५८

व्यास उवाच
वरान् गृहीत्वा रुद्राणी१ तस्मिञ्छिखरिसत्तमे२ ।
अकरोत् किमिति ब्रूहि सर्वं देव्या विचेष्टितम् ॥१॥

सनत्कुमार उवाच
स्वयम्भुवि गते देवी तपसो विरराम ह ।
सा तुष्टा वरलाभेन४ चिन्तयन्ती तदा वरम् ॥२॥

न्यवैक्षत५ दिशः सर्वाः प्रसन्नवदनेक्षणा ।
कस्यैतत्६ कथयामीति देवं हित्वेति चाब्रवीत् ॥३ ॥

सर्वाः कार्येषु - क. । २०६ ष्वधः?, धर्म्येषु? । २०७ करिष्यति च - घ., करिष्यति - क, तत्तथा - घ. । २०८ जातोस्य - घ. । २०९ एष एव स - घ. । २१० अग्न्यारण्ये - घ । २११ इमं - क ख. घ । २१२ ब्राह्मणान् - घ। २१३.. प्रिय. - क. । २१८ मनुजस्स जहाति अधर्मकृतं ससुरेन्द्र- पुरं व्रजते - क. घ ख ।
शर्वाणी - घ. । २ शिखर - क. । ३ देव्या सर्व - घ. । ४ वरदानेन - क ख घ । ५ न्यवेक्षत - ख, न्यरीक्षत - क, निरीक्ष्य च - घ. । ६ कस्यैनं ( नत् ?) - क. ।
शास्त्रज्ञं कञ्चिदुद्दिश्य७ यथार्थम्८ शास्त्रचिन्तकः९ ।
पुत्रलभ्भकृतं१० हर्षं चिन्तयन्त्या मुहुर्मुहुः ॥४॥

अपतज्जलमत्यर्थं११ शीतलं सु१२ सुगन्धि च ।
बह्वभूत् सरसि स्वच्छं तस्यास्तत्तेजसा जलम् ॥ ५ ॥

शिष्ये बुद्धिगुणेनेव१३ गुरुणा ज्ञानमाहितम् ।
विगाहमाना सा देवी तत्सरो विमलोदकम् ॥ ६ ॥

रेजे वियन्मध्यगता दीप्तेव सवितुः प्रभा ।
विगाहमाना व्यजहत् कृष्णां कोशीं तदानघा ॥७॥

सा विरेजे तया मुक्ता कलेवेन्दोर्घनात्यये ।
तस्याः१४ कोश्याः१५ समभवत् कौशिकी लोकविश्रुता ।
विश्वं सिसृक्षतो धातुर्देहादिव पुरा निशा ॥८॥

विम्बाधरा तीक्ष्णसुचारुदंष्ट्रा प्रसन्नताराधिपचारुवक्त्रा ।
सुजातनीलाञ्चितदीर्घकेशी किञ्चित्समभ्युन्नतरोमराजी ॥९॥

सुसंस्थिताभ्यां चरणाम्बुजाभ्यां प्रदक्षिणावर्तनिमग्ननाभिः ।
विगूढजान्वस्थिशिरा सुगुल्फा विनाकृतेवाम्बुरुहेण१६ लक्ष्मीः ॥ 8.58.१० ॥

प्रसन्नरूपा प्रथमोद्गतस्तनी प्रफुल्लनीलाम्बुजचारुलोचना१७ ।
सुसंस्कृतैर्वज्रमणिप्रवेकिभिर्विभूषिता चाभरणै१८ स्सुमध्यमा ॥ ११ ॥

साङ्गदा बद्धकेयूरा१९ कटकोद्भासितत्विषा२० ।
बिभर्त्ति सा भुजानष्टौ सायुधानपराजिता ॥ १२ ॥

बद्धगोधाङ्गुलित्राणा कवचं बिभ्रती शुभम्२१ ।
दुर्भेद्यं२२ सहजं भास्वत् सेन्द्रैरपि सुरासुरैः ॥१३ ॥

निबद्धतूणीरयुगा२३ प्रगृहीतशरासना ।
वसाना पद्मकिञ्जल्करुचिरे वाससी तदा ॥१४॥

किञ्चिदुद्दिश्य - घ. । ८ यथार्हं - घ. । ९… चिन्तकम् - घ । १० पुत्रलाभकृतं घ । ११.. च्च जलं सद्यः- घ. । १२ च (?) । १३ शिष्यैर्बहुगुणेनैव - क. । १४ तस्यां - क । १५ कोश्यां - क॥ १६… वाम्बुरूहेव - क । १७ प्रसन्ननीलाम्बुजचारुनेत्रः- - घ. । १८ विभूषितेवाभरणैः - ख., विभूषितैर्वा - क,?.. तैराभरणैः - घ । १९ वज्रकेयूरा - घ. । २० करकोद्भासितत्विषा - क ख. । २१ शुभा - घ. । २२ दुर्भेदं - घ । २३… युग्मा - घ ।
जानुभ्यामवनिं गत्वा शिरस्याधाय चाञ्जलिम् ।
व्यज्ञापयत सा देवी ब्रूहि किङ्करवाणि ते ॥ १५॥

मूर्ध्न्युपाघ्राय तां देवीं परिष्वज्य च पीडितम्२४ ।
भवानी प्राह संहृष्टा२५ मूर्त्तिस्थानं२६ ममाव्यये ॥१६॥

जरामरणहीना त्वं शोकदुःखविवर्जिता ।
भविष्यसि महायोगा संयुगेष्वपराजिता ॥ १७॥

कौशिकीति च नाम्ना त्वं लोके ख्यातिं२७ गमिष्यसि ।
अन्यैश्चनामभिः श्लाघ्यैर्गुणकर्माभिसंश्रयैः ॥१८॥

तव भक्ताः२८ स्मरिष्यन्ति येति२९ दुर्गेषु संस्थिताः ।
दुर्गाणि ते तरिष्यन्ति त्वत्प्रसादाद्वरानने ॥१९॥

वरा वरेण्या वरदा दुर्गा३० सर्वार्थसाधनी ।
इत्थं त्वां नामभिर्दिव्यैः स्तोष्यन्ति मुनयः सदा ॥8.58.२० ॥

जापैः प्रणतिभि३१र्होमैरुपहारैः पृथग्विधैः ।
प्राणिनः पूजयिष्यन्ति भवतीं भुवि सर्वदा ॥२१ ॥

सिंहयुक्तं ततो३२ देवी३३ रथमादित्यवर्चसम् ।
ससर्ज सपताकं च किङ्किणीजालमण्डितम् ।
विन्ध्यं गिरिवरं चास्या निवासाय समादिशत् ॥२२॥

सनत्कुमार उवाच
सैव३४ मुक्ता तदा देवी प्रणम्य भुवनेश्वरीम् ।
आरुरोह रथं दिव्यं कार्तस्वरमयं शुभम् ॥ २३ ॥

व्योमगेन रथेनाथ नानारत्नांशुमालिना ।
जगामाशु ततो विन्ध्यं नानाद्रुमलतान्वितम् ॥२४॥

निपीडितम् - ख., निपीडितां - घ. । २५ संयुक्ता - क ख, घ । २६ मूर्त्तिस्थासि - घ. । २७ ख्यान्ति- लोके - घ. । २८ भक्त्या - क. । २९ येपि - ख । ३० वरेण्या वरदा दुर्गा वरा - ख. । ३१ जप्यैः प्रणामैः - घ. । ३२ महद् - क, महा - घ. । ३३ दिव्यं - क ख. घ. । ३४ एवमुक्ता - क. ख. घ. ।
विहङ्गविरुतै३५र्विन्ध्यः स्वागतेनेव३६ कौशिकीम् ।
अपूजयदमेयां तां तत्र प्राप्तां तदानघाम्३७ ॥२५॥

वारिभिर्विमलैः शोक्तन्निर्झरोदरनिःसृतैः३८ ।
स पुष्पनिकरैः पुण्यैरर्घञ्चास्यै ददन्निव ॥ २६॥

अथ मृगपतिनागं त्रस्तपर्यन्तनागं
चकितहरिणयूथक्षुण्णदर्भाङ्कुराग्रम् ।
वरमहिषविषाणच्छिन्नगुल्मावतानं
गिरिवरमति रम्यं कौशिकी साभ्यपश्यत् ॥२७॥

व्यरोचयत सा३९ देवी वासाय शिखरं गिरेः४० ।
उत्फुल्लं४१ पादपालीनविहङ्गगणनादितम्४२ ॥२८॥

निर्झरोदकसम्पर्कहरितोपलशाद्वलम् ।
नानाद्रुमलतापुष्पसुरभीकृतमारुतम् ॥ २९ ॥

तुहिननिकरशीतैर्निर्झराम्बुप्रवाहै-
र्निचितपृथुनितम्बोत्तुङ्गपर्यन्तसानुम् ।
गिरिवरशिखरं तत्साध्युवासाथ देवी
कुसुमिततरुशाखाश्लिष्टमत्तद्विरेफम् ॥8.58.३० ॥

य इदं४३ पठते नित्यं शृणुयाद्वा समाहितः ।
कौशिक्याः सम्भवं सम्यक् स याति परमां गतिम् ॥३१ ॥

इति स्कन्दपुराणे कौशिकीसम्भवो नाम अष्टपञ्चाशत्तमोध्यायः