः[^१०५] सर्वे तुषारनिकरा इव[^१०६] ॥ १०२ ॥
पद्मव्यूहं सुरेन्द्राणां हत[^१०७] सम्यक् सुरद्विषः ।
एवमुक्तास्ततो[^१०८] दैत्या भार्गवेण महात्मना ॥ १०३ ॥
सिंहनादं[^१०९] विनद्याशु परितस्तेभिसम्पतन्[^११०] ।
ततो युद्धं समभवद् देवदानवसैन्ययोः ॥ १०४॥
आयुधैर्विविधैस्तीक्ष्णैः परस्परमभिध्नतोः ।
सादिनः सादिभिः सार्धं नागा नागै रथा रथैः ॥ १०५॥
पत्तयः पत्तिभिर्दृप्तैर्दृप्ता युयुधिरे[^१११] युधि ।
केचिद्विभिन्ना नाराचैश्छिन्नाः केचित् परश्वधैः ॥ १०६॥
निपेतुर्व्यसवो[^११२] यौधाः सेनयोरुभयोरपि ।
छिन्धि भिन्धि सहेदानीं तिष्ठ मूढ क्व गच्छसि ॥ १०७ ॥
इति वाचः सुमुत्तस्थुर्युधि योधैरुदीरिताः[^११३] ।
वसारुधिरसंसिक्तं[^११४] तनुत्रावरणाचितम् ॥ १०८॥
हतनागाश्वकललं[^११५] तद्बभूव रणाजिरम् ।
अथ तैर्दानवैस्तत्र[^११६] पीड्यमाना दिवौकसः ॥ १०९ ॥
सव्रणा हतभूयिष्ठाः शक्रमेवाभिशिश्रियुः[^११७] ।
अनन्तं नागमुख्याश्च कुबेरं यक्षराक्षसाः ॥ 8.62.११० ॥
भिन्ने व्यूहेय देवानां प्रहृष्टा दैत्यदानवाः ।
सिंहनादान् विनद्योच्चै[^११८] स्तूर्याण्याहत्य भूयशः ॥ १११ ॥
अभ्यद्रवन्तः संयत्ताः समरे पाकशासनम् ।
अथोत्थाप्य गजं शक्रो वज्रेण शतपर्वणा ॥ ११२ ॥
मेनाकुलम् - ख । १०४ वीस्तींर्णाः -ख। १०५ पततः क। १०६ तुषारेण हिमागमे ख। १०७ हतं - घ., हता - ख., हताः - क । १०८ स्तदा - ख. । १०९ सिंहनादान् - घ. । ११०.. भ्यपेत्य च - घ. । १११ संयुयु? ख । ११२ र्बहवो - घ. । प १३… रुदाहृताः - घ. । ११४ संसक्तं - क., स?- - - ॥ ११५ ? । ११६ ते दानवैस्तत्र - क. ख. । ११७ .संश्रयुः - क., संश्रिताः - ख. घ. । ११८ वदन्त्युच्चै - घ
चूर्णयामास सङ्क्रुद्धो वेत्यदानववाहिनीम् ।
ददाह दानवामाकं परितः[^११९] पाकशासनः ॥ ११३ ॥
निदाघसमये दीप्तः शुष्ककक्षमिवानलः[^१२०] ।
अथ शुम्भः समभेत्य समरे शक्रमब्रवीत् ॥११४॥
दृष्टोस्यद्य[^१२१] मया शक्र न[^१२२] जीवन् प्रतियास्यसि[^१२३] ।
अथागत्य तदा ब्रह्मा प्राहेत्थं सुरसत्तमान् ॥११५॥
न योद्धव्यं सुरा दैत्यैरवध्या वः सुरद्विषः ।
न योद्धव्यं न योद्धव्यं सुरा दैत्यैर्महाबलैः ॥ ११६॥
पूर्वलब्धवरा ह्येते अवध्याश्च सुरद्विषः ।
अन्तर्दधुस्ततस्तस्य वाक्यं श्रुत्वा दिवौकसः ।
विहाय समरं सर्वे क्षिप्रं सबलवाहनाः ॥ ११७ ॥
अथ दैत्याः सुसंहृष्टास्तूर्याण्याहत्य भूयशः[^१२४] ।
नेदुरुच्चैर्वचश्चेदमूचुः समरशालिनः[^१२५] ॥ ११८॥
तुरगखुरपुटान्तक्षुण्णरेण्वन्धकारे[^१२६]
द्विरदरथनिनादत्रस्तपादातवृन्दे[^१२७] ।
विगतभयविषादः संयुगे शुम्भसिंहो
जयति सुरविजेता वारिवाहोरुनादः ॥ ११९॥
तदनु जयति दीर्घपीनथुबाहुः पृथुरुचिरोन्नतसंहतोरुवक्षाः ।
मृगपतिगमनोम्बुवाहनादः समरवरे[^१२८] विजयी निशुम्भसिंहः[^१२९] ॥8.62.१२० ॥
इति स्कन्दपुराणे देवासुरसङ्ग्रामे शुम्भनिशुम्भविजयो नाम[^१३०] द्विषष्टितमोध्यायः