५७

सनत्कुमार उवाच
चत्वारस्ते तु शास्तारः१ खगाः स्वच्छन्दतः पुनः ।
यायावरस्यः विप्रस्य सुता जाता२ महात्मनः ॥ १ ॥

तेषु जातेषु विप्रोसावक्लेशेन३ महातपाः ।
वृत्तिं समानयामास४ तेषां भाग्यपुरःसरः ॥ २॥

चीर्णवेदव्रतास्ते तु वेदान्साङ्गानधीत्य च ।
योगमेव न्यषेवन्त६ तन्निष्ठास्तत्परायणाः ॥३ ॥

इतरेपि७ त्रयो व्यास कर्मणा स्वेन चोदिताः८ ।
प्रत्यपद्यन्त तज्जन्म यत् पुरा तै९ र्विचिन्तितम् .॥४॥

प्रथमो ह्यणुहाज्जज्ञे ब्रह्मदत्त इति स्मृतः ।
एकोणुहस्य पुत्रोभूद् द्वितीयस्तत्पुरोधसः ॥५॥

-सत्वहृदयो ख, शक्रभवने - घ । २०० मथाप्येवं - घ….. मवाप्यैनं - क. ख. । २०१ शुभां गतिं - ख । २०२ … मुक्तात्मानो - घ. । २०३ योगज्ञत्वं परित्यज्य - ख. । २०४ गतिमन्यां - ख. । शप्तारः -ख । २, जज्ञे - क., जज्ञु.. - ख., जग्मु.. - घ. । ३… सौ क्लेशेन च - क., सा बहुमान- पुरःसरः - घ. । ४ सञ्जनयामास - ख. । ५ दान्ता देवव्रतास्तेपि - घ. । ६ -.. नाभ्यसेवन्त -ख. । ७ अपरेपि - घ. । ८ तेजसा - ख. । ९ पुरा तैर्यत्, - घ ।
तृतीयः सचिवस्याथ त्रयस्ते जन्म तद्१० गताः ।
त्रयोग्नय इवासंस्ते लोकास्त्रय११ इवाथवा ।
अवर्द्धन्त महात्मान१२ स्त्रयस्ते सागरा इव ॥६॥

तेषामवाप्तविद्यानां योग्यानां च स्वकर्मणि१३ ।
पितरः स्वानि कर्माणि१४ प्रददुर्हृष्टमानसाः ॥७॥

अणुहः प्रददौ राज्यं ब्रह्मदत्ताय पुष्कलम् ।
कीर्तिमत्या च सहितस्ततो वनमगाच्य सः ॥८॥

पुरोधा धृतरातस्तु१५ पुत्रं स्वे कर्मणि प्रभुः ।
स्थापयित्वा जगामाथ१६ पञ्चालं शंसितव्रतः ॥९॥

सचिवोपि सुधन्वा तु ब्रह्मधन्वानमच्युतम्१७ ।
पुत्रं स्वे कर्मणि स्थाप्य जगाम सह भार्यया ॥ 8.57.१०॥

गतेषु तेषु स्वाल्ँलोकान्१८ ब्रह्मदत्तः प्रतापवान् ।
पञ्चालब्रह्मधन्वभ्यां१९ सह राज्यं चकार ह ॥११ ॥

प्रशासतस्तथा राज्यं यजतो भुञ्जतश्च ह२० ।
जग्मुः सुखेन बहुलाः समाः सुकृतिनस्तदा२१ ॥१२॥

अथ कालेन महता सभार्यः ससुहृज्जनः ।
तस्थौ स वेश्मनि२२ सुखं कुबेर इव पुष्पके२३ ॥१३ ॥

ततः सर्वरुतज्ञाता२४ पिपीलं कामकारणात्२५ ।
पिपीलिकायाञ्चाटूनि२६ कुर्वाणं सोन्वपश्यत२७ ॥ १४॥

स तु ज्ञानाद्२८ विनिश्चिन्त्य२९ कृमियोनावपीदृशम् ।
विवृतं३० शब्दवच्चैव हासमुत्सृजतानघ३१ ॥१५॥

तां - घ । ११ लोकपाला घ., भूयस्ते - क. । १२ शिवात्मान - घ. । १३ स्वेन कर्मणा - घ. । १४ स्वामिकर्माणः - घ. । १९ धृतराष्ट्रस्तु - ख., श्रुतवागस्तु - घ. । १६ जगामाशु - ख । १७… प्रच्युतः - घ- । १८ स्वर्लोकान् - घ. । १९… न्याभ्यां - क. ख., सत्वाभ्यां - घ. । २० जयतस्तस्य तैः सह - घ. । २१ स्तथा - ख घ. । २२ स्ववेश्मनि - क. । २३ पुष्करे - घ. । २४ सर्वरुतं ज्ञात्वा - क. ख. घ । २५ पिपीलकमकारणात् - घ., कामकारिणं - क. । २६… श्चाटूनि - क. ख., … ञ्चाशक्तमानसं - घ. । २७ सोनुपश्यत - क. घ । २८ ज्ञात्वा - क. ख. घ. । २९ विनिश्चित्य - ख, घ.. । ३०.. निमित्तं - ख. । ३१… नघ - क. ।
तत्तस्य हसितं दृष्ट्वा पत्नी नीलोत्पलेक्षणा३२ ।
चुकोप किमिदं मेद्य विकृतं लक्षितं त्वया ॥ १६ ॥

तां स राजा स३३माविग्नः३४ प्रियां प्राणैर्गरीयसीम् ।
प्रसादय३५न्न चैवास्य प्रसीदत३६ शुभानना ॥१७॥

सा यदा बहु तथ्यञ्च३७ उच्यमाना न तुष्यति ।
तदा तस्याः प्रसादार्थे ३८ स विष्णुं सम्प्रसादयत् ॥१८॥

देवं३९ सालवनं४० गत्वा पञ्चालेन सहैव सः ।
ब्रह्मधन्वपुरोवाहो रथेन महता महान्४१ ॥१९॥

तत्रासौ सप्तमे त्वह्नि४२ विष्णुनाभिविसर्जितः ।
जगाम नरशार्दूलः काम्पिल्यं४३ स्वं पुरोत्तमम्४४ ॥8.57.२० ॥

एतस्मिन्नेव काले तु चत्वारो ब्राह्मणाः शुभाः ।
योगेन महता युक्ता इदमूचुः परस्परम् ॥२१ ॥

वयं कृतार्थाः किं कार्यमिह तिष्ठाम मानुषे ।
गच्छाम४५ ब्रह्मयोनिं स्वां मुच्यामोस्मान्महाभयात्४६ ॥२२॥

अवसीदन्ति ते चैव४७ त्रयोस्माकं४८ सहव्रताः ।
बोधयामेह४९ ताँश्चैव यथा नेयुः पराभवम्५० ॥२३ ॥

ततस्ते पितरं सर्वे प्रणम्योचुर्द्विजातयः ।
वयं योगेश्वरास्तात सिद्धा वै५१ स्वेन कर्मणा ॥२४॥

आपृच्छामो गमिष्यामः स्वां योनिं ब्रह्मनिर्मिताम् ।
त्यक्त्वेमान्५२ मानुषान् देहान्न५३ विसर्जय नमस्तव ॥२५॥

निलोत्पलेक्षणं - घ. । ३३ राजान - ख. । ३४ समाश्वास्य - घ., समाविग्नाम्- ख. । ३५ अडभवि आर्ष? । ३६ प्रसीदति - घ. । ३७ बहुधा तेन - घ. । ३८ प्रसादार्थं - घ. । ३९ देव - क. । ४० सप्तनन्दं - घ. । ४१ तदा - घ. । ४२ चाह्नि - घ. ख. । ४३ कम्पिल्यं - क. ख. । ४४ स्वपुरोत्तमम् - क. । ४५ गच्छामो गतिमिष्टां स्वां - घ. । ४६… पि मुच्यामो महाभयात् - घ. । ४७ चैवात्र - घ. । ४८ येस्माकं च - घ. । 8९ अवबोधेम - क. ख., आराधयाम - घ. । ५० पराभवः - घ. । ५१ सिद्धाश्च - घ, । ५२ त्यक्त्वेमं - ख. । ५३ मानुष देहं - ख. ।
पित्रोवाच
पुत्रानिच्छन्ति पितरस्तारयिष्यन्ति नो भयात् ।
भयं तच्चैहिकं पुत्राः परत्र च दुरासदम् ॥२६॥

ते यूयमृणसंयुक्ता५४ अमुक्त्वा स्वं५५ निबन्धनम् ।
कथं गच्छथ५६ भद्रं वो नाधर्मं परिपश्यथ५७ ॥२०॥

सुता ऊचुः
वयं योगेश्वरास्तात लोकाँस्तुभ्यमनामयान्५८ ।
प्रयच्छामो५९ न सन्देहो यत्र६० गत्वा न शोचसि६१ ॥२८॥

अस्माभिस्त्वं कथं पुत्रैर्ब्रह्मत्वं नाप्नुयाः पितः ।
इहापि लोके द्रव्यं ते विधास्यामस्तथा६२ शृणु ॥२९॥

इदं६३ त्वं६४ पत्रमादाय६५ ब्रह्मदत्तस्य दर्शय ।
स वाचयन्नेव६६ नृपो वृत्तिं ते संविधास्यति ॥8.57.३० ॥

सनत्कुमार उवाच
प्रभावज्ञस्ततस्तेषां६७ पिता स मुनिपुङ्गव६८ ।
मेने तद्वै६९ तथा सर्वमनुमेने च तत्पुनः ॥३१ ॥

अथासनानि बद्ध्वा ते युक्ता जग्मुस्तपोधनाः७० ।
ज्योतिर्भूतानपश्यच्च पिता तेषामतिद्युतिः ॥३२॥

स तु लेखं समादाय पुत्रान्स्वानभिचिन्तयन्७१ ।
काम्पिल्यमगमत्तूर्णं दिदृक्षुर्नृपसत्तमम् ॥ ३३ ॥

स च राजा सालवना७२ दागतः प्राविशत्७३ पुरम् ।
ब्राह्मणो दूरत७४ श्चास्य तं लेखं समदर्शयत ॥३४॥

यूयं मृगसम्मुक्ता?- घ. । ५५ अनुक्रोश - घ. । ५६ गच्छत - घ. । ५७ पविपश्यत - क खः- परिपच्यत- घ । ५८ -.. स्त्वद्य निरामयान् - घ. । ५९ प्रयच्छाम - क. ख. । ६० येषु - क., घ । ६१ न शोचति - घ । ६२ तथा - ख । ६३ इम - क ख. । ६४ त - घ. । ६५ पुत्रमादाय - क- ख मन्त्रमादाय - घ । ६६ धारयन्नेव - घ । ६७ प्रभावान्निर्गतस्तेषां - घ. । ६८ मुनिपुङ्गवः - क., ख. । ६९ तच्च - घ । ७० युक्तात्मानस्तपोधना. - घ. । ७१ परिचिन्तयन् - घ । ७२ राजा सालवनात् तस्मात् घ- । ७३ प्रविशन् - क. । ७४ ब्राह्मणैर्दूरत - क. ।
निमित्तानि च संलक्ष्य शुभानि स नराधिपः ।
लेखमानयतेत्युक्त्वा धारयामास तं रथम् ॥३५॥

स पुरद्वारसंस्थस्तु रथेन महता तदा ।
ब्रह्मधन्व७५ धृतच्छत्रः७६ पञ्चाला७७ वीजिताननः ॥३६ ॥

गृहीत्वा लेखमव्यग्रमवाचयत७८ तं तदा ।
श्लोकद्वयं७९ चाप्यभवत्तस्मिल्ँलेखे शुभप्रदम् ॥३७॥

ये ते गुरुकृताच्छापाद् गोवधेनावपीडिताः ।
पितृभक्त्या कृतज्ञाना८० जाताः सर्वे शुभोदयाः ॥३८॥

सप्तव्याधा दशार्णेषु८१ मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः शरद्वीपे८२ हंसाः सरसि मानसे ॥३९॥

तेपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।
प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ ॥8.57.४० ॥

सनत्कुमार उवाच
श्लोकद्वयं८४ तथा८५ श्रुत्वा त्रयस्ते विषपीतवत् ।
मोहं तदा तु८६ सम्प्राप्य लब्धसञ्ज्ञा विशन्पुरम् ॥४१॥

ते प्रविश्य पुरञ्चैव वेश्म८७ चैवाप्यतन्द्रिताः ।
इति चेति च सञ्चिन्त्य८८ वनाय दधिरे मनः ॥४२॥

सा च८९ पत्नी महाभागा अभिगम्य९० नराधिपम् ।
इदमाह मुदा युक्ता राजानं ससुहृज्जनम् ॥४३॥

भवान् योगेश्वरो भूत्वा सक्तो भोगेषु सर्वशः ।
प्रबोधार्थं ततोहन्ते क्रोधमाहारयन्तदा ॥४४॥

पुरोधसा - ष । ७६ धृतं छत्रं - क. । ७७ पाञ्चाली - ख. । ७८ अवाचयत् - क. । ७९ श्लोक्त्रयमित्यन्यत्र । ८० हृतज्ञाना - क. । ८१ तु - क. । ८२ सरद्वीपे । ८३ तेभ्यः - क. ख. । ८४ श्लोकत्रयमित्यन्यत्र । ८५ तदा- - ख; । ८६ नु - ख. । ८७ वेश्यं - ख । ८८… नुता - क. वेनाय - ख. । ८९ सापि - क. । ९०. अधिगम्य ख; ।
जानामि त्वां रुतज्ञञ्च९१ जानामि त्वां खगन्तथा ।
अतोहं जानती राजन् प्रतिबोधार्थमुद्यता ॥४५॥

तस्माद्विप्रमिमञ्चैव तेषां पितरमव्ययम् ।
धनेन योजयस्वाद्य पुत्रं९२ राज्येभिषिच्य च९३ ॥४६॥

श्वो गच्छाव९४ वनं राजन९५ मा कालं प्रतिपालय ।
राजा तत्कृत्यमखिलं९६ कृत्वा पत्न्या सहव्रतः९७ ॥४७॥

जगाम वनमुद्दिश्य योगेन च दिवं ययौ ।
पञ्चालोपि गते तस्मिन् तपः कृत्वा सुदुश्चरम्९८ ॥४८ ॥

चकार पारणं९९ चैव यक्षत्वं१०० चाप्यवाप१०१ ह ।
ब्रह्मधन्वा च कालेन१०२ सुमहात्मा१०३ दृढव्रतः ॥४९॥

हिमवत्तनयां देवीं तपसा समपश्यत१०४ ।
वरदां तां तदा दृष्टवा१०५ ब्रह्मधन्वाब्रवीच्छुभाम् ॥8.57.५० ॥

इच्छामि कामरूपित्वं१०६ त्वद्भक्तिं चैव१०७ नित्यदा ।
कृच्छ्रं महच्च प्राप्तस्य१०८ त्वयैवोद्धरणं ततः ॥५१ ॥

एवमस्त्विति सा चोक्त्वा जगामेष्टां गतिं तदा ।
बह्मधन्वापि मत्तोभून्मदनेन दुरात्मवान्१०९ ॥५२॥

स भूत्वा धार्मिकः पूर्वमधर्मेणाभिपीडितः११० ।
अभिमेने१११ स कन्याश्च११२ ऋषीपत्नीश्च सर्वशः ॥५३ ॥

भर्तृरूपेण गत्वा च कामेन स विमोहितः ।
न च कश्चिद्विजानाति११३ तथा११४ वर्तन्तमन्तशः ॥५४॥

अथ हाल११५ इति ख्यातो मृगचारी महातपाः ।
तस्य पत्नी सुधर्माभून्नाम्ना रूपवती११६ दृढम् ॥५५॥

मृगी तं च - घ. । ९२ पुत्रो - ख. । ९३… भिषेच्यतां - ख.,. .ते - घ. । ९४ गच्छावो -क., गच्छाम - ख घ ।. ९५ राज्या (त्) - क. । ९६ तत्सर्वमखिलं - घ. । ९७ दृढव्रतः - घ. । ९८ सुदुस्तरम् - घ.. । ९९ परमं - ख., पावनं - घ. । १०० पञ्चत्वं - घ. । १०१ चैवमाप - घ. । १०२ कामेन - घ. । १०३ स महात्मा - घ. । १०४ तामपश्यत - घ । १०५ ब्रह्मन - घ. । १०६ कामरूपत्व - घ. । १०७ त्वद्भक्तत्वं च - ख । १०८ कृच्छ्रे महति सम्प्राप्ते - घ. । १०९ दुरात्मना - घ. । ११० तिपीडितः -ख । १११ अभिमाने - ख., अभिरेमे - घ. । ११२ शकल्याश्च - घ., कामाच्च - ख. । ११३ न कश्चित्तम्- विजानाति - घ. । ११४ वृत्तं - घ. । ११५ काल - घ. । ११६ धर्मवती - क, ।
कथयन्ति हि तां देवाः सिद्धाश्च सह चारणैः ।
असमा रूपतोन्याभि११७स्त्रिषु११८ लोकेषु भामिनी११९ ॥ ५६॥

न च तस्य सभार्यस्य१२० अन्तरं स बुबोध ह ।
कस्मिन्१२१ काले भवेत्तस्या१२२ विरहः१२३ पतिना सह ॥५७।
स ब्रह्मधन्वा तां श्रुत्वा तथा रूपवतीं सतीम् ।
पत्यास्या विरहाकाङ्क्षी व्याघ्ररूपं चकार ह ॥५८ ॥

कृत्वा च सुमहद्रूपं विकृतं भैरवं तदा ।
अत्रसयत् मृगान् व्यास दर्शनेन सुबालिशः१२४ ॥५९॥

तद्१२५ व्याघ्रभयसन्त्रस्तमृगयूथं तदा विभो ।
मनोनिलजवव्यग्र१२६मदृश्यं सम्प्रपद्यत ॥8.57.६० ॥

मृगैः सह च हालोपि१२७ जीवितैषी तदा गतः ।
सुधर्मा१२८ ब्राह्मणी सापि१२९ भयाद् व्याघ्रस्य भामिनी१३० ॥६१ ॥

स्त्रीस्वभावाच्च पतिता१३१ नान्वगच्छन्मृगव्रजम् ।
एकाकिनीञ्च तां दृष्टवा ब्रह्मधन्वा दुरात्मवान् ॥६२॥

व्याघ्ररूपं समुत्सृज्य तामिदं प्रत्यभाषत ।
मृदुना सान्त्वयुक्तेन१३२ वचसा भयपीडिताम् ॥३३ ॥

मा भीर्भवतु ते भद्रे१३३ पतिस्तेहं सुमध्यमे ।
मृगराजो गतोसौ च समाश्वस मम प्रिये ॥ ६४॥

तं समाश्वस्य सापश्यत् पतिरूपं महायशा ।
हृदा चाचिन्तयद्१३४ दृष्टो मयासौ तैर्मृगैः सह ॥६५ ॥

जीवितैषी पलायन् वै१३५ कुतोयं पुनरागतः ।
देवेन्द्रो मा दुराचारः सदा धर्ष१३६त्यतन्द्रितः ॥६६॥

रूपेणासमतां - ख., अभिरेमे स तां चापि - घ. । ११८ स्त्रीषु - घ. । ११९ भाविनी - ख. घ. । १२० न स तस्याः शुभापाङ्ग्या - ख घ. । १२१ तस्मिन् - क., यस्मिन् - ख. घ. । १२२… भवत्तस्या - घ. । १२३ विवाहः - घ । १२४ दिवानिशं - घ । १२५ तं - घ. । १२६ मनोनिलवदव्यग्र - क. ख., मनोनी.. - घ. । १२७ सहचरः सोपि - घ. । १२८ सुधन्वा - घ. । १२९ चापि - घ. । १३० कामिनी - ख. । १३१ पतिना- घ. । १३२ शन्तियुक्तेन घ. । १३३ भद्रं मे (ते) - क ख । १३४… पचिन्तयद् - ख. । १३५ पलायँश्च - ख. । १३६ धर्त्तु - क. खः. । धर्षम्? ।
सोयं कामयितुं प्राप्तः किन्न स्यादन्तरैषिवान् ।
तस्माद् द्रक्ष्याम्यहं सम्यग् दुष्टं दिव्येन चक्षुषा॥६७॥

सनत्कुमार उवाच
एतस्मिन्नन्तरे सोथ ब्रह्मधन्वा करेग्रहीत् ।
तामिदं चोचिवान् हष्टः१३७ किं त्वं चिन्तयसे हृदा ॥६८॥

न मामालिङ्गसेद्य त्वं१३८ मृत्योरास्याद्विनिर्गतम्१३९ ।
ननु तेहं प्रियो भर्ता मा क्रुधो वरवर्णिनि ॥६९॥

ततस्तां स तदा दौष्ट्यात् कपोले समजिघ्रत ।
परिष्वज्य च दुष्टात्मा गात्रैर्गात्राण्यपीडयत् ॥8.57.७०॥

नीवीं व्यस्रं सयच्चैव१४० अधरं चापिबद् बलात् ।
बुबुधे सा च तं दुष्टं कर्मणा तेन शोभना ॥७१ ॥

सुधर्मोवाच
न त्वं मम पतिर्मूढ शक्रस्त्वं नात्र संशयः ।
न भूयो१४१ मदनस्यास्मि१४२ विषयोहं१४३ सुदुर्मते॥७२॥

स तयाप्येवमुक्तस्तु अवधूतश्च सर्वशः ।
पपात धरणीपृष्ठे स्वं च रूपं प्रपद्यत ॥७३॥

ततः सा क्रोधताम्राक्षी धक्ष्यमाणेव चक्षुषा ।
निरीक्ष्य वदनं सुभ्रूरिदं वचनमब्रवीत् ॥७४॥

ऋषिपत्न्यस्त्वया बह्व्यो व्यंसिताः दुष्टचेतसा११४ ।
न मादृशी त्वया काचिदन्या ह्यसादिता१४५ पुरा ॥७५॥

इदानीं कर्मणस्तस्य पूर्वमाचरितस्य ते१४६ ।
फलं प्राप्तमिदं पश्य मत्सकाशाद् दुरासदम्१४७. ॥।७६॥

दृष्टवा - ख., धृष्ट? । १३८ सोहमालिङ्ग हेभद्रे - ख. । १३९ विनिर्गतः - - ख. । १४० विस्रंयच्चैव - क. ख., विस्रंसयँश्चैव - ख. । १४१ न भये -ख, उभयो. क. । १४२. .स्ति -.क. व. । १४३ बिक्षयोर्ध्वं - ख, विषमेर्ध्वं - क. । ’ १४४ दुष्टचेतसः - क, । १४५.. .प्यासादिता - ख. । १४६ च - ख. । १४७ दुरासद - क. ख. ।
यदेव रूपं कृत्वा त्वं१४८ मृगानत्रासयो१४९ बलात् ।
विचरिष्यसि तेनैव रूपेण बहुलाः समाः ॥७७॥

अशक्तश्चापि हन्तुं त्वं भविता मानुषं१५० क्वचित् ।
षष्ठे च काले सम्प्राप्ते मृगं भक्ष्यमवाप्स्यसि ॥७८॥

सनत्कुमार उवाच
अभिव्याहृत्य तं क्रूरं शुभाचारा मनस्विनी ।
जगाम तान्मृगाँस्त्वेव ततः पतिमपश्यत ॥७९॥

सोपि दुःखेन सन्तप्तो मन्वानस्तां हतेति१५१ च ।
विलपन्नेव१५२ तां दृष्टवा परिष्वज्येदमब्रवीत् ॥8.57.८० ॥

दिष्ट्या त्वमसि सम्प्राप्ता मृत्योरास्याद्विनिःसृता ।
कच्चिन्न तेन दृष्टासि मृगराजेन शोभने ॥८१ ॥

सुधर्मोवाच
नासौ मृगेन्द्रो दुर्बुद्धिः कोप्यसौ कामरूपवान् ।
मदर्थं१५३ समनुप्राप्तो मया१५४ दग्धः पतङ्गवत् ॥८२॥

स शापान्मम दुष्टात्मा१५५ शार्दूलप्रकृतिं गतः ।
राजेव शक्तिशापेन सौदासो राक्षसीं तनुम् ॥८३ ॥

सनत्कुमार उवाच
तस्यास्तद्वचनं श्रुत्वा हालो धर्मार्थतत्त्ववित् ।
दिव्येन चक्षुषापश्यद् ब्रह्मधन्वानमव्ययम्१५६ ॥८४॥

तामुवाच सतीं भार्यामिदं स करुणात्मकः ।
कृतं दुष्टं त्वयात्रेयि सद्भिः कर्म विगर्हितम्१५७ ॥८५॥

महतस्तपसस्तेद्य क्षयोयं सुमहान् कृतः ।
न दुष्यन्ति स्त्रियः साध्वि नद्यो यद्वद् विगाहनैः१५८ ॥८६॥

सो (दौ?) - क., तु - ख. । १४९… नत्रासयद् - क ख । १५० मानुषान् - क. । १५१ मत्वातस्तां हतेति च - क., प्रियां पत्नीमचिन्तयत् - ख. । १५२ विललाप च - क. । १५३ मदनं - क । ५५४ समनुप्राप्तस्ततो - क. । १५५ शापाद् दुष्टकर्मासौ - ख. । १५६.. मप्युत - ख. । १५७ सर्वं - क । कर्मसङ्गिन् विगर्हितम्? । १५८ द्धिजन्तुभिः - क., द्विजान्तवैः - ख. ।
न चैव शक्यं१५९ धर्मेण सङ्गुप्तां त्वां प्रमर्दितुम्१६० ।
यथा विषेण सञ्छन्नमन्नं भोक्तुं हि मानवैः ॥८७॥

अत्र ते वर्त्तयिष्यामि पुरावृत्तं महातपे ।
यत् पतिव्रतया पूर्वं कृतं दीप्तेन तेजसा ॥८८॥

आसीद् भलन्दनो१६१ नाम ऋषिः परमधार्मिकः ।
विद्वाँश्चैव१६२ दयावाँश्च पृथिवीवद् व्यवस्थितः१६३ ॥८९ ॥

ऋग्नाम्नी१६४ तस्य भार्याभूद् वासिष्ठी पुण्यलक्षणा ।
रूपेणाप्रतिमा साध्वी न तस्याः स्त्रीः१६५ समा क्वचित् ॥8.57.९० ॥

पतिव्रता महाभागा सर्वधर्मविदुत्तमा ।
तस्याः पतिमृते नान्यद्दैवतं भुवि विद्यते ॥ ९१ ॥

अपश्यत कदाचिद्वै देवास्तौ कमलेक्षणाम् ।
तस्या रूपगुणोन्मत्ता१६६ लेभुर्न१६७ धृतिमेकशः ॥९२॥

न शक्यते च सा प्राप्तुं न दूतीभिर्न कर्मणा१६८ ।
न दानेन१६९ न सम्मानै१७० र्न बलेन न सेवया ॥९३ ॥

वह्निस्तामग्न्यगारस्थां१७१ प्रविष्टामग्रहीच्छुभाम्१७२ ।
न चापि१७३ साहमस्मीति१७४ न च नास्मीत्यथा१७५ब्रवीत् ॥९४॥

न क्रोधो नापि दर्पोस्या न मानो१७६ न च मत्सरः१७७ ।
तस्याः प्रियमभून्नान्यत् पतिमेवान्वचिन्तयत्१७८ ॥ ९५ ॥

विभावसुरपि१७९ व्यक्तमियं मामिच्छतीति ह ।
अभ्युपेत्य न१८० दुष्टेति१८१ भावेन सुरसत्तमः१८२ ॥९६॥

अथ हित्वा स्वकं देहमदेहः१८३ समपद्यत ।
एवं वै भास्करो वायुर्वरुणश्चन्द्र एव च ॥९७॥

शक्तो - क ख. । १६० प्रधर्षितुं - घ । १६१ भलन्दलो - क, भगन्दलो - ख. । १६२ सिद्धश्चैव - ख. । १६३ पृथिव्यामध्यवास्थितः - ख. । १६४ ऋन्नाम? - क, ऋग्नामा - ख. । १६५. सीत् - ख. । १६६ रूपगु- णैर्मत्त-। - ख. । १६७ लेभिरे नैकशो धृतिमिति लेभिरे नैव ते धृतिमिति वा पाठः साधीयान् स्यात्। १६८… भूतैर्न कर्मणा - क. घ. । १६९ दान्येन - क । १७० - -चान्येन - क। १७१… मग्रतीरस्थां - ख. । स्थः? । १७२ मतनीच्छुभाम् ख। १७३ चाहं ख। १७४ मस्तीति क., मास्मेति (?), १७५ तथा - ख । १७६ न च मानो क, ख। १७७ न मत्सरः - क ख. । १७८… भ्यचिन्तयत् - घ. । १७९.. मपि - ख । १८०..न्न - कः, नु - ख. । १८१ न - ख । १८२ मं - ख. । १८३ देहं विदेहः - घ. ।
सर्वे विदेहाः संवृत्तास्ततस्तां सम्प्रसादयन् ।
सापि तान्नावदत् किञ्चित् पुरुषानघशङ्कया१८४ ॥९८ ॥

भर्तुश्चाकथयत् सर्वं स तानिदमुवाच१८५ ह ।
इयं पत्नी महाभागा मम सर्वाङ्गसुन्दरी ॥९९॥

नेयं कुप्यति युष्माकं जाने१८६ ह्यस्या व्रतं शुभम् ।
मत्तोपि वो भयं नास्ति नाहं कुप्ये कथञ्चन ॥ 8.57.१०० ॥

मत्प्रसादाद्विदेहापि देहवन्तो भविष्यथ ।
ततस्ते देहवन्तो वै तुष्टुवुस्तं भलन्दनम्१८७ ॥ १०१ ॥

ऊचुर्वरं वृणीष्वाद्य तुष्टाः स्मस्तव१८८ सर्वथा ।
सोवाच रजसा१८९ नार्यः१९० शुद्ध्यन्तु१९१ मदनुग्रहात् ॥ १०२ ॥

कर्मणा च विमुच्यन्तां१९२ व्यवहार्या भवन्तु च ।
सर्वशौचा भवेयुश्च अदुष्टाः सर्वकर्मसु१९३ ॥ १०३ ॥

हाल१९४ उवाच
ततस्ते तं नमस्कृत्य सभार्यं१९५ ब्रह्मवादिनम् ।
जग्मुर्देवाः प्रशंसन्तः सर्वे१९६ वह्निपुरोगमाः ॥ १०४॥

एवं त्वमपि धर्मज्ञे१९७ नित्यं पतिमनुव्रता ।
कस्त्वां समर्थो देवोपि स्प्रष्टु१९८मन्ये१९९ कुतो जनाः२०० ॥१०५॥

तीर्थभूताः स्त्रियश्चापि न दुष्यन्ति कथञ्चन ।
मद्रूपं कृतवान् यस्मात्तस्माच्छापं न चार्हति२०१ ॥१०६॥

तस्मात्करिष्ये तस्याहमदृष्टस्यापि२०२ शोभने२०३ ।
अनुग्रहं धर्मयुक्तं येन श्रेयो ह्यवाप्स्यति२०४ ॥ १०७॥

न्यर्त्ति… - क.,.. त्मनः - ख, परिशङ्कया - घ. । १८५ तामिदमुवाच - क. । १८६ सत्वं - घ. । १८७ भलन्दलं - क., भगन्दलं - ख । १८८ तव - क । १८९ वचनं - घ. । १९० स्त्रीणां - ख. । १९१ शुद्धिः स्यानृ… - ख. । १९२ मनोवाक्कर्मभिर्मुक्ता - ख. । १९३ पवित्राः सर्वतः शुद्धाः स्त्रिय एव हि कर्मसु - ख. । १९४ सन. - क. । १९५ सम्भाष्य - घ. । १९६ इन्द्रपुरोगमाः - घ । १९७ धर्मज्ञा - क. । १९८ द्रष्टुं - घ. । १९९… मन्यत् - क. ख., मन्यः - घ । २०० जनः - क. घ । २०१ च नार्हति - क. घ. । २०२… मदुष्टस्यापि - घ.,.. न्दुष्टस्यापि करिष्यति - ख । २०३ हि शोभते - ख. । २०४ यमाप्स्यसि - ख. ।
व्याघ्रस्यापि प्रिये तस्य स्मृतिर्नित्यं भविष्यति ।
सर्वकार्येषु२०५ धर्मेषु२०६ धर्मेण च चरिष्यति२०७ ॥१०८॥

यतोस्य२०८ कामरूपित्वं येन मत्तः सदा ह्यभूत् ।
तत एव पुनः श्रेयः प्राप्स्यते मदनुग्रहात् ॥ १०९॥

सनत्कुमार उवाच
स एष व्यास२०९ दुष्टात्मा विश्वामित्राश्रमे रतः ।
अग्रारण्ये२१० सदा ह्यासीद्देव्या गणापतिः कृतः ॥8.57.११०॥

य इदं२११ तस्य माहात्म्यं धारयेच्छ्रावयीत वा ।
सततं ब्राह्मणं२१२ व्यास योगैश्वर्यमवाप्नुयात् ॥१११॥

योगेश्वरत्वं काङ्क्षद्भिरेतदध्येयमन्तशः ।
जन्मान्तरं समासाद्य प्राप्नुवन्ति न संशयः ॥११२॥

शृणुयाच्च इमं सततं प्रयतः शुचिरेकमना मनुजः२१३ ।
प्रियवत्स हि शक्रसमानवपुः सुकृतेन कृतेन पुमान्२१४ ॥११३॥

इति स्कन्दपुराणे सप्तपञ्चाशोध्यायः