०५५

सनत्कुमार उवाच
अथ तं सहसायातमपश्यत्साचलात्मजा ।
ऋषिभिस्तैर्महाभागैस्समन्तात्परिवारितम् ॥१ ॥

रश्मिभिस्तेजसां योनिं मध्याह्न इव भास्करम् ।
सा तमर्घेण१ पाद्येन मधुपर्केण चैव हि२ ।
पूजयामास रुद्राणी चतुर्वक्त्रमुपागतम् ॥२॥

न देवीं भगवान् दद्यान्नेच्छते किं न पार्वती । - घ. । ६० प्रेशयच्छिवः - क. ख. । ६१ तं - क. ख. । ६२ युक्तमनसा - घ. । ६३ युक्ता - घ. । ६४ कृतानुज्ञाश्च - ख. घ. । ६५ लोकपः - ख. । ६६ बुद्ध्वा कार्यं - ख. । ६७ ततः - घ. । ६८.. स्सर्वे - क. ख घ. । ६९ विदितात्मा - घ. । ७० महात्मनि - घ. । ७१… लिप्सया - ख. । ७२ निलिख्य क. । ७३ सोत्पलधातुनिर्झरो - ख. । ७४ शिलोच्चये - क. । ७५… लः - ख.,.. .लं - क.,… लः - घ. । ७६ स गिरिं - क., स गिरिर्दिव्य - ख. घ. । ७७ इवोदयाकरः - क. ख. घ. ।
मर्घ्येण - क । २ ह - ख. ।
ब्रह्मोवाच
लोकस्य जननी भूत्वा धारयित्वा जगत्तथा ।
किमिदं तपसा भूयो लोकं दग्धुमिहेच्छसि ॥ ३ ॥

मा सृष्ट्वा जगदेतत्त्वं तपस्यन्ती विनाशय ।
बुद्ध्वैवम्३ धारयस्वेमं लोकं देवि नमस्तव ॥४॥

त्वत्तो रुद्रेण लोकोयमहञ्चैव पुरानघे ।
सृष्टाः स्मो४ वरदे देवि मा नः कृत्वा विनाशय ॥५॥

तपसा तव५ रुद्राणि जगत् स्थावरजङ्गमम् ।
तप्यते ग्रीष्ममध्याह्ने जलात्६ पद्ममिवोद्धृतम् ॥६ ॥

किं वा ते हृदये देवि यद्यपि७ स्यात् सुदुष्करम् ।
वरं वृणीहि सर्वाणि दातास्मि हिमवत्सुते ॥७॥

देव्युवाच
वरदोसि यदीशान मम देव चतुर्मुख ।
अयं भक्तोनुरक्तश्च मम नित्यं प्रियः प्रभो ॥८॥

व्याघ्रोस्य८ तावद्यच्छस्व ततो दास्यसि मे वरम् ।
अद्य वर्षसहस्रं वै स्थितस्यास्य ममाग्रतः ॥ ९॥

ध्यायतो निमिषस्यैव स्तब्धकर्णस्य लोकप ।
अस्मै धत्स्व वरं देव नास्मि तावद्वरार्थिनी ॥8.55.१० ॥

पितामह९ उवाच
एष तिर्यग् दुरात्मा च त्वां भक्षयितुमागतः ।
नास्य शुद्धं मनो देवि क्रूरोयं पापचेतनः१० ।
पश्यैनं दुष्टमनसं११ नास्य श्रेयो मनस्त्वयि१२ ॥ ११ ॥

मं - क.,. व - घ. । ४ स्म - क. ख. घ. । ५ .. तीव - क. । ६ दिनात् - घ. । ७ यदपि? । ८ व्याघ्रस्य - क. ख. । ९ ब्रह्म - ख, देव - घ. । १० पापचेतसः - घ. । ११ दुष्टचेतासौ - ख. । १२ मनस्विनि - ख. ।
सनत्कुमार उवाच
अथ सा तद्वचः श्रुत्वा रुद्राणी लोकभावनी१३ ।
दिव्येन चक्षुषापश्यदज्ञानात् कृतसाहसम् ॥१२॥

अनन्यभक्तः१४ पूर्वञ्च१५ जातिदोषेण दूषितः१६ ।
विदितार्था ततो भूत्वा उवाच हिमवत्सुता ॥१३॥

भगवन् को१७ हि लोकेषु१८ तिर्यक्त्वे सति निश्चलः१९ ।
स्तब्धकर्णेक्षणो दिव्यमहोप्येकमभोजनः ॥१४॥

अवतिष्ठेत किं योयं सहस्रमवतिष्ठत ।
वर्षाणां सुमहातेजा नायं तिर्यक्षु संस्कृतः२० ॥१५॥

भवत्वयं दुष्टचेतास्त्वदुष्टो२१ वा महाबलः२२ ।
ममानुग्राह्य इत्येव२३ वरो ह्यस्य२४ प्रदीयताम् ॥१६॥

सनत्कुमार उवाच
ततः स भगवान् देवश्चतुर्वक्त्रः पितामहः ।
उवाच वचनं देवीमृषीणां शृण्वतां तदा ॥१७॥

आर्याणां दस्यवोपीह२५ संसर्गात् सिद्धिमाप्नुयुः ।
यथायं क्रूरकर्मापि२६ सिद्धिं प्राप्स्यत्यनुत्तमाम्२७ ॥१८॥

तस्मादार्याः सदा सेव्या नित्यं पापकृतापि२८ हि ।
सिद्धिमेति नरः क्षिप्रमपापानां समीपगः२९ ॥१९॥

अनुग्राह्यस्तवानिन्द्ये पापोयं दुष्टचेतनः ।
अतोस्मै३० ब्रूहि देवेशे वरो यस्तव रोचते ॥8.55.२० ॥

देव्युवाच
अमरो जरया त्यक्त अक्षयश्चाव्ययस्तथा ।
महायोगबलोपेतो महदैश्वर्यसंयुतः३१ ।
गणेश्वरो ममेष्टश्च भवत्वेष यदीच्छसि ॥२१॥

भाविनी - घ. । १४ अत्यन्तभक्त - ख. ॥ ९ पूर्वम्मे - ख । १६ दूषित - ख. । १७ भगभक्षो - क । १८ लोकोयं - क. । १९ निश्चलं - क । २० संवृतः (सम्भृतः) - ख., स्वयं गतः - घ. । २१ अ दुष्टो - ख. घ. । २२ महामनाः - घ. । २३ इत्येवं - ख. । २४ ह्यस्मै - ख., ह्येष - घ । २५ दर्प (र्श) नादेव - ख. । २६ हि कुकर्मापि - ख, कुरुतेकर्म - घ. । २७ यास्यत्यनु्त्तमाम् - ख. घ । २८ पापकृतोपि - क. घ. । २९ समीपत - घ. । ३० अतो मे - घ. । ३१ महदाश्चर्यमयुतः? - घ. ।
पितामह३२ उवाच
एवं भवतु भद्रं ते सर्वमेतद् भविष्यति ।
जानासि ब्रह्मबन्धूनां ब्रह्मदत्तस्य मन्त्रिणम् ॥२२ ॥

त्वयि भक्तिः३३ पुराप्यस्य शापाद् व्याघ्रगतिं गतः ।
पञ्चालस्य च यक्षोयं प्रतीहारोभवत् पुरा ॥ २३ ॥

त्वया मया यदद्यास्य कृतेयं नन्दिरीदृशी ।
तस्माद् गमिष्यति ख्यातिं सोमनन्दीति नामतः ॥२४॥

यश्चैनं३४ कीर्तयेद् दुर्गे कान्तारेषु भयेषु३५ च ।
शार्दूलसिंहद्वीपिभ्यो न भयं तस्य जानते ॥ २५॥

वद३६ त्वमपि चेशानि३७ यस्ते प्रियमनोरथः ।
यावद्३८ ददामि३९ सर्वन्ते४० नियोगात् पारमेश्वरात्४१ ॥२६॥

देव्युवाच
इच्छामि भगवन् दिव्यं वर्णं कनकसप्रभम् ।
गौरीति४२ लोके ख्याता च भवेयं कमलोद्भव ॥२७॥

पितामह४३ उवाच
एवमस्तु जगन्मातर्यदिच्छसि तपोधने४४ ।
अन्यं वरय भद्रन्ते४५ वरं४६ देवि ददामि४७ ते ॥२८॥

महद्धीदं तपस्तप्तं भवत्या लोकभावनम् ।
नानुरूपो वरस्तस्य तस्मादन्योपि मृग्यताम् ॥२९॥

देव्युवाच
इच्छामि भगवन्पुत्रं सर्वधर्मभृतां४८ वरम् ।
महाबलं महोत्साहं४९ सर्वलोकनमस्कृतम् ॥8.55.३० ॥

ब्रह्मो - ख. । ३३ भक्तिं - घ । ३४ यश्चैवं - ख । ३५ वनेषु - घ. । ३६ वरं - घ. । ३७ याचस्व - घ. । ३८ तावद् - घ. । ३९ ददानि - क घ. । ४० देवेशि - घ. । ४१ परमेश्वरात् - घ. । ४२ सौरीति - ख. । ४३ ब्रह्मो - ख. । ४४ महामते - ख, महाधने - घ. । ४५ वरं प्रयच्छामि - ख । ४६ ब्रूहि - ख । ४७ यत्प्र ददानि - क ख । ४८ लोकधर्मभृतां - ख ४९ महात्मानं - घ. ।
पितामह उवाच
पुत्रस्ते भविता देवि महायोगबलान्वितः ।
अजेय५० स्सर्वभूतानामष्टैश्वर्यगुणान्वितः५१ ॥३१ ॥

जेता हन्ता तथा देष्टा५२ अजरोवध्य एव च ।
अनादेश्यश्च५३ सततं सर्वेषां प्राणिनां वरः ॥ ३२॥

सदा बालोथ सुभगो धर्मज्ञो धर्मवत्सलः ।
देवब्राह्मणगोप्ता च विद्वान् सर्वज्ञ एव च ॥ ३३ ॥

षण्मुखो द्वादशभुजः शक्तिपाणिस्तथैव च ।
ब्रह्मण्यश्च शारण्यश्च५४ देवद्विट्सङ्घहा तथा ॥ ३४॥

अयोनिजो महातेजा५५ लोकानां सुखकृच्च हि५६ ।
शनैरेतदुवाचासौ ततश्च विरराम ह ॥३५॥

सनत्कुमार उवाच
वरान् स५७ दत्त्वा देवेशः कृत्वा चापि५८ प्रदक्षिणाम्५९ ।
विमानं तं समारुह्य स्वं लोकमगमत्तदा६० ।३६॥

रुद्राण्यपि गते तस्मिन् सोमनन्दिपुरःसरा ।
स्थिताकाशं समास्थाय रोहिणीव बुधानुगा ॥३७ ॥

मन्त्रानुगेव गायत्री जयन्तेन शची यथा ।
तथा सा भाति रुद्राणी सोमनन्दिपुरःसरा ॥ ३८ ॥

य इमं पठते सदा विपश्चित् पुरुषः प्रातरतन्द्रितो हि कश्चित्६१ ।
कुरुते न भयं हि सोमनन्दिर्वरदस्तस्य हरश्च सोमनन्दी६२ ॥ ३९ ॥

इति स्कन्दपुराणे सोमनन्दिदेव्योर्वरप्रदानं नाम पञ्चपञ्चाशत्तमोध्यायः