सूत१ उवाच
अथासौ ब्रह्मणः पुत्रं व्यासः प्राह कृताञ्जलिः ।
किमर्थं कौशिकी विन्ध्यं देव्या सम्प्रेषिता तदा ॥ १ ॥
एवमुक्तस्तदा धीमान् व्यासेन ब्रह्मणः सुतः ।
यथावृत्तं पुरा सर्वमाख्यातुमुपचक्रमे ॥२ ॥
आरिराधयिषुर्देवीं विन्ध्यस्तेपे पुरा तपः ।
ततस्तुष्टाब्रवीन्विन्ध्यं पार्वती वरदास्मि ते ॥३ ॥
मयि वासोस्तु ते नित्यमेवमादित्यरोधनः ।
वव्रे गिरीन्द्रतनयां प्राह सा च तथास्त्विति ॥४॥
स्वतनुं सा द्विधाभूता२मग्नेर्दीप्तां शिखामिव ।
दाहाय दानवेन्द्राणां प्राहिणोत् कौशिकीमतः३ ॥५ ॥
अथ तं ब्रह्मणः सूनुमुवाच मुनिसत्तमः ।
गिरिर्विन्ध्यो महाप्रज्ञ४ कथमादित्यरोधनः ॥ ६॥
सनत्कुमारः प्रोवाच पृष्टो व्यासेन धीमता ।
शृणु यस्मादभूद्विन्ध्यो गिरिरादित्यरोधनः ॥७ ॥
पुरा विन्ध्योब्रवीत् सूर्यं कस्मात्त्वं न करोषि माम्५॥
प्रदक्षिणं यथा मेरुं का तेवज्ञा मयि प्रभो६ ॥८॥
व्यास उ. - क, सनत्कुमार उ. - घ. । २ द्विधीभूता - क ख. । ३ कौशिकी ततः - घ. । ४ महाप्रज्ञः - क. । ५ किमवज्ञां करोषि मां - घ. । ६ प्रभो - क. ।
स उवाच तदा विन्ध्यं नैवं कर्तुं हि शक्यते ।
प्रत्याख्यातः स सूर्येण विन्ध्यो गिरिरवर्धत ।
रुद्धा तस्य स्थितो मार्गम्७ तस्मादादित्यरोधनः ॥९ ॥
नष्टालोके ततो लोके देवाः संविग्नचेतसः ।
अगस्त्यमुपसङ्गम्य वाक्यमूचुः समाहिताः ॥ 8.60.१० ॥
सवितुर्मार्गमावृत्य गिरिर्विन्ध्यो व्यवस्थितः ।
तं वारय महाप्राज्ञ गतिर्नः सर्वदा भवान् ॥ ११ ॥
ततो८गस्त्यो गिरिं गत्वा प्रोवाचेत्थं महातपाः ।
यास्यामि दक्षिणामाशां पन्थानं देहि पर्वत ॥ १२॥
यावत्प्रतिनिवर्त्तेयम्९ तावच्च१० स्थातुमर्हसि ।
ततः प्रभृति चैवेह नाभूदागमनं मुनेः ॥१३॥
अथ पप्रच्छ तं व्यासः पितामहसुतं प्रभुम् ११ ।
कौशिकी प्रहिता विन्ध्यं दानावानां विनाशने ॥१४॥
के ते१२ कस्य किमर्थं वा कौशिक्या दानवा हताः ।
एतत् सर्वं समासेन मुने१३ मे वक्तुमर्हसि ॥१५॥
पितामहसुतो धीमान् व्यासेनैवं१४ प्रचोदितः ।
प्रश्नमेतं१५ समासेन व्याख्यातुमुपचक्रमे ॥ १६ ॥
देवासुरे पुरातीते संयुगे परमाद्भुते ।
सुन्दो निसुन्दश्च सुतौ निशुम्भस्य बभूवतुः ॥ १७॥
हतान् निशम्य तौ बन्धून्सुरैः सर्वान्महाहवे ।
देवान्प्रति सुसङ्क्रुद्धौ गर्जन्तौ गोवृषाविव ॥ १८ ॥
सिंहाविव महासत्त्वौ हृतदंष्ट्रानखायुधौ१६ ।
श्वसन्तौ सविषावुग्रौ भग्नदंष्ट्राविवोरगौ ॥ १९॥
अशक्तौ तौ सुरैर्योद्धुं हतपक्षौ महासुरौ ।
सुपर्णाविव सङ्क्रुद्धौ छिन्नपक्षौ महाबलौ ॥8.60.२० ॥
मार्गे - घ. । ८ तस्या - क., अगस्त्यः सुमहातेजास्तत्र गत्वाब्रवीद्वचः - घ । ९ यावच्च न निवर्तेयं (?) । १० त्वं - घ. । ११ प्रभुः - क. । १२ कृते - घ. । १३ मुने - घ., प्रश्नं - क. ख. । १४ व्यासेनैव - क. । १५ प्रश्नमेनं - घ. । १६ कृतदंष्ट्रानाखायुधौ - घ. ।
-
-
- णः१७ सुतौ चैतौ१८ गोकर्णं प्रति जग्मतुः ।
आरिराधयिषू देवं ब्रह्माणममितौजसौ ॥२१ ॥
- णः१७ सुतौ चैतौ१८ गोकर्णं प्रति जग्मतुः ।
-
अथोवाच ततो व्यासो गोकर्णं कथयस्व मे ।
कस्मिन्देशे किमर्थं वा केन वोत्पादितं१९ पुरा ॥२२॥
प्रोवाच ब्राह्मणः सूनुर्व्यासेनैवं प्रचोदितः ।
शृणु वत्स समासेन पुण्यं गोकर्णसम्भवम् ॥२३ ॥
हते त्रिशिरसि त्वष्टा पुत्रे ज्यायसि वज्रिणा ।
बृत्रं२० नाम ततः२१ पुत्रमसृजत्तपसां निधिः२२ ॥२४॥
प्रलम्बबाहुं वृत्तास्यं पीनविस्तीर्णवक्षसन् ।
सुश्लिष्टजानु सहनुं जलदध्वाननिस्वनम् ॥२५॥
स्वक्षं सुपार्श्वं सुकटिं दीर्घरक्तान्तलोचनम् ।
समरे सर्वदेवानां जेतारमपराजितम् ॥२६ ॥
स निर्जित्यामरान् सर्वान् जग्रासेन्द्रं महाद्युतिः ।
ततो महर्षिभिः सृष्टा जृम्भिका तं समाविशत् ॥२७॥
तस्याथ जृम्भमाणस्य निर्जगाम शतक्रतुः ।
वदनादाशु२३ सङ्क्षिप्य स्वां तनुं योगमायया ॥२८ ॥
तस्य योगबलं दृष्ट्वा वीर्यं शौर्यं च संयुगे ।
ततो भीताः सुराः सर्वे ब्रह्माणं शरणं ययुः ॥२९॥
तान्दृष्ट्वा स तदा भीतानमरान् सुरविद्विषः ।
प्रोवाचाशु२४ प्रजेशानः पद्मयोनिः पितामहः ॥8.60.३० ॥
पराजितान् वो जानामि वृत्रेण रणमूर्धनि ।
उपायं तं न पश्यामि येनासौ जीयते युधि ॥३१ः ।
यास्याम२५ सहिताः सर्वे देवं द्रष्टुमुमापतिम् ।
विश्वेश्वरं विधातारं वरदं भक्तवत्सलम् ॥३२॥
न पश्यन्तौ (तपस्यन्तौ?) - घ । १८ चेतौ - क., चोभौ - घ. । १९… त्पादितः - क. । २० वृन्दं - क. । २१ पुनः - ख । २२ निधिम् - क. ख. । २३ वरदानात्तु - घ. । २४ प्रोवाचासौ - घ. । २५ यास्यामः - ख. ।
स नः प्रणामैर्भक्त्या च स्तुत्या चाराधितः प्रभुः ।
महादेवो महायोगी२६ शम्भुः शान्तिं विधास्यति ॥३३॥
अथोत्तस्थुः सुराः सर्वे देवदेवं दिदृक्षवः ।
अपश्यन्तो विचेरुश्च महीं सोदधिपर्वताम् ॥३४॥
अथ विष्णुर्महायोगी देवीं हिमवतः सुताम् ।
अपश्यत् पांशुदिग्धाङ्गीमासीनां बालरूपिणीम् ॥३५॥
लेखामिव नवामिन्दोः प्रातः सूर्यप्रभामिव ।
हविषा हूयमानस्य तन्वीमग्नेः शिखामिव ॥३६॥
विज्ञाय स तदा योगान्महायोगां सुरेश्वरीम् ।
ईश्वरो जगतो विष्णु२७र्जिष्णुस्तुष्टाव पार्वतीम् ॥३७॥
विष्णुरुवाच
त्वं स्रष्ट्री२८ सर्वभूतानां संहर्त्री त्वं सुरेश्वरि ।
त्वमस्य जगतो धात्री नित्या प्रकृतिरव्यया ॥३८॥
त्वं प्रभा शर्वरी ज्योत्स्ना कीर्तिस्तुष्टिरुमा धृतिः ।
बुद्धिमेधा स्मृतिः प्रज्ञा सन्ध्या कान्तिः स्तुतिर्मतिः ॥३९॥
त्वमीशा देवि देवानां गणमाता गणाम्बिका ।
भद्रकाली महागौरी कौशिकी विन्ध्यवासिनी ॥8.60.४० ॥
दुर्गा ख्यातिर्महाविद्या गायत्री त्वं सरस्वती२९ ।
स्वाहा स्वधा महामाया लक्ष्मीर्योगेश्वरेश्वरी ॥४१ ॥
उल्का सती गिरेः पुत्री मैत्रेयी ब्रह्मचारिणी ।
तापसी३० रेवती षष्ठी वरावरसहस्रदा३१ ॥४२ ॥
कुन्दकार्मुकसारङ्गकोकिलाशोकपल्लवैः ।
तुल्यासि३२ दन्तभ्रू नेत्रस्वरपाणिभिरीश्वरि३३ ॥४३ ॥
प्रमत्तोत्फुल्लपूर्णन्तान् नागोत्पलनिशाकरान् ।
विशिनक्षि सदा देवि गतिलोचनकान्तिभिः ॥४४॥
महायोगः - क. ख । २७ धाता - घ. । २८ सृष्टिः- - क. । २९ सुरेश्वरी - क । ३० तामसी? । ३१ चराचरसहस्रदा - घ. । ३२ तुल्यास्य - क. । ३३… रीश्वरी - क. ।
शिरोभिर्महिषोद्भ्रान्तरक्तपर्यन्तलोचनैः ।
नृभिः क्षितितलन्यस्तकरजानुमिरिज्यसे३४ ॥४५॥
मत्तान्यपुष्टाकलवल्गुभाषिता द्विरेफमालासितचारुमूर्धजा ।
प्रफुल्लपुष्पस्तबकोद्गतस्तनी विराजसे कल्पलतेव पुष्पिता ॥४६॥
देवि देवीभिरनिशं भक्त्याभिवन्द्यसे दिवि ।
इज्यसे३५ मुनिभिः शश्वद् गिरिजे गिरिमूर्धसु ॥४७॥
अर्च्यसे द्धिगन्धर्वैर्गन्धपुष्पोत्करैः सदा ।
सदागतिपथं प्राप्ता३६ प्राप्त्या च स्तूयसेनघे ॥४८॥
भासि सिंहं समारूढा चलत्पिङ्गलकेसरम् ।
दीप्ता प्रभेव सावित्री मेरुमूर्धानमास्थिता ॥४९॥
जिघांसती रणे दैत्याञ्छरौघैर्भास्यजिह्मगैः ।
रवेर्मूर्तिस्तमांसीव विकिरन्तो गभस्तिभिः ॥8.60.५०॥
परशुं शितमुदगृह्य देवदानवसंयुगे३७ ।
भ्राजसे देवि सङ्क्रुद्धा पाटयन्तीव३८ रोदसी ॥५१॥
अथ सा शैशवं हित्वा तनुमन्यां समाददे३९ ।
एकीकृतामिवाकाशे संहतिं सर्वतेजसाम् ॥५२॥
दीप्तामपि सुखालोकां शान्तामपि सविभ्रमाम्४० ।
बालामपि जगद्धात्रीं तन्वीमपि सुसंहताम्४१ ॥५३॥
उवाचेदं च सा प्रीता४२ वरदास्मि तव प्रभो ।
एवमुक्तस्तया४३ सोथ प्रोवाचाम्भोदनिस्वनः४४ ॥५४॥
शरण्ये देवि भक्तानां शरणागतवत्सले ।
भवानि भव मे नित्यं सुप्रसन्ना महेश्वरि ॥५५॥
कथयस्व च४५ देवेशं शाश्वतं स्थाणुमव्ययम् ।
विश्वात्मानं महादेवं सर्वयोगेश्वरेश्वरम् ॥५६॥
रीज्यसे - क. । ३५ ईज्यसे -घ । ३६ सदागतिपथप्राप्ता - क । ३७ संयुते- क. । ३८ पातयन्तीव - ख. । ३९ समादधे - घ. ॥ ४० तपन्तीमप्यविभ्रमाम् - क घ. । ४१ सुसंयतां क. । ४२ सुप्रीता - क, ख, । ४३… स्तदा घ. । ४४ निस्स्वनः - क. । ४५ त्वं च - घ. ।
तथास्त्विति प्रतिज्ञाय कथयामास शङ्करम् ।
मृगयूथस्य मध्यस्थं क्रीडन्तं४६ मृगरूपिणम् ॥५७॥
एकशृङ्गं महाग्रीवमेकाक्षममितौजसम् ।
एकपादं सुसंश्लिष्टमापाण्डुकपिलोदरम् ॥५८॥
अथ विष्णुर्द्रुतं गत्वा शृङ्गे जग्राह तं४७ प्रभुम् ।
तस्मिन्नेव ततो ब्रह्मा जग्राहेन्द्रश्च वीर्यवान् ॥५९॥
त्रिधा तदभवच्छृङ्गं चलितं४८ दीप्ततेजसम्४९ ।
त्रयाणां सुरमुख्यानां पृथक् पाणिषु संस्थितम् ॥8.60.६० ॥
अथादृश्यस्तदा शर्वस्तानुवाच सुरोत्तमान् ।
यदर्थमागता यूयं तद् ब्रूत सुरसत्तमाः ॥६१ ॥
अथोवाच तदा५० ब्रह्मा परमेशं वृषध्वजम् ।
राज्यं पुनरवाप्नोतु हत्वा वृत्रं५१ पुरन्दरः ॥ ६२ ॥
ततस्तानमरान् तत्र वृषकेतुः समागतान् ।
स्वरेण वारिदध्वानगम्भीरेणाब्रवीत्ततः ॥६३ ॥
वैष्णवं परमं तेजः फेनमाचक्ष्यते सुराः५२ ।
शिरश्छेत्स्यति वृत्रस्य तदादाय शतक्रतुः ॥६४॥
हृषीकेशोथ तत्खण्डमनयत् स्वं निकेतनम् ।
न्यवेशयत५३ तत्रैव५४ वारिजोदरसम्भवः५५ ॥ ६५॥
नीयमानं तृतीयं५६ च खण्डमाखण्डलेन तु ।
रक्षसामधिपः श्रीमान् जग्राहाथ दशाननः ॥६६॥
चकार सन्ध्यामुदधौ दक्षिणे न्यस्य तत्तदा ।
न विचालयितुं शक्तः सन्ध्यामास्थाय रावणः५७॥६७॥
तत्पुण्यं देवदेवस्य व्यास क्षेत्रं महाद्युते ।
गोकर्णमिति नामास्य चकार कमलासनः ॥ ६८॥
क्रीडया - क. । ४७ स - ख. । ४८ चलिते - क. ख. । ४९ दीप्ततेजासां - क., दीप्ततेजसि - ख. । ५० ततो - ख. । ५१ वृत्रं हत्वा - घ. । ५२ केन वै निर्मितः पुरा - घ । ५३ निवेशयत - घ. । ५४. त्वद्वारि - घ. । ५५ वारिधेरुदरे ततः - घ. । ५६ द्वितीयं - घ. । ५७ सत्वमन्विष्य वारुणः - घ. ।
तत्र गत्वा नरो भक्त्या प्रणिपत्य महेश्वरम् ।
अश्वमेधमवाप्नोति सर्वपापैः प्रमुच्यते ॥६९॥
गोकर्णमुत्तरं५८ व्यास स्थापितं पद्मयोनिना५९ ।
उदन्वतः स्थितं तीरे स्वयमेव तु दक्षिणे ॥8.60.७०॥
यः शृणोति नरो नित्यं पुण्यगोकर्णसम्भवम् ।
सर्वपापविधूतात्मा स यातिपरमां गतिम्६० ॥७१ ॥
अथ तौ दानवौ व्यास गोकर्णमभिजग्मतुः ।
तत्र चेरतुरत्युग्रं तपोम्बुपवनाशनौ ॥७२॥
कस्यचित्त्वथ कालस्य विदित्वोग्रं तयोस्तपः ।
आजगाम तयोः पार्श्वं ब्रह्मा सुरनमस्कृतः ॥७३॥
अथ तौ विश्वधातारं चतुर्वक्त्रं पितामहम् ।
अपश्यतां महाबाहू ब्रह्माणं पुरतः स्थितम् ॥७४॥
शुक्लाम्बरधरं दीप्तं शुक्लस्रगनुलेपनम्६१ ।
एकीकृतमसम्प्रेक्ष्यं तेजो दिनकृतामिवम्६२ ॥७५॥
प्रीतोस्मि युवयोः पुत्रावथोवाच पितामहः ।
अनेन तपसोग्रेण वरं ब्रूत६३ मभीप्सितम् ॥७६॥
अमरत्वं तु वव्राते तौ प्रणम्य पितामहम् ।
ब्रह्माथाह६४ विना देवानमृतत्वं न विद्यते ॥७७॥
अवश्यमेष्यो६५ युवयोर्मृत्युरेकेन केनचित् ।
अथामरत्वं वव्राते परस्परवधं विना ॥७८॥
एवमस्त्विति ताभ्यां तं वरं दत्त्वा पितामहः ।
हंसयुक्तेन यानेन६६ जगाम स्वं निकेतनम् ॥७९॥
असुरावपि तौ तस्मात्तपसोग्राद्विरेमतुः ।
आजग्मतुर्निकेतं स्वं वरं लब्ध्वा पितामहात् ॥8.60.८०॥
मुत्तमं - ख. । ५९ ब्रह्मयोनिना - घ. । ६० स याति परमं स्थानं यत्र गत्वा न शोचते’ ’ - घ. । ६१ शुक्रगन्धानुलेपनम् - घ. । ६२ रवि ( रुचि) राकार… - ख. । ६३ ब्रूता - क. । ६४… हाथ - क. ख., … प्याह - घ. । ६५ अवश्यमेव - घ. । ६६ हंसयुक्तविमानेन - घ. ।
वरदानं६७ ततो ज्ञात्वा दैत्याः पातालवासिनः ।
आजग्मुर्दानवाश्चैव तयोः पार्श्वं मुदान्विताः ॥८१ ॥
केशी मुरो६८ मयः शम्भुः६९ कार्तस्वरमहारवौ ।
इन्द्रशत्रुः कतिर्धुन्धुस्त्विल्वलो नमुचिर्द्रुमः ॥८२ ॥
वातापी दुन्दुभिर्मेघः प्रभुरन्ये च दानवाः ।
सर्वे कवचिनः शूरा गदापरिघपाणयः ॥८३ ॥
ऊचुश्च शोकमग्नानामस्माकं शत्रुतापनौ ।
युवां प्लवाविवायातौ शोकसागरतारणौ ॥८४॥
पुरेप्रतिभये रम्ये कान्तां नाम ततः सभाम् ।
आजग्मुस्तुष्टमनसो दानवेन्द्राः७० समागताः७१ ॥८५॥
तस्यां प्रशस्ते७२ विस्तीर्णे शातकौम्भे वरासने ।
आससाद महाबाहुः सुन्दो दानवसत्तमः ॥८६॥
निसुन्दोन्यत्ततो भेजे हेमरत्नमयं शुभम् ।
आससाद ततो धीमान् कार्तस्वरमयं७३ मयः७४॥८७॥
अन्ये च दानवा भेजुरासनानि तदा७५ मुने ।
हेमरत्नविचित्राणि भास्वन्ति च महान्ति च ॥८८ ॥
विरेजे सा सभा तत्र दानवेन्द्रैः समागतैः ।
सबलाकैस्तडित्वद्भिः प्रलये द्यौरिवाम्बुदैः७६ ॥८९ ॥
अथोन्नाम्य शिरो रत्नमरीचिपरिवेषवत् ।
सुन्दो वचनमाहेत्थमम्मोदरुचिरस्वनः७७ ॥8.60.९० ॥
दानवेन्द्राः करिष्यामि सर्वेषामश्रुमार्जनम् ।
विजित्य दैवतैः सार्द्धमिन्द्रमाहवमूर्धनि ॥९१ ॥
प्रयाम७८ दंशिताः सर्वे सज्जीभवत७९ दानवाः ।
त्रैलोक्यविजयं कर्तुमुद्यतायुधपाणयः ॥९२ ॥
वरलाभं (?) । ६८ केशिरुग्रो - घ । ६९ शङ्खः - घ. । ७० दानवेन्द्र - घ. । ७१ समागतां - घ. । ७२ त्रयस्ते - क. ख. । ७३ कार्तस्वरमये - क, । ७४ शुभम् - घ. । ७५ ततो - ख. । ७६ द्यौरिवाम्बरे - ख. । ७७.. निस्वनं पुनः - घ । ७८ प्रयामो - घ. ७९ सज्जा भवत - घ. ।
तस्य तद्वचनं श्रुत्वा प्रभुः प्राहासुरेश्वरम्८० ।
यज्ञैर्व्रतैस्तपोभिश्च८१ नियमैश्चासुरद्विषः८२ ॥९३॥
आप्याययन्ति संरब्धाः शश्वद्वर्णाश्रमा भुवि ।
तानेव प्रथमं हत्वा ततो जेष्याम देवताः ॥९४॥
तस्य तद्वचनं श्रुत्वा प्राहुर्दानवसत्तमाः ।
आयतिं प्रथमं हत्वा विजेष्यामस्ततोमरान् ॥९५॥
अथोवाच तदा८३ धुन्धुर्मेघदुन्दुभिनिस्वनः ।
राजानुगामी लोकोयमपापो बध्यते कथम् ॥९६॥
अस्मत्तो दैवतै राज्यं लोकं हत्वा पुरा हतम् ।
विक्रमेणैव निर्जित्य दैत्यराज्यं सुरैर्हृतम् ॥९७॥
तथा८४ तेभ्यो वयमपि प्रोत्थितध्वजसङ्कुले८५ ।
आनेष्यामो रणे जित्वा श्रियमाविग्नलोचनाम् ॥९८॥
अपकारे सति समे स्वभावेन मनस्विनाम् ।
तेजो विजृम्भते दीप्तं शक्तिमत्स्वेव सर्वदा ॥९९॥
अथ धुन्धोर्वचः श्रुत्वा मुरो मुरजनिस्वनः ।
उच्चैरुत्क्षिप्य मूर्धानं प्रोवाच प्रहसन्निव ॥ 8.60.१००॥
पुराभवन्८६ महात्मानो८७ दानवेन्द्रा महाबलाः ।
हिरण्यकशिपुर्वृत्रः प्रह्लादो नमुचिर्बलिः ॥१०१ ॥
कोटिशो दानवाश्चान्ये महासत्वा महाबलाः ।
यैः कृता प्रसभं लक्ष्मीः स्ववक्षःस्थलवासिनी ॥१०२॥
अल्पावशेषैरधुना८८ युष्माभिरसुरोत्तमाः ।
कथमानीयते राज्यं सुरान्निर्जित्य संयुगे ॥१०३॥
इष्टार्थसाधकेनाशु देशकालाविरोधिना ।
उपायेन परीप्सध्वं राज्यमन्येन केनचित् ॥ १०४॥
एतछ्रुत्वा तदा वाक्यमंशुमाली८९ महासुरः ।
प्रोवाच मधुरं श्लक्ष्णमर्थानुगमिदं वचः ॥१०५॥
प्राहासुरेश्वरः - घ. । ८१ यज्ञव्रततपोभिश्च - क. घ. । ८२ यमैश्चासुरविद्विषः - घ. । ८३ ततो - क. घ. । ८८ अथ - घ. । ८५ प्रोच्छ्रितध्वजसङ्कुले - घ. । ८६. भूवन् - क. ख. । ८७ महोत्साहो - घ. । ८८ स्वल्पावशेषैरधुना - घ. । ८९.. .मंशुमान्स - घ. ।
सापराधा बलीयांसो बद्धवैराश्च दानवैः ।
जयिनः श्रीमदोन्मत्ताः साम देवेष्वनर्थकम् ॥१०६॥
सुरेषु मानसी सिद्धिर्विभुता भुवनत्रये ।
अणिमाद्यैर्गुणैर्योगस्तेषु दानमपार्थकम् ॥ १०७॥
एकार्था नार्थिनः९० सर्वे संहताश्चासुरद्विषः ।
न ते भेदयितुं शक्या दानैस्ते दानवोत्तमाः९१ ॥१०८॥
मन्त्रप्रभावशक्तिभ्या९२ मुत्साहेन परेण च ।
सम्पन्नाः सर्वथा देवा न युद्धं तैः सहेष्यते ॥ १०९॥
युक्तो दानवमुख्यानां हीन९३ सन्धिः सुरैस्सह ।
स्थानवृद्धिं परीप्सूनां क्षीणानामधुना भृशम् ॥8.60.११० ॥
अथाह तेजसा स्वेन तेजांसि सुरविद्विषाम् ।
अभिभूय सदस्युच्चैरंशुमानंशुमानिव ॥१११ ॥
प्रणामपूर्वः क्रियते हीनसन्धिः कुराजभिः ।
न चक्रुर्दानवाः पूर्वं कुर्वते न च साम्प्रतम् ॥ ११२॥
शिरांसि दानवेन्द्राणां कथं यास्यन्ति नम्रताम् ।
सुमेरोरिव शृङ्गाणि भानुमन्त्युच्छ्रितानि च ॥११३ ॥
आदास्यामोथ वा राज्यं देवान्निर्जित्य संयुगे ।
प्राप्स्यामो वा९४ गतिं पुण्यां निहताः समरेमरैः९५ ॥११४॥
इत्थमंशुमतः श्रुत्वा वाक्यं वाक्यार्थकोविदः ।
गम्भीरमर्थवत् प्राह महिषो वदतां वरः ॥११५॥
विदितं वः समस्तानां९६ पूर्वजा९७ भवतां यथा ।
हता दानवशार्दूला विक्रमैकरसाः सुरैः ॥ ११६॥
तदलं दानवश्रेष्ठा वृत्त्या वोग्निपतङ्गयोः९८ ।
सन्धाय दैवतैस्सार्ध वृत्तिं कुर्मः स्वकर्मभिः ॥११७॥
धन्विनः - घ. । ९१ दानवैर्दानवोत्तमाः - घ. । ९२ शक्त्या च - घ. । ९३ हीनः - घ. । ९४.. .द्य - घ. । ९५ शरैः - घ । ९६ सहस्थानां - घ. । ९७ पूर्वाणां - घ. । ९८… वत् - घ. ।
ज्यायोभिर्दानवा देवै रन्ध्रव्यसनवर्जितैः९९ ।
विग्रहेण कथं सिद्धिमिच्छथ स्रस्तशक्तयः ॥ ११८॥
गुणातिशययुक्तानां यानमभ्युच्चये सति ।
मन्त्रोत्साहप्रभावाणामवाप्तौ१०० देशकालयोः ॥ ११९॥
अथ सम्भूय यानेन मन्यध्वे१०१ सिद्धिमात्मनः ।
दंशिताः समरे यत्ताः१०२ समेता यक्षराक्षसैः ॥ 8.60.१२० ॥
रक्षांसि हुतशेषाणि ज्वलने शक्तिसूनुना ।
श्रितानि दैवतान्येव भीतान्यबलवन्ति च ॥१२१ ॥
आयत्ता सर्वदा यक्षाः कुबेरेसुरसत्तमाः ।
स चापि सुरमुख्यानां कुरुते कार्यमुद्यतः ॥ १२२॥
अन्यत्र दैत्यशत्रुभ्यो भुवनेषु बलीयसः ।
अभावादसुरश्रेष्ठा द्वैधीभावो न विद्यते ॥ १२३ ॥
महिषे सदसि स्वस्थमित्युक्तवति दानवे ।
विस्पष्टमर्थवद्वाक्यं द्रुमः प्राह महासुरः ॥ १२४॥
समरे निर्जितैः१०३ पूर्वमस्माभिरबलैस्सह ।
जयिनः शक्तिसम्पन्नाः सन्धास्यन्ते कथं सुराः ॥१२५॥
संविधायाशु१०४ दुर्गाणि पर्वतानुदकानि च१०५ ।
विजये सततं युक्ता विगृह्यासनमास्महे ॥२२६॥
नाशयन्तः सदा यज्ञान् व्रतानि नियमांस्तथा ।
वर्णाश्रमांश्च१०६ लोकेस्मिन् जिघांसन्तः समन्ततः ॥ १२७॥
ततो लोकविनाशेन विच्छिन्ने१०७ सत्क्रियापथे ।
विदित्वापचितान् देवानभियास्याम दंशिताः ॥१२८॥
अथ ते तस्य वचनं सर्व एवानुमेनिरे ।
आसन्नमृत्यवोपथ्यमन्नं१०८ प्राणभृतो१०९ यथा ॥ १२९॥
उत्तस्थुर्लोकनाशाय मतिं कृत्वामरद्विषः ।
उदन्वन्त इवोद्वेलाः प्रलये मारुताकुलाः ॥ 8.60.१३० ॥
रन्तर्व्यसनवर्जितैः - घ. । १००… मधाम्ना - ख. । १०१ मन्यध्वं - क. ख. । १०२ मत्ताः - घ. । १०३ निर्जिताः - क. । १०४ सन्निधायाशु - घ. । १०५ पार्वतान्युदकानि च - क, पार्वतान्यौदकानि च - घ. । १०६ वनाश्रमाश्च - घ. । १०७ विनष्टे - घ. । १०८ पथ्यमर्थं - घ. । १०९ प्राणहरं - घ. ।
जलद इव सुनीलः पीनवृत्तोन्नताङ्गो११०
हिमकरकरशुभ्रां हारयष्टिं दधानः ।
उदपतदथ सुन्दस्त्वासनात् स्वात्तदानीं
जलधिरिव विघूर्णन् फेनमाली युगान्ते ॥१३१ ॥
तदनु तदनुजोम्बुवाहनीलः परिघभुजः पृथुरक्तदीर्घनेत्रः ।
अजहदविमनाः स्वमासनान्तं प्रतिभयकृद् द्विषतां तदा निसुन्दः ॥ १३२॥
इति स्कन्दपुराणे दैत्योद्योगो नाम षष्टितमोध्यायः