सनत्कुमार उवाच
अथ दानवमुख्यानां लोकनाशाय निर्ययौ ।
मत्तवारणसम्बाधम्[^१] रथाश्ववलितं बलम्[^२] ॥ १ ॥
तत्तदा[^३] दानवानीकं विससार दिशो दिशः[^४]।
प्रलये मारुतोद्धूतमौदन्वतमिवोदकम् ॥ २ ॥
निजघ्नुर्ब्राह्मणान् केचित् केचिन्निष्पिपिषुर्विशः[^५] ।
तुस्तुभुः क्षत्रियानन्ये शूद्रानन्ये बभक्षिरे[^६] ॥ ३ ॥
जग्लसु[^७]र्ल्लिलिहुर्न्नेदुर्बभञ्जुश्च समन्ततः ।
यज्ञेष्वन्नं हविर्नादान्[^८] यूपाँश्चामरविद्विषः ॥४॥’
स्वधीतवेदाध्ययनाभिनादितान् मुनिप्रवेकाचितगुल्मपादपान् ।
प्रभूतचीराजिनदर्भसञ्चयान् निकामपर्यन्तहिमाम्बुनिर्झरान् ॥ ५॥ उपान्तनीवारगवेधुकाचितान्[^९] प्रसुप्तविश्वस्तमृगर्क्षवानरान् ।
हबिर्भुजो[^१०] धूमवितानसङ्कुलान् विसृत्य चान्ये प्रविजघ्नुराश्रमान्[^११] ॥६॥
केचिन्मुनीनामसुरा जीर्णोरगसमत्विषः[^१२] ।
जटाः सङ्गृह्य लुलुचुः क्षालितास्तीर्थवारिणा ॥७ ॥
त्तमाङ्गो ( ? ।
मत्तैरावणसम्बाध - घ । २.. कलितं बलम् - घ । ३ तत्तथा - घ. । ४ दश - घ । ५ च्चिक्षिपुश्च दिशो दश - घ- । ६ बभञ्जिरे (?) । ७ जग्रसु - घ । ८ बहिर्दानान् - क । ९ उपात्तनीवारगवेधुकाचितान् - ख । १० हविर्भुजां (? । ११ परिजघ्नुराश्रमान् - ख । १२.. मिव द्विप (ा ). - ख ।
पातयित्वासुराः[^१३] केचिच्चरणैः पिपिषुः क्षितौ ।
ऋषीनात्मविनाशाय हुताशान् ज्वलितानिव[^१४] ॥८॥
शिरांसि मुनिपत्नीनां करैः केचित् तलैस्तथा[^१५] ।
पूतानि[^१६] वारिभिः पुण्यैः पस्पृशुर्दानवाधमाः ॥९॥
अथ ते जगृहुर्यात्रां[^१७] ज्ञात्वाभ्युदयमात्मनः ।
विक्षिप्तं[^१८] लोकनाशाय बलमाहूय सर्वशः ॥8.61.१० ॥
प्रशस्तेहनि नक्षत्रे मुहूर्त्ते च जयान्विते[^१९] ।
सन्नाहभेरीराहत्य क्रियाश्चक्रुर्जयावहाः ॥ ११ ॥
सन्नाह्यान् बलिनो सत्तानानाय्य वरवारणान् ।
सम्यगभ्यर्च्य वर्माणि बबन्धुर्विधिनासुराः ॥ १२॥
यन्त्राणि धौतैर्नाराचैः पूर्णान्यासनपार्श्वयोः ।
बबन्धुः शक्तिपूर्णाँश्च वेणून् तिर्यगवस्थितान् ॥१३ ॥
तोमरान् कणपान्[^२०] शङ्कून् शूलचक्रपरश्वधान् ।
आबबन्धुर्नियुक्ताश्च मध्यमासनपार्श्वयोः ॥ १४॥
सज्जानि परमास्त्राणि बालधीँश्च सुसंस्कृतान् ।
सम्पूर्णान् गन्धवासोभिर्निशिताग्रैः शिलीमुखैः ॥१५॥
सन्नाह्यानकुशाल्ँलौहान् बालेन्दुसदृशद्युतीन् ।
ग्रैवेयेषु सिताँश्चक्रुर्मध्ये मस्तकपिण्डयोः ॥१६ ॥
क्षुरप्रमालां[^२१] संयस्तां शातकुम्भमयीं शुभाम् ।
आबबन्धुश्च कुम्भेषु गजानां गजसादिनः[^२२] ॥१७॥
वैजयन्तीपताकाश्च विचित्राः स्वभिलक्षिताः ।
उच्छ्रयामासुरायत्ता दन्त्यनीकस्य दानवाः ॥१८॥
घण्टा वारणमुख्यानामाससज्जु[^२३] र्महास्वनाः ।
चामराणि सुदीर्घाणि हंसांशुरुचिराणि[^२४] च ॥१९॥
पाटयित्यासुराः - घ । १४ हुतानाञ्जिलतानिव - ख. । १५ चलैस्तथा - क. ख. । १६ युतानि - घ. । १७… र्गोत्रां - क, र्यज्ञं - घ. । १८ विक्षिप्ता - ख. । १९ विजयान्विते - घ. । २०… यान् - क. । २१ क्षुरप्रमाणाः-घ. । २२.. सादिभिः - घ. । २३,. मानसञ्जु-क,. माससर्ज ( र्जु) -घ. । २४ हंसाङ्गरूचिराणि घ. ।
एकैकस्य चतस्रश्च करेण्वश्चारुदर्शनाः ।
स्थापिताः पुरतो दैत्यैः परवारणवारणाः ॥8.61.२० ॥
यूनो युवभिरारूढान् शिक्षितानस्त्रकोविदैः[^२५] ।
चक्रुरग्रेसरानश्वान् वर्मिणो लोहजालिनः ॥२१ ॥
वर्मिणो बद्धकवचाञ्छितनिस्त्रिंशधारिणः ।
तेषां पुरस्सरान् पत्तीननुयाताँश्च धन्विभिः ॥ २२॥
दैत्ययोधास्ततश्चान्ये[^२६] वर्मिणो लोहजालिनः ।
आरूढा बद्धनिस्त्रिंशाः स्नातपीताँस्तुरङ्गःमान्[^२७] ॥२३ ॥
केचिद्विनीतैर्युवभिः स्नपितैः[^२८] कृतमङ्गलैः ।
रथान् संयोजयामासुरश्वैरग्रजवैस्तदा[^२९] ॥२४॥
आयुधान् सपताकाँश्च किङ्किणीजालनादितान् ।
अधितस्थुस्तदा केचिद् रथान् हाटकसंस्कृतान् ॥२५ ॥
एवं तत् कल्पितं श्रुत्वा सैन्यं सैन्यनमस्कृतः ।
सुन्दो दानवशार्दूलो निर्ययौ कृतमङ्गलः ॥ २६ ॥
स्वीषं सुकूबरं[^३०] स्वक्षं शातकुम्भमयं वरम् ।
नानामणिमयैश्चित्रैर्भक्तिपुष्पमृगद्विजैः[^३१] ॥ २७॥
युक्तं परमसंहृष्टैर्मनोवेगैस्तुरङ्गमैः ।
आरुह्याथ रथं दिव्यं पताकाध्वजशोभितम् ॥२८॥
कवची बद्धनिस्त्रिंशो विधूतसितचामरः[^३२] ।
अभितः स्तूयमानश्च सूतमागधबन्दिभिः ॥२९ ॥
निसुन्दोपि[^३३] मदश्यामकपोलालीनषट्पदम्[^३४] ।
आरुह्य निर्जगामाशु साङ्ग्रामिकमनेकपम्[^३५] ॥ 8.61.३० ॥
अन्ये च दानवास्तत्र रथैरश्वैर्मतङ्गजैः ।
निर्ययुः परमप्रीता[^३६] युद्धशौण्डाः सुदंशिताः ॥३१ ॥
वासितामस्त्रकोविदैः - ख. । २६ स्तथा चान्ये - घ । २७ स्नातपीतास्तुरङ्गमाः - क. । २८ स्नापितैः - क. ख. । २९… स्तथा - घ. । ३० सुकुरवं - क. । ३१ भक्तापुष्पसुगन्धिजैः - घ । ३२ बद्धनिस्त्रिम्श उद्धूतशितचामरः - घ. । ३३ उपसुन्दो - ख. । ३४ नीरदश्यामकपालानीलषट्पदम् - घ. । ३६ सङ्ग्रामिकमनीकपम् - क., महाद्विपं - ख । ३६ परमप्रीत्या - क घ. ।
बलस्याग्रेसरं कृत्वा तारकाक्षं[^३७] महासुरम् ।
सहितं बहुभिः शूरै रथनागाश्वपत्तिभिः ॥ ३२॥
पृष्ठतः संविधायाशु बलोन्मत्तं महासुरम् ।
बलेन चतुरङ्गेण[^३८] महिषं पार्ष्णिरक्षिणम्[^३९] ॥३३ ॥
पार्श्वयोरुभयोर्न्यस्य[^४०] मेघस्वनमहास्वनौ ।
सैन्येन महता दृप्तौ[^४१] दानवावरिसूदनौ ॥३४॥
मध्ये सुन्दो निसुन्दश्च मयः शम्भुः खरो मुरः ।
सन्नद्धा बलिनः शूरा परसैन्यविदारणाः[^४२] ॥३५॥
प्रतस्थिरे सुसंयत्ता दिवं दानवसत्तमाः ।
प्रलये मारुतोद्धूता घनाः संवर्त्तका इव ॥३६॥
तेषामागमनं ज्ञात्वा सह स्वर्लोकवासिभिः ।
अपसृत्य जगामाशु जनस्थानं शतक्रतुः ॥ ३७॥
मेरो शिखरमारुह्य सर्वेथ सहितास्तदा ।
सेना निवेशयामासुर्नन्दने ते सुरद्विषः[^४३] ॥ ३८॥
अथ सैन्यस्य दैत्येन्द्रा[^४४] रक्षामाधाय सर्वशः[^४५] ।
प्रविभक्तानसम्बाधानावासान्[^४६] जगृहुस्ततः ॥३९ ॥
दत्तानुज्ञास्ततः सर्वे दानवा दानवोत्तमैः ।
सन्नाह्यमपनिन्युस्ते सर्वोपकरणं तदा ॥8.61.४० ॥
आरूढा गजकन्यासु[^४७] वर्माणि मुमुचुः शनैः ।
आयुधान्यपनीयाशु[^४८] सैनिका मत्तदन्तिनाम् ॥४१ ॥
सन्नाहानपनिन्युश्च[^४९] मुमुचुः कवचानि च ।
तनुत्राणि च चित्राणि[^५०] तदा दानवसैनिकाः ॥४२॥
तारकाख्यं - घ. । ३८ बलेन च तुरङ्गेण - क. ख. । ३९ पारिरक्षिणम् - क., परिरक्षिणम् - ख. घ. । ४०… स्तस्य - ख. । ४१ गुप्तौ - क. घ. । ४२.. निवारणा - क ख. । ४३ निर्जरद्विजः - (षः) - घ. । ४४ दैत्यास्ते - घ. । ४५ सर्वतः - क. घ. । ४६… वासं - क. ख., वासास्ते - घ. । ४७… जगकन्यासु - क. । ४८.. .न्युपनीतानि - ख. । ४९ परिनिन्युश्च - घ. । ५० विचित्राणि - ख. घ ।
अपेत कक्षान्[^५१] मातङ्गान्[^५२] स्नातपीतान् गतक्लमान्[^५३] ।
बबन्धुः कल्पवृक्षेषु[^५४] केचिद्दानवसैनिकाः ॥४३ ॥
केचित् कल्पद्रुमान्नागा मदसंलीनषटपदाः[^५५] ।
बभञ्जुर्बलिनस्त्रस्तमत्तोद्भ्रान्तविहङ्गमान् ॥४४॥
चुक्रशुर्बलिनः केचिन्मदश्यामान्[^५६] मतङ्गजाः ।
कपोलान् कल्पवृक्षेषु पुष्पालीनालिपङ्क्तिषु ॥४५॥
नागा जगाहिरे केचिन्मत्ता मन्दाकिनीं नदीम् ।
हैमवारिजकिञ्जल्कपिञ्जरोपान्तरोधसम् ॥४६॥
विमुक्तसाङ्ग्रामिकवर्मजालान्[^५७] प्रसन्नचित्तान् परिघृष्टकायान् ।
निपीततोयानपनीतखेदान् बबन्धुरश्वान्पृथगश्वबन्धाः ॥४७॥
अथ सूक्ष्माणि वासांसि चित्राश्च परमाःस्रजः[^५८] ।
आनिन्युः कल्पवृक्षेभ्यः फलानि मधुराणि च[^५९] ॥४८॥
हैमानि केचित् पद्मानि तद्रजोरुणमूर्त्तयः[^६०]।
बभञ्जुर्दानवा हृष्टा गता मन्दाकिनीं नदीम् ॥४९॥
आनिन्युः सैनिकाः केचिन्मन्दारकुसुमोत्करान् ।
फलान्याजह्रिरे केचित् स्वादूनि च बहूनि च ॥8.61.५० ॥
तत्रोष्य रजनीमेकां भेरीराहत्य दानवाः ।
तेनैव विधिना यत्ताः प्रजग्मुरमरावतीम् ॥५१ ॥
ततस्तूर्यनिनादेन गजानां बृंहितेन च ।
सिंहनादैश्च दैत्यानां चचालेवामरावती ॥५२॥
अथ शून्यां समुद्वीक्ष्य पुरीं दानवसत्तमाः ।
इत्थमूचुः सुसंहृष्टा[^६१] नदन्तो भैरवस्वनम्[^६२] ॥५३ ॥
अपेतभक्ष्यान् - क. । ५२ अपेतकक्षास्तान्नागान् - घ. । ५३ स्नपितान्विगतक्लमान् - घ. । ५४ वृक्षकल्पेषु - क. । ५५… षट्पदान् - ख । ५६ मदश्यानान् - (?) । ५७… सङ्ग्रामिकवर्मजालान् - क. । ५८ विचिक्नुयिरय… - क. ख. । ५९ मुमुचासुराः– - क. ख. । ६० भद्राणि रणमूर्धनि - घ. । ६१ सम्प्रहृष्टा - घ. । ६२ भैरवं रवं (?) ।
जयति विबुधशत्रुः सुन्ददैत्येन्द्रसिंहः
कठिनरुचिरबाहुः पीनविस्तीर्णवक्षाः ।
शतमखपुरजेता चारुपृथ्वायताक्षः
सजलघननिनादो मत्तनागेन्द्रगामी ॥५४॥
तदनु जयति चारुप्रान्तरक्तायताक्षो
मृगपतिगतिलीलः संयुगेष्वप्रधृष्यः ।
त्रिदशवरविजेता दानवेन्द्रो निसुन्दः
प्रहतमुरजनादः पीनदीर्घोरुबाहुः ॥५५॥
इति स्कन्दपुराणे अमरावतीप्रवेशो नाम एकषष्टितमोध्यायः