०५४

सनत्कुमार उवाच
ततस्तेन विमानेन सर्वसृक् चतुराननः१ ।
जगाम मन्दरम्२ धीमान् विचित्रोपलकन्दरम्३ ॥ १ ॥

स तमासाद्य विस्तीर्णमनौपम्यमतिप्रभम् ।
दूराद् दृष्टिसुखम्४ दृष्टवा सभास्था५निदमब्रवीत् ॥२॥

इदं रुद्रगृहं शुभ्र६मदृश्यम्७ सुकृतामपि८ ।
देवानामपि पश्यध्वं भास्कराकारवर्चसम् ॥३ ॥

ब्रह्मसूत्रं - घ. । ७८ योगञ्च - क. ख. । ७९ जाप्यं - ख. । ८० स्थितं - घ । ८१ वषट् चैव - ख., कारः - घ. । ८२ श्चैकपार्श्वतः - ख. । ८३ सध (व) नानि - ख. । ८४ धर्माण्येतानि - क. । ८५ मार्गाणि - घ. । ८६… नि समन्ततः - घ,… नाभवँस्ततः - क ख., तथा - ख. । ८७ क्षमा दीक्षा थ - घ. । ८८ क्रिया - ख. । ८९ पार्श्वं त. - घ । ९० तं - क ख. घ । ९१ योगविदा समाधिना - क । ९२ महाविमानं वृषसर्वगामिना - घ. । ९३ सर्वसृजेन - ख. घ. ।
सूक्ष्मचतुर्मुखः - घ. । २… मक्षरं - घ. । ३ शोभितोत्पलकन्दरम् - घ. । ४ मुख - घ. । ५ सद्यस्ता - घ. । ६ शुभ - घ. । ७ सदृष्यं - घ. । ८ न कृतात्मभिः - ख. ।
इदं प्रविश्य देवानाम्९ यज्ञश्री१० ‘र्नापसर्पति ।
जयश्च नित्यं युद्धेषु धर्मश्च सुमहानपि ॥४॥

एतत् सृष्टं स्वयं तेन११ मनसानुपमद्युति ।
न ह्यस्य सदृशं किञ्चिदण्डेस्मिन् विद्यते गृहम् ॥५॥

इदं प्रविश्य धर्मात्मा भूयो१२ दुःखं१३ न विन्दति१४ ।
न चापि जन्म प्राप्नोति१५ नित्यमैश्वर्यगो हि सः ॥६॥

अनिर्देश्यमिदं योगाद् योगिनामपि नित्यशः ।
अन्यस्तु कुत एवेदं वर्णयीत महानपि ॥७॥

एतदस्मद्विमानस्य वायुनाभ्याहतं रुषा ।
वर्धते गिरिणा सार्धं विन्ध्यस्य शिखरं यथा ॥८॥

एतदस्मद्विमानस्य मार्गमावृत्यधिष्ठितम् ।
ऊर्ध्वं तिर्यगधस्ताच्च देवदेवस्य तेजसा ॥ ९॥

एतदन्धं१६ तमः कृत्वा मेधोसौ जीवनः स्वयम् (?) ।
वज्रोद्यतकरः स्रग्वी प्रत्युद्यात्यभिनादयन् ॥ 8.54.१० ॥

सनत्कुमार उवाच
ततः स भगवान्देवो ब्रह्मा लोकपितामहः ।
विष्टभ्य तत्१७ विमानाग्य्रमवतस्थे कृताञ्जलिः ॥ ११ ॥

तुष्टाव च१८ तदा देवं शर्वमुग्रं कपर्दिनम् ।
ते चैव ऋषयः सर्वे विमानस्था सुसंयताः ॥१२ ॥

प्रकाशं चक्रिरे सर्वं जगत् स्थावरजङ्गमम् ।
ततस्स मेघः स्वं स्थानमगमद् वृष्टिसर्जनः ॥१३ ॥

दिशश्च विमलाः सर्वाः प्रकाशश्चाभवद् भृशम् ।
तं जपन्तं विदित्वा च भगवान् गोवृषध्वजः१९ ॥ १४॥

प्रविश्य तां देव - घ., देवाश्च - क. । १० यद्भीतो - घ,… -र्नो - ख. । ११ दुरारोहं - घ. । १२ दुःखं - ख. । १३ भूयो - ख., विन्देन्न - क । १४ न विद्या - ख., दुःभाक् - क. । १५ जायते भूयो - ख. । १६ एतदन्तं - ख. । १७ तं - क. ख. । १८ स - घ., तदेवं हि - ख. । १९ स वृषध्वजः - क. ।
नन्दिनं द्वारदेशस्थमिदमाह सुरेश्वरः२० ।
एष ब्रह्मा विमानेन मामिह द्रष्टुमागतः ॥ १५॥

ब्रूहि येनागतोसीह कार्येण विदितोसि मे ।
कुरु तद् गच्छ शीघ्रं तु२१ कालस्तस्यायमागतः ॥ १६॥

सनत्कुमार उवाच
स एवमुक्तो रुद्रेण नन्दी प्रमथनायकः२२ ।
द्वाःस्थ२३ एव२४ विमानस्थं ब्रह्माणमिदमब्रवीत्२५ ॥१७॥

नन्द्युवाच
यूयं ज्ञाता भगवता येन कार्येण चागताः ।
कुरुध्वं किल२६ तच्छीघ्रं कालोयं२७ तस्य वर्तते ॥१८॥

सनत्कुमार उवाच
ततः स कृत्वा मनसा नमस्कारं हि शम्भवे ।
प्रदक्षिणमुपावृत्य२८ मन्दरं प्रजगाम ह ॥१९॥

स मन्दरगिरिं सर्वं परिहृत्य महामनाः ।
शाकद्वीपस्य मध्येन जम्बूद्वीपमुपागमत्२९ ॥8.54.२० ॥

स दृश्यमानो देवैश्च३० मुनिभिश्च यतव्रतैः ।
हिमवन्तं गिरिश्रेष्ठमुपागम्येदमब्रवीत्३१ ॥ ३१ ॥

एतद्धिमवतः शृङ्गमुच्छ्रितं कान्तिमत् स्थितम् ।
युगान्तादित्यसङ्काशं दूरात् समभिलक्ष्यते ॥२२ ॥

अत्र३२ सा जगतो३३ धात्री धात्री३४ पुत्रमिवौरसम् ।
पालयन्ती जगत् सर्वं तपस्तप्यति३५ शैलजा ॥२३ ॥

अहो नु३६ शिखरं पुण्यं भाग्यवच्चापि सर्वथा ।
यदेनं३७ गिरिपुत्र्यर्थे३८ वरैर्योक्ष्यति कामहा ॥२४॥

महेश्वरः - ख. । २१ त्वं - ख. । २२ प्रथमनायकः - क. । २३ स्वयं - घ. । २४… मेव - क. ख. घ. । २५… स्थमिदं ब्रह्माणमब्रवीत् - क. घ. । २६ किं न - घ. । २७ किल तच्छीघ्रकालोयं तपसः - ख. । २८ मुपासृत्य - ख. । १९ मयागमत् - क । ३० देवेण - ख. । ३१ मुपगम्येदमब्रवीत् - ख । ३२ यत्र - घ. । ३३ जगतां - घ. । ३४ कालं - घ. । ३५ स्तप्स्यति - क. । ३६ महान्तं - घ. । ३७ यदेतद् (?) । ३८ गिरिपुत्र्यर्थं - ख. ।
पश्यध्वं तपसो वीर्यं देव्याः सुचरितस्य वै ।
यदेतच्छिखरं दृष्टवा न पश्याम३९ पुनर्भवम्४० ॥२५॥

स एवं कथयन्नेव विमानेन४१ चतुर्मुखः ।
ऋषिभिः सहितः सर्वैः शिखरद्वारमागतः ॥ २६ ॥

तत्रैनं४२ रुद्रसचिवा उद्यतायुधपाणयः४३ ।
भर्त्सयन्तोभ्यवर्तन्त तिष्ठतिष्ठेतिवादिनः ॥ २७॥

तान् ब्रह्मा श्लक्ष्णाया वाचा सान्त्वपूर्वमुवाच ह ।
प्रशंसमानस्तान्सर्वान्४४ प्राञ्जलिर्मुक्तमानसः ॥२८॥

ब्रह्मोवाच
यूयं सर्वे महात्मनान ऐश्वर्येण समन्विताः ।
अक्षया४५ ह्यमराश्चैव तथाप्रतिहताश्च ह ॥ २९॥

महायोगबलोपेता अजय्या युधि केनचित्॥

को युष्मानतिवर्तेत४६ शक्रोपि४७ प्रवरेश्वराः४८ ॥ 8.54.३० ॥

देवदेवाज्ञया योहमागतो४९ मन्दरादिह ।
देव्या वरप्रदानार्थमनुज्ञा क्रियतां मम५० ॥ ३१ ॥

गणेश्वरा ऊचुः५१
देव्या दाता स्वयं देवो वरानिष्टान् महामनाः ।
वरं हि५२ देवी त्वन्यस्मान्५३ मनसापि५४ न चिन्तयेत् ॥३२॥

शक्तो देवोनुग्रहीतुं जगत्सर्वं महेश्वरः५५ ।
त्वामप्येषोनुगृहणाति किमु देवीं५६ जगत्पतिः५७ ॥ ३३ ॥

पितामह५८ उवाच
अशक्तो न महादेवो वरं दातुं महामनाः ।
य एवं चिन्तयेद् देवं न भवेत् स कथञ्चन ॥३४॥

पश्यामः - घ. । ४० पार्वती पुनः - घ.,… र्भयं - क.,.. र्वयं - ख. । ४१ विमानेव (वै) - क. । ४२ तत्र ते - घ. । ४३ आयुधोद्यतपाणयः - क ख. घ., उक्षतायुध… (?) । ४४ प्रवेपमानस्तान् सर्वान् - क. । ४५ अक्षरा - ख । ४६. .नभिवर्तेत - ख । ४७ शक्तोपि - (?) । ४८. श्वरः - क. । ४९ सोहमायातो - ख- । ५० तामिति - ख । ५१ गणेश उवाच - क., गणेश्वर उवाच - ख. । ५२ न चैव - क. घ । ५३ युष्मत्तो - ख, त्वद्विधान् - घ. । ५८ तु - क, हि - घ. । ५५ सर्वमशेषतः - ख. । ५६ किमुतांवै - ख., किन्न - घ. । ५३ जगस्थितिम् - क । ५८ ब्रह्मो - ख ।
न देवी भगवत्पार्श्वादिच्छते किल पार्वती५९ ।
वरानिष्टाँस्ततो देवो मामिह प्रैषयच्छिवः६० ॥३५ ॥

सनत्कुमार उवाच
अथ ते६१ युक्तमनसो६२ युक्तं प्रत्यक्षमीश्वराः ।
महेश्वरमपश्यन्त कृतानुज्ञं च६४ लोकपम्६५ ॥३६॥

नियुक्ताश्च६६ पुनः६७ सर्वे ब्रह्माणं लोककारणम् ।
ऊचुर्गणेश्वराँस्तत्र६८ विदितार्था६९ महामुने७० ॥३७॥

प्रेषितो देवदेवेन ज्ञातोस्माभिः पितामह ।
त्वं विशस्वाधुना देव पार्वत्या वरदित्सया७१ ॥३८॥

अवतीर्य विमानात्तु ततः शीघ्रं पितामहः ।
निलिल्ये७२ शिखरे तस्मिन्नानाधातुविचित्रिते ॥३९॥

अथ सोपलधातुनिर्झरो७३ गिरिराजोतिमहाशिलोच्चयः७४ ।
विनिसृष्टदिवाकरामलो७५ दिदिवे७६ दिव्य इवोदयाचलः७७ ॥8.54.४० ॥ .
इति स्कन्दपुराणे देव्या वरप्रदाने बह्मागमनं नाम चतुष्पञ्चाशत्तमोध्यायः