सनत्कुमार उवाच
ततस्तां कौशिकीं तत्र प्रस्थाप्य हिमवत्सुता ।
विरेमे तपसस्तीव्रात् सस्नौ च विधिवत्तदा ॥१ ॥
विकलै (विहङ्गमकलै?) - घ. । ३६.. नेह - क. । ३७ उमाम् - घ । ३८ निर्झरोदकनिःसृतैः - क. ख. । ३९. .त्तदा - घ. । ४० गिरौ - क. । ४१ तत् फुल्ल घ. । ४२… वादितम् - क, ख. । ४३ इमं - क. ख. ।
वसाना वाससी शुक्ले१ दिव्य२ स्रगनुलेपना ।
पार्श्वस्थं पर्वतं वीक्ष्य प्रोवाच वरदास्मि ते ॥ २॥
एवमुक्तवतीम्४ देवीम्५ शिखरी६ मूर्त्तिमान्७ तदा ।
प्रणिपत्य वरं वव्रे मयि सान्निध्यमस्तु८ ते ॥३ ॥
नाम चैव मम ख्यातिं तव नामा९ भिलक्षितम् ।
यातु लोकेषु सर्वेषु त्वत्प्रसादान्महेश्वरि ॥४॥
अग्निश्च वरदां वव्रे मागाः कोपं मयीश्वरि ।
सदा पुष्पफलत्वं च वृक्षास्तां तत्र वव्रिरे ॥५॥
सुप्रसन्ना भवास्माकं त्वयि भक्तिश्च नोस्त्विति ।
ततस्तां वव्रिरे देवीं सर्वाश्च परिचारिकाः१० ॥६ ॥
उपास्यमाना बह्वीभिर्देवताभिर्गिरीन्द्रजा ।
अभिभूयान्यतेजांसि भानवीव११ बभौ१२ प्रभा ॥७॥
हृदयेपि स्थिता पत्युः पत्यौ१३ हृदयसंस्थिते ।
सा वै गिरीन्द्रतनया वियुक्ता१४ स्मीत्यमन्यत ॥८॥
अथ सा तेजसां धाम१५ पतिं सर्वजगत्पतिम् ।
वरदा वरदं द्रष्टुं गमनायोपचक्रमे ॥९॥
नमस्कृता तद्वनदेवताभिः१६ प्रदक्षिणीकृत्य समिद्धमग्निम् ।
ऋषीँस्ततो वन्द्यतमाभिवन्द्य जनञ्च तेषां प्रतिपूज्य पूज्यम् ॥8.59.१० ॥
उत्पपात ततो व्योम सा सार्द्धं सोमनन्दिना ।
सिंहेन च१७ जगद्धात्री गणैः परिजनेन च ॥ ११ ॥
शुभ्रे - घ । २ दिव्यगन्धानुलेपना - घ. । ३.. स्थमचलं - घ.,… स्थमथ संवीक्ष्य - क. । ४.. मुक्तवती - ख. घ. । ५ देवी - क. ख घ. । ६ शिखरो - घ., शिखरं - ख. । ७ मूर्तिमत् - क. ख. घ.,… माँस्तदा - घ. । ८ सान्नैध्यमस्तु - क. । ९ नाम्ना - घ । १० परिचारकाः - क. । ११ भवानी - क., भवानी च - घ. । १२ विबभौ - क., ददौ - घ. । १३ पतौ - क । १४ विमुक्ता - क. । १५ धामं - क. । १६ सा वरदेवताभिः - घ. । १७ सिंहेनैव - क.,.. .नैव - घ. ।
वियति जलदवृन्दान् विक्षिपन्ती स्वधाम्ना
हिमजलकणशीतैर्वीज्यमाना मरुद्भिः ।
गिरिवरतनया सा पत्युरेव स्मरन्ती
मदनदहनमूर्तेराशु पार्श्वं जगाम ॥ १२ ॥
इति स्कन्दपुराणे ऊनषष्टितमोध्यायः