अजय्यः - ख । ५१ समन्वितः - क. । ५२ तथा चेष्टा - क. । ५३ अनावेश्यश्च - ख. । ५४ सदा देवि - घ. । ५५ महातेजो - क ख । ५६ त्सदा - (?) । ५७ दत्त्वा च - घ. । ५८ चाभि… - घ. क. । ५९ प्रदक्षिणं - क ख. घ. । ६० स्वर्लोकमगमत्तदा - घ. । ६१ कर्हिचित् - घ. । ६२ सोमनन्दिरिति - घ. ।
व्यास उवाच
भगवन् यत्त्वयाख्यातं पूर्वं नरकवर्णने१ ।
दुष्कृतं कर्म कृत्वा तु नरा नरकगामिनः२ ॥१ ॥
भवन्ति३ सुकृताः सर्वे४ स्वर्गसौख्यसमायुताः५ ।
ब्राह्मणा दुष्कृतं कृत्वा गत्वा दुर्गतिमापदम् ॥२॥
कथं भूयः समायन्ति स्वर्ग७सौख्यफलं महत् ।
योनीर्वा कथमागम्य बह्वीः सङ्करजातिषु ।
भूयः सुकृतिनो भूत्वा प्राप्नुवन्ति शुभां गतिम् ॥३ ॥
सनत्कुमार उवाच
शृणु व्यास पुरावृत्तम्८ दशार्णेषु तु यच्छ्रुतम्९ ।
सप्तानां१० द्विजशिप्याणामशुभं शुभमेव च ॥४॥
आसीत् सुपर्वा विख्यातः कौशिको ब्राह्मणः शुचिः ।
धार्मिकश्च वदान्यश्च विद्वान् विप्रैः सपूजितः ॥५ ॥
तस्य शिष्या बभूवुर्हि सप्त दुर्मेधसश्च ते११ ।
गुरुशुश्रूषणेसक्ता१२ नामतस्तान्निबोध मे ॥६॥
आत्रेयः कण्डरो१३ नाम उपमन्युश्च दामनः१४ ।
शाण्डिल्यश्चैव हालोभूद् गार्ग्यश्च१५ विदलस्तथा ॥७॥
शैशिरो गौतमश्चैव दण्डकीलश्च काश्यपः ।
विदर्भश्चैव हारीत इतीमे सप्त विश्रुताः ॥८ ॥
उपाध्यायोथ तान्विप्रान् प्रोवाचेदं महातपाः ।
अचिराद् गामितो गत्वा याज्यदत्तां सुरूपिणीम् ॥९॥
गत्वानयत होमार्थे१६ शीघ्रं माहिष्मतीं पुरीम् ।
त एवमुक्तास्तेनैव माहिष्मत्यास्त्वतन्द्रिताः ॥ 8.56.१० ॥
नरकवर्णनं - घ. । २ - - निर्भयाः - ख. । ३ तरन्ति - घ. । ४ स्वर्गे - क. ख । ५ सर्वसौख्यसमायुताः - क. ख. । ६ ब्राह्मणं - क. । ७ स्वर्गे - क. । ८ यथावृत्तं - घ. । ९ यच्छुभं - क. ख., द्विजन्मनां - घ. । १० मर्त्यानां - घ. । ११ स्तु - ख., स्तथा - घ. । १२ भक्ता - क., रक्ता - ख., शुश्रूषणरताः - घ. । १३ कुण्डुरो - घ । १४ नामतः - क. ख. घ. । १५ … द्दर्भश्च - घ. । १६ होमार्थं - ख. ।
गामादाय निवर्तन्तो१७ मृत्तिकावतिमन्तशः१८ ।
अनावृष्ट्या ततस्तेतु दुर्भिक्षे परिवर्तति१९ ॥ ११ ॥
क्षुधापरिगताः सर्वे किम्भक्षाः सम्बभूविरे ।
सप्तमेहनि२० सञ्जाते२१ निराहाराः सुदुःखिताः ॥ १२ ॥
अमन्त्रयन्त२२ गामेतां भक्षयाम किमास्यते ।
तेषां यः कण्डरो२३ नाम आत्रेयकुलसम्भवः ॥ १३ ॥
स तानुवाच मा धेनुं भक्षयाम गुरोरिमाम् ।
गुरोरर्थे हि नः श्लाघ्या२४ मृत्युरप्यविचक्षणाः ॥१४॥
मा गुरोः क्रोधनिर्दग्धा यास्याम निधनं वयम् ।
ते यदा तद्वचो नैव जगृहुः क्षुत्प्रपीडिताः ॥ १५॥
स तदोवाच भूयस्तानिदं वचनमर्थवत् ।
यदि वोवधृतं२५ विप्रा भक्षणेस्यास्तपोधनाः ॥ १६॥
मा वृथा भक्षयामैनां पित्रर्थे२६ प्रोक्षयामहे ।
मा नो दोषद्वयेनेह लोपो२७ भवतु शोभनाः ॥ १७॥
एवं ह्यल्पेन दोषेण२८ वयं योक्ष्येम२९ सर्वथा ।
त एवमुक्ताः सम्यक्तु वचस्तस्यावधार्य च३० ॥१८॥
प्रोक्षयामासुरव्यग्रा पित्रर्थे तां३१ पयस्विनीम् ।
ततः संस्कृत्य विधिवद् निवेद्य च महामुने३३ ॥१९॥
हुताग्नयस्ततो भूत्वा प्रत्येकमुपभुज्य३४ च ।
वत्समेकं गले बद्ध्वा आनिन्युर्गुरवे३५ तदा ॥8.56.२० ॥
अथ दृष्टवा स३६ तं वत्सं धेनुं पप्रच्छ३७ तान्द्विजः ।
त ऊचुः पथि शार्दूलोवधीत्तामिति निर्घृणाः३८ ॥२१ ॥
वर्तन्ते - घ. । १८ मृत्युकालवशं गता - - घ.,. तरः - - क. । १९ परिवर्तत - क. । २० मासि - ख. । २१ जाते च - क., एते च - ख. । २२ आमन्त्रयन्त - ख. घ । २३ काण्डरो - क. । २४ श्लाघ्यो - ख. । २५ वोवभृतं - क,, वा निश्चितं - घ । २६ पित्र्यर्थे - क, पित्र्यर्थं - ख., पितॄणां - घ. । २७ लेपो - क., लोभाद्. घ । २८ श्रिया पुष्ट्या ततस्ते तु - घ, त्व (स्व) - क. । २९ योक्ष्य - ख., योक्ष्या - क., मोक्षा -घ. । ३० वचस्तस्य प्रधार्य च - घ. । ३१ तु - ख. । ३२ तपस्विनीम् - ख. । ३३ महात्मने - क. ख. । ३४ मुप. - घ. । ३५ बद्धमानिन्युर्गुरवे (?) । ३६., .धार्य च - ख. । ३७ यच्छ मे - ख. । ३८ तमूचूस्तस्य वै शिष्या न लब्धा गोरितस्ततः - घ. ।
अथ तेषां वचः श्रुत्वा शङ्कया च दुरात्मनाम् ।
दिव्येन चक्षुषापश्यद् भक्षितां तैर्महातपाः ॥ २२ ॥
सतः स रोषाद् रक्ताक्षो३९ निर्दहन्निव ताँस्तदा४० ।
उवाच वत्सं दृष्टवा च४१ कृपया भृशदुःखितः४२ ॥२३ ॥
युष्माभिर्भक्षिता सा हि तथ्यं४३ न कथितं च मे ।
कर्मणा तेन तस्माद्वो गतिः कष्टा४४ भविष्यति४५ ॥२४॥
प्रसादितः स तैः शिष्यैर्ब्राह्मणः सुमहाद्युतिः४६ ।
कृपया स च तानाह भूयः सर्वानिदं वचः ॥२५॥
यदुक्तं४७ तन्मया तथ्यं४८ न४९ तन्मिथ्या५० भविष्यति ।
येषां तु कृतवन्तः५१ स्थस्तेध्यवस्यन्ति५२ यच्छुभम्५३ ॥२६॥
मत्समीपे च न स्थेयमिदानीं वः कथञ्चन ।
दृष्टवा वत्समिमं बालं मा वो धक्ष्यामि गच्छत५४ ॥२७॥
अथ ते सहिताः सर्वे नष्टसञ्ज्ञा विचेतसः५५ ।
कालेन समयुज्यन्त चिन्तयन्तो गुरोर्वचः ॥२८॥
दशार्णा नाम सा व्यास सरित् पुण्यजला शुभा५६ ।
तस्यास्तीरे वनं दिव्यं विश्रुतं तत् सुभास्वरम् ॥२९॥
तत्र व्याधोभवच्छूरः क्षुपको५७ नाम वीर्यवान् ।
तस्य पुत्राभवँस्ते वै चितकायां महाबलाः ॥8.56.३० ॥
चितका सम्प्रसूता५८ तु पुत्राँस्तान् सप्त सम्मतान् ।
व्याधाः सर्वेभवंस्ते वै चैतका इति विश्रुताः ॥ ३१॥
चरन्ति सधनुष्कास्ते निघ्नन्तो५९ मृगपक्षिणः ।
सिंहान् व्याघ्रान् गजाँश्चैव६० वराहादीँश्च सर्वशः६१ ॥३२॥
रोषताम्राक्षो - घ. । ४. तेजसा - ख. । ४१ तु - घ. । ४२ च सुदुःखितः - ख., दुःखपीडितः - क घ. । ४३ तया - घ. । ४४ नष्टा.. - घ. । ४५ संसारान् प्रतिपद्य (त्स्य) थ - ख । ४६ ब्राह्मणैस्स महाद्युतिः - क. ख घ । ४७ यद्युक्तं - घ. । ४८ चोक्तं - घ. । ४९ च - ख. । ५०… थ्यं - क । ५१. न्तो - क । ५२ योध्य… - क. । ५३ योध्यवस्यत - ख. । ५४ व्याधत्वं समगच्छत - घ. । ५५ विसञ्ज्ञा नष्टचेतसः - क. घ. । ५६ पुण्यजला सदा - क. । ५७ क्षुपजो - ख. । ५८. ते - घ. । ५९ घ्नन्तो वै - क. ख. । ६० गणाँश्चैव - घ. । ६१ वराहाँश्च सुदारुणः - घ. ।
तेषां नामानि यानि स्म व्याधत्वे६२ तानि मे शृणु ।
काण्डारोर्जुनको नाम दमनः सिंहकोभवत्६३ ॥३३ ॥
हालोभूद् व्याघ्रकश्चैव विदलः६४ शरभस्तथा ।
शैशिरो हिमवाँश्चैव हस्तिको दण्डकीलकः ॥३४॥
विदर्भो६५ वज्रकश्चैव नामान्येतानि तेषु हि६६ ।
एकश६७ स्तेटवीं घोरां चरन्ति६८ पिशिताशनाः६९ ॥३५॥
हिंस्राः सत्वान्तकाः सर्वे योनिं दुष्टामुपागताः ।
कदाचिद्विचरन्तस्ते मृगान् घ्नन्तस्तथैव च ॥३६ ॥
उपाध्यायाश्रमं प्राप्ताः कर्मणा७० सुकृतेन ह ।
तत्र७१ तेषां भयोद्विग्नाः सर्व एवाभवन् मृगाः ॥३७॥
मृगान् भीतान् समालक्ष्य स विप्रः सुमहातपाः ।
न्यवैक्षत७२ दिशः सर्वा व्याधाँश्चापश्यदागतान् ॥ ३८॥
स्वशिष्याँस्तान्७३ परिज्ञाय ध्यानाद् व्याधत्वमागतान्७४ ।
प्रोवाच करुणाविष्टस्तेषामेव शुभेप्सया७५ ॥३९॥
शुश्रूषितः पुरा विप्रैर्युष्माभिरहमादरात्७६ ।
कर्मणा तेन चेदानीं गोबध्याकृतशापतः ॥8.56.४० ॥
व्याधत्वमिह सम्प्राप्ताः कुत्सितं हिंस्रवृत्ति यत्७७ ।
सा च७८ गौः पितृकार्येण भक्षिता वो न हिंसया ॥४१ ॥
तस्माद् यूयमितो भ्रष्टा७९ जातिस्मरणसंयुताः ।
मृगाः कालञ्जरे भूत्वा८० चक्रवाकाः पुनः८१ सरे ॥४२ ॥
द्वीपे ततः पुनर्हंसा भूत्वा वै मानसे ह्रदे ।
भूयश्च मानुषा भूत्वा जातौ जातौ८२ सचेतनाः ॥४३ ॥
योगयुक्ता महात्मानो मत्प्रसादादतन्द्रिताः ।
सर्वकिल्बिषनिर्मुक्ता ब्रह्मलोकमवाप्स्यथ ॥४४॥
व्याधानां -घ. । ६३ शिशिरो हिमवाँश्चैव विरूपो विश्वरेतनः । वीरो वीरतरुः स्वेदो नामान्येतानि तेषु च- घ. । ६४ विशदः - ख. । ६५ विभर्गो - क, विभग्नो - ख. । ६६ च - घ. । ६७ एकदा - क. घ. । ६८ चरन्तः - घ. । ६९ पिषितैषिणः - घ. । ७० कर्म स्म (स्व?) - घ. । ७१ तस्य - घ. । ७२ अवैक्षत - ख । ७३ स शिष्याँस्तान् - ख., स मुनि - घ. । ७४ ध्यानात्मा समुपस्थितान् - घ. । ७५ शुभं वचः - घ. । ७६… रिदमातरात् - घ. । ७७ हिंस्रवृत्तिमत् - ख. घ. । ७८ साधु - घ. । ७९ भूय इयमितो - ख, तस्मात् शापात् परिभ्रष्टा - घ. । ८० भूता - घ. । ८१ पुरा - घ. । ८२ याताः - घ. ।
एतच्छ्रुत्वा ततस्तेषां पूर्वा स्मृतिरजायत ।
उपाध्यायोयमस्माकमिति बुद्धौ८३ तदा८४ भवत् ॥४५॥
ततः कर्म जुगुप्सन्तः पूर्व८५जातिकृतं च यत्८६ ।
प्रदक्षिणमुपावृत्य दशार्णामभितो८७ ययुः ॥४६॥
दशार्णातीरमासाद्य सम्मन्त्र्य च परस्परम् ।
जातिं पूर्वां८८ स्मरन्तस्ते मृत्युमेव प्रवव्रिरे ॥४७॥
निश्चितानां८९ ततस्तेषां काण्डरो९० योभवद् द्विजः ।
व्याधोर्जुनकनामा९१ स इदं वचनमब्रवीत् ॥४८॥
भवन्तो यन्मया९२ पूर्वमुक्तास्तन्न कृतं हि वः ।
इदानीं समनुप्राप्तं मावमन्यत मे वचः ॥४९॥
श्रेयो वोहं प्रवक्ष्यामि शृणुध्वं कुरुतैव च ।
जातिमेतां विमोक्ष्याम येन हास्याम न स्मृतिम् ॥8.56.५० ॥
पुत्रानिच्छन्ति पितरः पुष्ट्यर्थं तारणाय च ।
वयं च जनितास्तेन व्याधेन सुमहात्मना ॥५१ ॥
संवर्द्धिताश्च क्लेशेन मात्रा पित्रा तथैव च ।
अनापृच्छ्य९३ कथं तौ तु मृत्युमिच्छामहे वयम् ॥५२॥
ते यूयं९४ यदि मन्यध्वं तावापृच्छ्य९५ विसर्जिताः९६ ।
योक्ष्याम श्रेयसात्मानमेतद्वो९७ हितमुत्तमम् ॥५३ ॥
न चेद्विसर्जयेतां तौ९८ तयोः९९ शुश्रूषणे रताः ।
ततस्तावद्धि तिष्ठामो यावत् कालेन तौ मृतौ ॥५४॥
ततो वयं कृतात्मानो ह्यनृणाः१०० सर्वथापि च ।
गमिष्यामो गतिं१०१ पुण्यामेतन्नः श्रेय उत्तमम् ॥५५॥
एवमस्त्विति ते सर्वे गृहीत्वा तस्य तद्वचः ।
चिन्तयन्तः पुरो१०२ जन्म गृहानेवाभिजग्मिरे ॥५६॥
बुद्धि - घ । ८४… स्ततो - घ. । ८५ जुगुप्समानास्ते पूर्वं - ख । ८६ तत् - घ. । ८७ दशार्ण- मभितो - क घ. । ८८ पूर्वां जातिं - ख. । ८९ निश्चिन्तानां - क. । ९. काण्डारो - ख. । ९१ जनकनामा - घ. । ९२ ये मया - ख. । ९३ दृष्ट्वा - क., दृष्टा - ख. । ९४ तद्यूयं - ख., ते मृत्युं - घ. । ९५ मा पृष्ट्वा तौ - क. ख. घ. । ९६ विवर्जिताः - ख. । ९७ श्रेयसे मानमेतद्वो - ख. । ९८ तं - घ. । ९९ ताभ्यां - क. ख. घ. । १०० कृतात्मान अनृणाः - क. ख । १०१ मतिं - क. । १०२ पुरा - क. घ. ।
तानागतान् पिता दृष्ट्वा माता च चितका तदा ।
तुष्ट्या परमया१०३ युक्ता इदं तानूचतुर्वचः१०४ ॥५७॥
पुत्रकाः सुचिरादद्य यूयमभ्यागता गृहम्१०५ ।
अद्यावां१०६ सुदृढं मूढौ१०७ किं चिरं कृतमित्युत१०८ ॥५८॥
चितकोवाच
क्षुधाविष्टः पिता वोद्य१०९ पुत्रस्नेहेन पुत्रकाः ।
नात्ति मांसमिदं११० पक्बं सुराञ्च न पिबत्ययम् ॥५९॥
सनत्कुमार उवाच
तेपि जातिं जुगुप्सन्तः सर्वे वै पापयोनयः ।
इदमूचुः क्षुपं चैव चितकाञ्च शुभं वचः ॥ 8.56.६० ॥
भवन्तोश्नन्त्वविघ्नेन पुष्टये शान्तयेपि च ।
नाश्नीमो१११ वयमद्येह११२ श्वो भोक्ष्यामो११३ न संशयः ॥६१ ॥
ततस्तौ वृद्धभावेन न बुभुक्षासहौ तदा ।
आहारयेतामाहारं सुतुष्टौ च बभूवतुः ॥ ६२॥
तौ तु तुष्टौ समालक्ष्य सर्वेथ शिरसा नताः ।
ऊचुः प्रयत्नतो११४ वाक्यमैक११५मत्येन ते तदा ॥ ६३ ॥
पितरौ परिनिर्विण्णा वयमेतेन जन्मना ।
इच्छामस्तत् परित्यक्तुं११६ तन्नः सम्मन्तुमर्हथः११७ ॥६४॥
तेषां तद्वचनं श्रुत्वा पिता तानिदमब्रवीत्११८ ।
परिष्वज्य सुतान्११९ सर्वान् बाष्पपर्याकुलेक्षणः१२० ॥६५॥
अहमासं पुरा पुत्रा ब्राह्मणः शंसित१२१व्रतः१२२ ।
दिवोदासस्य राजर्षेः सखा परमसम्मतः ॥६६॥
च परया - घ. । १०४ तावूचतुर्वचः - क. । १०५ गृहान् - क. । १०६ अद्य वः - ख. । १०७ किञ्चित् - ख., भूमौ - घ. । १०८ चैवं कृत्यमित्युत - घ., चिरादागम्यतेत्युत - ख. । १०९ चाद्य - घ. । ११० मांसमिमं - क. ख. । १११ म - क, नाश्नीया - ख. । ११२. .मद्याहं - क. ख. । ११३ वयमद्य न भुञ्जाना भक्षात्मानो - घ.,.. म - क. ख. । ११४ प्रयततो - क, प्रमनसो - ख घ । ११५ मेकमत्येन - क. ख. । ११६. सम्परित्यक्तुं - क.,.. स्तौ - ख., इदं तु सं… - घ । ११७ शंसितुमर्हथः - घ. । ११८ माता समब्रवीत् ख, । ११९ स तान् - घ । १२०… लेक्षणौ - ख । १२१ सं शितव्रतः - घ । १२२… व्रताः - क. ।
स कदाचिद्वने रम्ये धनुषा कुरुते भृशम् ।
॥। ६७॥
योग्यात्तमहमाहेदं१२३ न त्वं१२४ वेत्सि धनुर्नृप ।
अजानन्१२५ किमिदं क्लेशं व्यर्थमेव१२६ करोषि च ॥६८॥
प्रोवाच राजा विप्राणां मन्त्रज्ञानं विधीयते ।
आमन्त्रणे भोजने च वाचा च कुशला द्विजाः१२७ ॥६९॥
- . . . . . .. . . - ।
स मया हसता१२८ प्रोक्त आनयस्व धनुर्मम ॥8.56.७० ॥
यावत् क्षिपामि लक्ष्याय१२९ शरं यत्र ब्रवीषि माम्१३० ।
स तथोक्तस्तदा१३१ मह्यं सशरं धनुरर्पयत् ॥७१॥
तेनोक्तं लक्ष्यमुद्दिश्य१३२ शरः क्षिप्तो मया ततः ।
तत्राभवत् स्थितो विप्रो मृगचारी दृढव्रतः ॥७२ ॥
स तेन विद्धस्तेजस्वी ममार सहसैव च ।
सोहं१३३ तं मृतमालक्ष्य१३४ राज्ञा तेन विसर्जितः ॥७३ ॥
ब्रह्मवध्याभयाद् घोरात् पितरं परिपृष्टवान् ।
प्रोवाच न भयं तेस्ति ब्रह्मवध्या कुतस्तव ॥७४॥
जात्यन्तरशतं१३५ गत्वा दृष्टमेतत्१३६ स्वयम्भुवा ।
ततोहं परया भक्त्या पितृशुश्रूषणे रतः ॥७५॥
अनया भार्यया सार्धं१३७ स्थितो वै१३८ बहुलाः समाः ।
स कदाचित् पिता चापि मम कालेन संयुतः१३९ ।७६॥
अवतस्थे च तत्रैव अनयैव सहानघाः ।
अथ कालेन महता गवाहं विनिपातितः ॥७७॥
यो स्यान्त… - ख, यो ध्यातु मृगकामे - घ. । १२४ तत्त्वं - ख. । १२५ न जानन् - घ., अज्ञानम्- (नात्) । - घ. । १२६ व्यर्थं कर्म - घ. । १२७ सदा - क. घ., तदा - ख । १२८ सहसा - ख. । १२९ लक्षाय - क. ख. घ । १३० हि - ख । १३१ तदोक्तस्तदा - क. ख. घ । १३२ लक्षमुद्दिश्य - क ख. । १३३ साह - ख. । १३४ मृगमालक्ष्य - क. ख घ । १२५ जात्यन्तारगतं - ख., ज्ञातं - घ. । १३६ हृष्टमेतत् - क., दृढमेतत् - ख । १३७ साकं - घ । १३८. हं - ख. । १३९ संवृतः - घ. ।.
अग्निस्थं चावरूढैषा रुदन्ती मां१४० शुभेक्षणा ।
सोहं गवा हतश्चेति मृगचारिवधेन च ॥ ।७८ ॥
व्याधजन्मनि विप्रत्वाद् भ्रष्टः१४१ पापेन जज्ञिवान् ।
जातोस्मि१४२ जन्मनां पुत्राः सहस्रं भृशदारुणम् ॥७९॥
पितृभक्त्या च हि तया सम्यगाराधनेन च ।
नानशन्मे१४३ स्मृतिः पुत्रा ज्ञानं चापि प्रवर्तते१४४ ॥8.56.८०॥
जानामि ब्राह्मणान् भ्रष्टान्१४५ सर्वान् वै गोकृतेन वः१४६ ।
गुरोश्चैवानुशापेन भ्रष्टसज्ञाँस्तथैव च१४७ ॥८१ ॥
पश्चात्तदाज्ञया पुत्रान् सर्वान्वै मुक्तचेतसः ।
लब्धसञ्ज्ञाँस्तथा चैव सर्वानद्य महाबलाः१४८ ॥८२॥
माता चेयं१४९ हि वो१५० वेत्ति साध्वी नित्यं पतिव्रता ।
यदहं वो ब्रवीम्यद्य तत्कुरुध्वं मम प्रियम१५१ ॥८३ ॥
अवाप्स्यथ१५२ ततः श्रेयः सर्वे यूयमतन्द्रिताः१५३ ।
अनामया विशोकाश्च१५४ न च सञ्ज्ञां प्रहास्यथ१५५ ॥८४॥
पुत्रा जन्मेदमन्त्यं मे१५६ मनुष्येषु१५७ न संशयः ।
इतो मृतेन गन्तव्यं मया ब्रह्मसदः शुभम् ॥८५॥
ते१५८ यूयं मां प्रतीक्षध्वं कञ्चित्काल१५९मतन्द्रिताः१६० ।
स्वर्गते मयि यच्छ्रेयस्तत्करिष्यथ मा शुचः । ॥८६॥
अवश्यञ्च सुतैर्माता पिता चैव सुदुःखितौ१६१ ।
शुश्रूषितव्यौ१६२ नान्योस्ति धर्मोस्माद्१६३ बलवत्तरः ॥८७॥
सनत्कुमार उवाच
ततस्ते विस्मिता भूत्वा नष्टशोका विमत्सराः ।
तं१६४ कालं पर्युपासन्त यावत्तौ जहतुस्त्वसून्१६५॥८८॥
रुदती - क. । १४१ विप्रत्वभ्रष्टः - ख. । १४२. .स्मिन् - ख. ख. । १४३ न नाशं मे - क. । १४४ मे सम्प्रवर्तते - ख., चाप्यप्रवर्तते - क., प्रवर्तत - क. । १४५ तुष्टान् - घ. । १४६ सर्वानाग (स्) ॥ कृतेन वः - घ. । १४७ भ्रष्टसङ्गाँस्तथैव च - घ. । १४८ महाबलान् - घ. । १८९ मात्रेयं (यी) - ख. । १५० नो - घ. । १५१ कुरुध्वमतन्द्रिताः - क । १५२ अवाप्स्यत - घ. । १५३.. मतन्त्रिताः - घ. । १५४ विकोशाश्च - ख । १५५ प्रहास्यते - घ । इतः पूर्वं क्षुप उ. इति क. - घ. । १५६ ममेदम्- यज्जन्म - घ. । १५७ मनुष्यत्वे - ख. । १५८ तद् - ख । १५९ किञ्चित्काल. - क. ख. घ. । १६०… मतन्त्रिताः - घ, । १६१ सुदुःखितैः - क., सुखेधितैः - ख. । १६२ शुश्रूषितव्यो - क. ख घ । १६३ धर्मोन्यो - ख । १६४ तत् - क. ख. । १६५… स्तनूम् - घ. ।
तयोरतीतयोः सम्यक्१६६ कृत्वा ते ह्यौर्ध्वदेहिकम्१६७ ।
दशार्णायां महानद्यां विधिनानशनेन१६८ ह ॥८९॥
असाधयन्त आत्मानं व्याधाः सप्तापि ते तदा१६९ ।
कालञ्जरे गिरौ१७० भूयो मृगाः सप्तैव जज्ञिरे ॥8.56.९० ॥
स्मरन्तस्तत्र ते जातिं मरुत्प्रपतनेन ह ।
साधयित्वा तदात्मानं चक्रवाकेषु१७१ जज्ञिरे१७२ ॥९१ ॥
मृगत्वे यानि नामानि तेषां तानि निबोध मे ।
दीर्घजीवी ह्यनाधृष्टो वायुवेगोभिकम्पनः१७३ ॥९२ ॥
श्रीपार्श्वः शङ्खपाच्चैव सोमलक्ष्यश्च१७४ सप्तमः ।
जातिं स्मरन्तस्ते पूर्वामन्योन्यमभिमान्य१७५ च ॥९३ ॥
सहिताः सहसा प्राणान् मरुत्प्रपतनाज्जहुः ।
ते सप्तसङ्ख्या व्याधेषु मृगेषु च तथा पुनः ॥९४॥
जन्म प्राप्य पुनर्जाताः शरद्वीपे खगास्ततः ।
शरद्वीपमिति ख्यातं१७६ काम्पिल्येषु सरः शुभम् ॥९५॥
तत्रापि चक्रवाकास्ते सप्ताजायन्त सोदराः ।
मरुद्देवः१७७ शिखण्डी च रथनेमिस्वरस्तथा१७८ ।
शिखी जीवोथ वृक्षश्च ध्वज इत्येव ते स्मृताः ॥९६ ॥
तेषां तत्रोपपन्नानां कदाचिदणुहः स्वयम् ।
काम्पिल्यको महातेजा राजा तं देशमागमत् ॥९७॥
स तत्सरः समासाद्य स्त्रीभिः सहः१७९ मुदान्वितः ।
रेमे मन्दाकिनीं प्राप्य अप्सरोभिरिवामरः ॥९८॥
तं क्रीडमानं सन्दृश्य मरुद्देवस्य तत्र वै ।
चक्रवाकस्य तस्यासीत्१८० स्पृहा तान् विषयान् प्रति१८१ ॥९९॥
सद्यः - क. । १६७ ह्यूर्ध्वदैहिकम् - क, ह्यूर्ध्वदेहिकम् - ख. । १६८ नसनेन - घ., ना शकेन - क. ख. । १६९ सप्तव्याधास्तथापि ते - ख. । १७० कालाञ्जरगिरौ - ख । च ७१ चक्रवाकाश्च - ख. । १७२ जग्मिरे - घ. । १७३… तिकोपनः - ख । १७४… क्ष्योथ - क. । १७५ मतिमान्य - ख. । १७६ इति ख्यातः - क. ख. । १७७ मनोदेव - घ. । १७८ रथनेमिस्वनस्तथा - घ, । १७९ सहस्त्रीभिः - ख. । १८. तत्रासीत् - ख. । १८१ विषयानपि (भि) - क., विषयं प्रति - ख. ।
यद्यस्याहं१८२ सुतः स्यां वै प्राप्नुयां राज्यमेव च१८३ ।
ततोहं विषयानेतान् प्राप्नुयां नात्र संशयः ॥8.56.१०० ॥
तस्य तच्चिन्तितं ज्ञात्वा द्वितीयश्चक्रसाह्वयः ।
शिखण्डीति समाख्यातः स तमाह तदा हसन् ॥ १०१ ॥
भवता राजपुत्रत्वं राज्यं चैव विचिन्तितम् ।
तत्राहं ते१८४ पुरोधाः स्यां ममाप्येष मनोरथः ॥ १०२॥
ताभ्यां१८५ तच्चिन्तितं ज्ञात्वा रथनेमिस्वरस्ततः१८६ ।
अचिन्तयत तत्राहं सचिवः स्यां तव प्रभो१८७ ॥१०३ ॥
सनत्कुमार उवाच
तेषां तथा चिन्तयतां त्रयाणामितरे ततः१८८ ।
चक्राह्वयास्तदा क्रुद्धा इदं तानब्रुवन् वचः ॥ १०४॥
अचिन्तनीयं युष्माभिश्चिन्तितं विषयार्थिभिः ।
तस्माद् यूयमितो१८९ मुक्ता अवाप्स्यथ मनोरथम् ॥१०५॥
ताञ्छप्त्वा१९० दीनमनसः समालक्ष्य पुनश्च ते ।
येन तद्राजपुत्रत्वं चिन्तितं राज्यमेव च ॥१०६॥
कृपया तमिदं वाक्यमब्रुवन्नष्टचेतसम् ।
बहुसान्त्वगुणोपेतं१९१ स्वयं दुःखितवद्यथा१९२ ॥ १०७॥
वयं तव प्रभावेण तीर्णाः कृच्छ्रमिदं प्रभो ।
भवान् मतिप्रदोस्माकं सेतुभूतो मतो हि नः ॥१०८॥
भवान् यदि१९३ हि न ब्रूयात् पितॄणां गौर्निवेद्यताम् ।
शुश्रूषेमश्च न१९४ पितॄन् न स्म१९५ सञ्ज्ञा ततो भवेत् ॥१०९॥
तव प्रभावादेतन्नो१९६ यौगैश्वर्यप्रवर्तनम् ।
ततो वयं पुनः१९७ श्रेयस्तव ब्रूमः शृणुष्व नः१९८ ॥8.56.११० ॥
अद्यास्याहं - क. । १८३ प्राप्नुयाद्राज्यमेव च - क. ख. । २८४ त्वत् - घ. । १८५ तस्य - घ. । १८६… स्वनस्ततः - घ. । १८७ प्रभोः - ख । १८८… मितरेतरं - घ. । १८९ भूय इतो - ख. । १९० तान्दृष्टवा - घ । १९१ बहुशास्त्रगुणोपेतं - घ. । १९२ त्तथा - घ. । १९३ भवानपि - घ. । १९४ शुश्रूषध्वमपि - घ. । १९५ नष्ट (ा) सञ्ज्ञा -क । १९६ तस्मात्तव प्रभावान्नो - घ. । १९७ भूयोप्यथ वयं - घ. । १९८ स्तु शृण्वत ख , तत् घ ।
तावत्त्वं सक्तहृदयो१९९ भविष्यसि नराधिप ।
यावदस्मद्वचस्तत्थ्यं न श्रोष्यसि सहायवान् ।
योगज्ञानमवाप्यैव२०० प्राप्स्यसे च गतिं शुभाम२०१ ॥१११ ॥
सनत्कुमार उवाच
ततस्ते सहिताः सर्वे युक्तात्मानो२०२ महाखगाः ।
खगत्वं सम्परित्यज्य२०३ योनिमन्यां२०४ प्रपेदिरे. ॥११२॥
सर्वे ततस्ते मुनिकोपदग्धा व्याधा मृगाश्चक्रसमाह्वयाश्च ।
जाताः पुनर्मानुषविग्रहेषु योगेश्वरास्ते त्रय एव राज्ये ॥११३ ॥
इति स्कन्दपुराणे सप्तव्याधोपाख्याने कौशिकशापे षट्पञ्चाशोध्याय