०५३

व्यास उवाच
देवी भगवती सा हि हिमवत्तनयाव्यया ।
कियन्तं कालमचरत्तपः परमदुश्चरम् ॥१ ॥

अक्षयश्चाव्ययश्चैव - क. ख. । २५०.. न्वितः - क । २५१ तथैवानुचरो - घ. । २५२ तं - क. । २५३ गिरे. - घ. । २५४… माश्रिता - क. । २५५ तावदेव - क. ख. घ. । २५६ च - घ. । २५७ इमं - क. ख. घ. । २५८ पापा - घ. । २५९ न दुर्गतिमवाप्नुयात् - ख., म सद्गतिमवाप्नुयात् - घ. । २६० मेतदधीयँश्च - क. ।
कथं लब्धवती चापि वरं वरशतारणिः १ ।
एतदिच्छामि कथितं सर्व वै द्विजसत्तम[^२] ॥२॥

सनत्कुमार उवाच
शृणु काले व्यतीते हि तपो देव्याः सुदुश्चरम् ।
प्रयता[^३] प्राञ्जलिर्भूत्वा समाधाय मनस्तथा ॥३ ॥

दिवाकरेभिसन्धाय[^४] चक्षुषी[^५] मन एव च ।
तस्थौ वृक्षावबद्धेव दार्वर्च्चानिमिषेक्षणा[^६] ॥४॥

सुवर्चलेन[^७] सादित्यमीक्षती पर्यवर्तत[^८] ।
एकपादोर्ध्वबाहुश्च निरुच्छ्वासा बभूव ह[^९] ॥५॥

दिव्यं वर्षसहस्रं सा निश्चलोपलवत् स्थिता ।
व्याघ्रद्वितीया रुद्राणी तपोयुक्ता[^१०] शुभव्रता ॥ ६॥

न चास्या ग्लानिरभवन्न बलक्षय एव वा ।
पूर्ववच्च हि[^११] सा देवी तपसो वावतिष्ठत[^१२] ॥७॥

तस्यास्तपःप्रभावेण सर्वं सस्थाणुजङ्गमम्[^१३] ।
अभावोपहतं[^१४] यद्वज्जगदार्त्तमतिष्ठत[^१५] ॥८॥

नातिदीप्तोभवत् सूर्यश्चन्द्रमा न प्रकाशते[^१६] ।
ज्योतींषि तिमिराण्यासन् व्योम्नि सिद्धा न यान्ति च ॥९॥

मम्लुश्च देवमाल्यानि विमानानि च पेतिरे[^१७] ।
स्वर्गेपि न सुखं तेषामौत्सुक्यं चापि जायते[^१८] ॥8.53.१० ॥

धूमायन्ति दिशः सर्वास्त्रैलोक्यञ्चैव कृत्स्नशः ।
विद्याधृतां गतिर्भग्ना प्रज्वलन्त्यायुधानि च[^१९] ॥११ ॥

मृगा व्याघ्राश्च सिंहाश्च विडालोलूकमूषिकाः[^२०] ।
पन्नगा[^२१] नकुलाश्चैव एकस्थाः सञ्चरन्त्युत ॥१२ ॥

त्वन्यदुरासदं - घ.,.. रणी - ख । २ च विप्रसत्तम - घ । ३ प्रयतः - क. ख. । ४.. .तिसन्धाय - घ. । ५ चक्षुश्च - क. ख. । ६ सा तदानिमिषेक्षणा - घ । ७ शनैः शनैः - घ. । ८ पर्यवर्तते - क. । ९ च - क. । १० तेन युक्ता - ख । ११… च्चापि - घ. । १२ तपसैवावतिष्ठत - क, तपसे चावतिष्ठत - घ. । १३ स्थावरगङ्गमम् - घ. । १४ अभवोपहतं - ख । १५ त्तं व्यतिष्ठत - ख. घ. । १६ कान्तिहीन- श्च चन्द्रमाः - ख. । १७ निपेतिरे - ख, निपेदिरे - क. । १८ चोपजायते - ख. । १९ न ज्वलन्त्यायुधानि च - घ. । २०… पक्षिणः - ख. । २१ पक्षिणम्ः - क. घ. ।
ततो देवाः समागत्य ऊचुः सर्वे परस्परम् ।
विपर्ययोयं नाकस्मात्[^२२] त्रैलोक्यस्यास्य दृश्यते[^२३] ॥१३ ॥

कारणं महदत्रास्ति नेदं निष्कारणं भवेत् ।
तस्माद्वयमजानन्त एतं[^२४] सर्व[^२५] विपर्ययम्[^२६] ॥१४॥

किन्तिष्ठामः समुद्विग्ना गच्छाम[^२७] ब्रह्मणोन्तिकम् ।
इत्युक्त्वा ते सुराः सर्वे बृहस्पतिपुरोगमाः ॥१५॥

वैराजभवनं गत्वा ब्रह्माणं[^२८] सम्प्रणेमिरे[^२९] ।
पूजिता ब्रह्मणा सम्यगुपविष्टा यथार्हतः ॥१६॥

पृष्टास्तेनागमे हेतुमूचु[^३०] र्हृच्छोकपीडिताः ।
भगवन् लोकतत्त्वं च[^३१] सर्वं प्रत्यक्षवद्[^३२] विभोः[^३३] ॥१७॥

लोकोयं विपरीतोद्य किमर्थं शम्स नः प्रभो[^३४] ।
तेषां तद्वचनं श्रुत्वा भीतानां सर्वयोगवित् ॥१८॥

उवाच मधुरं श्लक्ष्णमिदं गम्भीरवद्वचः ।
एषा हैमवती देवी रुद्राणी लोकधारणी[^३५] ।
तपश्चरति युक्तात्मा योगमास्थाय निश्चलम् ॥१९॥

अद्य वर्षसहस्रं हि दिव्यं तस्याः समाधिना ।
वर्षाणां द्वे शते चैव तथान्यच्छरदां शतम् ॥8.53.२०॥

तपश्चरन्त्या[^३६] योगेन तस्यैषा[^३७] तपसः सुराः ।
प्रभावो येन लोकानां विपरीतत्वमागतम् ॥२१॥

देवा ऊचुः
यदि तस्याः प्रभावेण महोत्पातभयं त्विदम् ।
अतो भूयो दहेल्लोकाँस्तस्मात्तां सन्निवारय ॥२२॥

त्रैलोक्ये - ख., चास्य - घ । २३ अकस्मात्सम्प्रदृश्यते - ख. । २४ एतान, - ख., एतत् - घ. । २५ सर्वं - घ,, सर्वे - ख. । २६ विपर्ययान् - ख । २७ गच्छामो - क. ख. । २८ वैराजं - घ. । २९ सम्प्रपेदिरे - घ., च.. - ख. । ३० हेतुं तमूचुः - घ. । ३१ लोकतत्वज्ञ - घ. । ३२ सर्व दृगक्षवद् - ख. । ३३ विभो - क. ख. । ३४ किञ्च तत्कारणं ब्रूहि येन सर्वे विमोहिताः - घ. । ३५ लोकधारिणी - घ. । ३६ तपश्चरत्या - क. ख. । ३७ तस्यैव - ख. ।
सा हि देवी तपोयुक्ता अतो भूयो विभावरी ।
लोकानिमान् सहास्माभिर्दहेदपि न संशयः ॥२३ ॥

तस्माललोकहितार्थाय अस्माकं वचनादपि ।
तथा कुरु यथा साध्वी[^३८] विनिवर्त्तेत[^३९] शोभना ॥२४॥

पितामह उवाच[^४०]
एवं भवतु गच्छध्वं निर्वृता४१ भवता४२ नघाः ।
वरप्रदानेनेष्टेन४३ रुद्राणीं४४ स्थापयाम्यहम् ॥२५॥

गतेष्वथ तु४५ देवेषु ब्रह्मा लोकपितामहः ।
विमानं काञ्चनं शुभ्रं४६ वेदिकाशतसङ्कुलम् ॥२६॥

किङ्किणीजालसन्नद्धं मुक्तादामावभासितम् ।
इन्द्रनीलमयैः स्तम्भै४७ र्जालैर्जाम्बूनदैस्तथा४८ ॥२७॥

घण्टाभिर्विश्वरूपाभिः४९ समन्तात् परिवारितम्५० ।
वज्रेन्द्रनील५१ वैदूर्यमहानीलादिभासितम् ॥ २८॥

स्तूपिकाभिश्च योग्याभिः स्फाटिकाङ्काभिरावृतम्५२।
सर्वलोहमयं५३ तद् वै स्वयं देवेन निर्मितम् ॥२९ ॥

पञ्च भूतमयं५४ तद्धि प्रकृतिस्थमथापि च ।
शब्दाभिजालसम्बद्धं घण्टेन्द्रियसुशब्दवत् ॥8.53.३० ॥

मुक्तादामाष्टकैर्युक्तं किङ्किणीषोडशावृतम् ।
विंशति५५ र्वेदिकाश्चात्र विमानं५६ तन्महाप्रभम् ॥ ३१ ॥

शतार्द्धलक्षणै५७ र्दिव्यैर्मणिमूभि५८ स्तथाचितम् ।
आसनैर्बहुभिर्युक्तं लोकस्थानैः५९ समन्ततः६० ॥ ३२ ॥

हि - घ. । ३९ विनिवर्त्तन्ति - क. ख घ. । ४० ब्रह्मा उ - ख । ४१ निवृत्ता - क ख, निर्वृत्ता - क । ४२… था - क । ३ वरदानेन हस्तेन - घ. । ४८ रुद्राणां - घ. । ५८५ गतेषु तेषु - घ । ४६ शुभं - घ । ४७र्जालैः - ख. । ४८ जम्बुनदमयैस्तथा - ख. । ४९ वेश्मरूपाभिः - घ., र्दिव्य… - घ. । ५. परिनादितम् - ख । ५१ वज्रनीलेन्द्र - क. ख घ । ५२ स्फटिकाङ्काभिरावृतम् - ख. । ५३ सर्वलोकमयं - ख. घ. । ५४ पञ्चचूडमयं - घ. । ५५ विशन्ति - ख. । ५६ किम्मानं - क., विहायं - ख. । ५७ शातकुम्भमयै - घ । ५८ भूतै क., ख । ५९ स्थाने क । ६० सुसम्मितम् - ख, ।
आरुरोह विमानं तद् ब्रह्मा स्वमुनिभि६१ स्सह ।
वेदैः६२ सह६३ तथा मन्त्रैः शास्त्रैः६४ सर्वै६५ स्तथैव च ॥३३ ॥

मध्ये तस्यासनं दिव्यं६६ स्वर्णपद्मोपगं६७ दृढम्६८ ।
सुखोपविष्टस्तत्रासौ६९ ब्रह्मा लोकपितामहः ॥ ३४॥

तस्य पार्श्वे तु सावित्री गायत्री चैव सुप्रभा ।
ऋग्वेदो दक्षिणेनास्य यजुर्वेदश्च७० पश्चिमे ॥३५॥

उत्तरे सामवेदस्तु अग्रतोथर्वणस्तथा ।
प्रायश्चित्तानि धर्माश्च नियमाश्च तपांसि च७१ ॥३६॥

दानानि च विचित्राणि क्रतवः सेष्टयस्तथा७२ ।
सप्तव्याहृतयः७३ पुण्यास्तथा लोकाश्च सर्वशः ॥ ३७॥

पर्वताश्चैव नद्यश्च तथा लोकस्य मातरः ।
लोकपालाः प्रजाध्यक्षा दक्षो धर्मस्तथैव च ॥३८ ॥

भृगुरत्रिर्वसिष्ठश्च७४ पुलस्त्यः पुलहः क्रतुः ।
मरीचिरङ्गिराश्चैव रुचिश्चैव महायशाः ॥३९॥

ऋभुः सनातनश्चैव विराजश्च महातपाः ।
पितरश्चैव देवाश्च ब्रह्मणो याः७५ प्रसूतयः ॥8.53.४० ॥

पृथिवी वायुराकाशमापो ज्योतिस्तथैव च७६ ।
एते चैव यथोद्दिष्टाः सागरा दिश एव च ॥४१ ॥

विद्याश्च धर्मकाराश्च अग्रतस्तेवतस्थिरे ।
ब्रह्मदण्डश्च दण्डश्च कलशः काञ्चनस्तथा ॥४२ ॥

कमण्डलुश्च तस्यासीत् पार्श्वयोरुभयोरपि ।
यज्ञोपवीतं श्रीमच्च ओङ्कारश्च तथाग्रतः ॥४३ ॥

स मुनिभिः - क. ख. घ. । ६२ देवैः - ख. । ६३… रिह- घ, महाभागैः र - ख. । ६४ चापि - क. । ६५ सर्वैः शास्त्रै - घ. । ६६ हैम - ख. । ६७ पमं - घ. रि - ख. । ६८ प्रभुः - ख. । ६९उपोपविष्टस्तत्रासौ - क. ख. । ७०… दोस्य (दस्य) । - ख । ७१ तपांसि विविधानि च - क. घ. । ७२ सह इष्टिभिः - ख., तपस - घ., । ७३ सर्वव्याहृतयः - घ, तथा व्याहृतयः - क. ख. । ७४ भृगुर्वसिष्ठ अत्रिश्च क. । ७५ ये - क., ब्रह्मणोपि - घ., ये च सृष्टयः - ख. । ७६.. श्च पञ्चमः - ख. ।
अक्षसूत्रं७७ च योगश्च७८ जप्यं७९ चैवाग्रतः स्थिताः८० ।
स्वाहा स्वधा वषट् वौष८१ डग्निश्चैतानि पार्श्वतः८२ ॥४४॥

यमाश्च नियमाश्चैव साधनानि८३ बहूनि च ।
धर्मस्यैतानि८४ सर्वाणि८५ पार्श्वस्थान्यभवँस्ततः८६ ॥४५॥

दया कृपाथ८७ दानञ्च श्रद्धा चैव ह्रिया८८ सह ।
ऋषीणां पार्श्वगाः सर्वा दक्षिणा यज्ञपार्श्वगा८९ ॥४६॥

ततो देवाश्च ये केचिद् ब्रह्मलोकनिवासिनः ।
सर्वे समधिरुह्याशु समन्तादवतस्थिरे ॥४७ ॥

एवं तेषु विमानं तत्९० समारूढेषु सर्वशः ।
सुखासीनेषु सर्वेषु ब्रह्मा समनुचोदयत् ॥४८॥

तच्चोदितं योगविदग्रगामिना९१ महाविमानोत्तमसर्वगामिना९२ ।
ययौ प्रभावेण मनोनुगामिना यथा मनः सर्वसृजेव९३ हेतुना ॥४९॥

इति स्कन्दपुराणे देवीवरप्रदाने ब्रह्मणः प्रयाणं नाम त्रिपञ्चाशत्तमोध्यायः.