व्यास उवाच
के पुनस्तं न गच्छन्ति नरकं शुभकर्मिणः ।
पापेष्वपि रता ब्रह्मन्नेतदिच्छामि वेदितुम् ॥ १ ॥
तथा स्त्रीणां च का युक्ता गतिः परमिका शुभा ।
केन कर्मविपाकेन एतदिच्छामि वेदितुम् ॥२॥
कर्ता मां - ख. । ७८ कृतं - ख. । ७९ नाश्चर्याय ममेदृशम् - ख. । ८० मन्दिरं - घ. । ८१ विमानस्था - ख. घ. । ८२ महदप्राप्य - घ. । ८३… मभयं - ख. । ८४ भक्त्या - ख. । ८५ शङ्करेति - ख. । ८६ सुकेशमाहात्म्यं - घ. ।
भिरताः पापे - क. ख,… षु निरता - घ. । २.. श्चैव - क., देव - ख. ।.
सनत्कुमार उवाच
न गच्छन्ति नरा येन[^३] नरकं तं सुदुःखिताः[^४] ।
पापकर्मण्यपि रता[^५]स्तानिमान्[^६] शृणु मानद[^७] ॥३॥
नाग्निचिन्नरकं याति न त्रिसूत्री[^८] न गोव्रती[^९] ।
नाश्वमेधेन यो यष्टा[^१०] गो सहस्रप्रदो न च[^११] ॥४॥
न च स्वाध्यायनित्यो यो रुद्रजापी च यो द्विजः[^१२] ।
ब्राह्मणान्[^१३] तारयेद्यश्च[^१४] आपदो मरणान्तिकात् ॥५ ॥
ब्राह्मणं[^१५] व्याधितं दीनमनाथं दुःखपीडितम्[^१६] ।
शुश्रूषेद्यावदेतेन युक्तो धर्मेण मानवः[^१७] ॥६ ॥
ब्राह्मणं वासयेद्यस्तु गृहवासपरिच्छदैः ।
निःस्वं स्वाध्यायसम्पन्नं नरकं न स पश्यति ॥७॥
तथा गाञ्चैव सम्मग्नां[^१८] पतितां शक्तिवर्जिताम् ।
संरक्षति च युक्तात्मा स च तं नैव गच्छति ॥८॥
महेशं यश्च भावेन परमेण समाधिना ।
भक्त्या[^१९] समर्चयेन्नित्यं स च तं[^२०] नैव गच्छति ॥९॥
इतरेषां तु संसारो भवत्येव न संशयः ।
ब्राह्मणास्तं न गच्छन्ति वेदवेदाङ्गपारगाः ॥ 8.52.१० ॥
षट्कर्मनिरता व्यास आत्मधर्मव्यवस्थिताः[^२१] ।
तपःशौचसमायुक्ता दयावन्तो दृढव्रताः[^२२] ॥११ ॥
प्रतिग्रहनिवृत्ताश्च ईशभक्ताश्च ये द्विजाः ।
क्षत्रिया ये च रक्षार्थं प्रजानां[^२३] नित्यमुद्यताः ॥ १२॥
त्यजन्ति समरे प्राणान् न ते नरकगामिनः ।
वैश्या वार्तासमायुक्ता[^२४] न्यायधर्मव्यवस्थिताः ॥ १३ ॥
तु भूतानि - घ. । ४ सुदुःखित - घ । ५. भिरता - ख. विरता - घ । ६ निमान् घ.। ७ महामते घ.। ८ न सपुत्रो - ख, न सपुत्री. - घ. । ९ गोप्रदी - घ. । १० येन यष्टोश्वमेधेन - ख. । ११ गोपालनरतश्च यः - घ. । १२ नरः - क. । १३ ब्राह्मणं - क. घ. । १४ यस्तु - घ. । १५ तमेव - क., तमेवं वादिनं - घ १६ न कर्मण्यं तथैव च - क. घ । १७ मुक्तः स्यादिह मानवः- - ख. । १८ सम्भग्नां क. ख. । १९ भक्तः - क. घ. । २० तान् - घ । २१ शान्त (ा) दान्त (ा) जितेन्द्रियाः -ख. । २२ ह्यलोलु (पाः) - ख. । २३ प्रजाया - घ. । २४ स्ववृत्तिसंयुक्ता - घ. ।
येषां वृत्तिरविच्छिन्ना[^२५] देवब्राह्मणपूजकाः[^२६] ।
नरकं ते न पश्यन्ति स्वर्गगास्ते प्रकीर्तिताः[^२७] ॥ १४॥
भक्ता वर्णत्रयं[^२८] ये च शूद्रा दर्पविवर्जिताः ।
ब्राह्मणांश्च विशेषेण नित्यं ये समुपासते[^२९] ॥१५॥
ते न[^३०] पश्यन्ति नरकं[^३१] सुगतिञ्च[^३२] मृता ययुः ।
चतुर्ष्वपि च वर्णेषु मनुजा भावतः[^३३] शिवम् ॥१६॥
शर्वार्पितक्रियावस्था[^३४] भक्ता नित्यमनुव्रताः ।
न ते प्रयान्ति नरकं प्राप्नुवन्ति परां गतिम् ॥ १७॥
प्रासादं चैव ये कृत्वा देवदेवमुपासते ।
अन्यानपि पितॄँस्ते तु नरकादुद्धरन्त्युत ॥१८॥
खनिताः पुष्करिण्यो यैस्तडागानि ह्रदानि च ।
रोपिता वृक्षषण्डाश्च[^३५] तेपि तान्[^३६] न प्रयान्ति[^३७] हि ॥ १९॥
परित्राणं द्विजातीनामन्येषां चैव दुःखिनाम् ।
नित्यं प्रकुर्वते ये च तेपि तान्[^३८] न व्रजन्ति हि ॥8.52.२० ॥
अक्रोधनाश्च ये नित्यं देवब्राह्मणपूजकाः ।
नित्यं दानरताश्चैव[^३९] न ते गच्छन्त्यधोगतिम् ॥२१ ॥
सत्याभिधानसंयुक्ता दु्ष्टारम्भविवर्जिताः[^४०]।
स्वधर्माचारसंयुक्ताः[^४१] पश्यन्ति नरकं न ते ॥२२॥
लिङ्गार्चनरतस्तस्मात्[^४२] सर्वस्मात् परिमुच्यते ।
ध्यानी त सर्वदा यो वै गणाञ्जपति वा शुचिः ॥२३ ॥
योगी तु[^४३] सर्स(र्व?)पापानि कुर्वन्नपि न लिप्यते ।
स्त्रीणां तु परमो देवः पतिर्भवति सर्वदा ॥२४॥
सततं न व्यवच्छिन्ना - ख. । २६.. पूजने - क. घ । २७ गोप्ता गोब्राह्मणस्य च - ख. । २८ … वर्णत्रये - ख. । २९ ये नित्यमुपसेवते - क. । ३० न ते - ख. । ३१ नरकान् - क., नरकानागतिञ्च - घ. । ३२.. .रवा - घ., खनन्ति - ख. । एतदनन्तरं - त्रिसन्ध्यं सततं भक्त्या इति मे व्रत- मास्थिता, ब्राह्मणा ये न पश्यन्ति (?) नरकं न स गच्छति, इति पाठाधिकः ख. पुस्तके । ३३ पुण्यश्च - क. ख., पुण्यो ये (?) । ३४ तानि - क., शर्वार्पितानि च पुष्पाणि - घ. । ३५… नि - ख. । ३६. .नि - क., तत्र –ख. । ३७ न यान्ति - क. ख., न व्रजन्ति - घ. । ३८ तं - ख. । ३९ ये च - घ. । ४० दुष्टता - क., ये नरा धर्मशीलिनः - घ. । ४१ स्वधर्मकरणे शक्ता - क. घ. । ४२ नित्यं लिङ्गार्चनरतः - ख. । ४३ योगज्ञः - ख. ।
तस्मान्नान्यं[^४४] प्रपश्यन्ति याः काश्चि[^४५]द्धर्मचिन्तिकाः[^४६] ।
कर्मणा मनसा वाचा यद् ददाति[^४७] जुहोति वा ॥ २५॥
परित्यज्य पतिं नारी न तस्य फलमश्नुते ।
पतिशुश्रूषणे रक्ता मनोवाक्कायकर्मभिः[^४८] ॥२६ ।
पतौ[^४९] मृतेपि मनसा नान्यमिच्छति या नरम्[^५०] ।
करोति पुण्यं यच्चापि पत्युः सर्वं[^५१] प्रयच्छति ।
सा नारी नरकान् सर्वान् मनसापि न गच्छति[^५२] ॥२७॥
संसारं नैव सा घोरं[^५३] सर्वं सम्प्रतिपद्यते[^५४] ।
अन्यासां तु न सन्देहो नरकं प्रति सुव्रत[^५५] ॥२८॥
सनत्कुमार उवाच
सुकेशं त्वनुगृह्यैवं देवोपि वृषवाहनः ।
-
-
-
-
-
-
-
- काष्ठकूटाश्रमं गतः ।
अनुजग्राह तं विप्रं काष्ठकूटं तपोधनम् ॥२९॥
- काष्ठकूटाश्रमं गतः ।
-
-
-
-
-
-
व्यास उवाच
किं तपस्तस्य भगवन् ब्राह्मणस्य महात्मनः ।
कियता चैव कालेन वरं लेभे महेश्वरात् ॥8.52.३० ॥
कस्य पुत्रः कस्य नप्ता किन्नामा स च सत्तमः ।
एतदिच्छामि कथितं भगवन् विस्तराच्छुभम्[^५६] ॥३१॥
सनत्कुमार उवाच
गौतमस्यान्वये[^५७] विप्रो नाम्ना कृष्ण इति प्रभुः[^५८] ।
तस्य पुत्रोभवत् ख्यातो भूमन्युरिति नामतः ॥३२ ॥
तस्य पत्न्यभवत् सुभ्रू रात्रेयी नामतो यशाः ।
स कदाचित् कृतोद्वाहो भूमन्युर्न्नाम गौतमः ॥३३ ॥
वन्यत् - क. । ४५ ये केचिद् - क. ख. । ४६ चिन्तकाः - क. ख. घ. । ७ करोति. - घ. । ४८ त्रिविधेनापि कर्मणा - क. घ. । ४९ पत्यौ (?) । ५० न चान्यं सेवते पतिं - घ । ५१ कृत्वा पुण्यानि सर्वाणि फलं पत्युः… - ख. । ५२ न पश्यति - ख. । ५३ घोरान् - ख. । ५४ न प्रतिपद्यते - ख । ५५ प्रतिपद्यते - घ. । ५६?.? वृतं - घ. । ५७ गोतमस्यानुजो - घ. । ५८ प्रभो - घ. ।
नाविन्दत सुतं तस्यां जरया चाभिसंवृतः ।
स भार्यामाह दुःखार्त इदं वचनकोविदः ॥३४॥
पुत्रेणेच्छन्ति लोकांश्च अनृणाश्च भवन्त्युत ।
जरां परिगत[^५९] श्चाहं न च मे दृश्यते सुतः ॥ ३५॥
सा त्वं कञ्चित्[^६०] सगोत्रं मे अनुज्ञाता मया शुभे ।
अभिपद्यस्व[^६१] पुत्रार्थं याचे त्वां[^६२] प्राञ्जलिर्न्नतः ॥३६ ।
सुयशोवाच[^६३]
न मया श्रुतमेतत्ते तथा नोक्तं त्वयानघ ।
मादृशी कथमेतद्धि मनसाप्यभिचिन्तयेत् ॥३७॥
अत्रीणान्तु कुले जाता गौतमं कुलमागता ।
मद्विधा कथमेतद्धि कुर्यात् सद्भिर्विगर्हितम् ॥३८॥
तपसा धनमन्विच्छेज्जीवितानि सुखानि च ।
पुत्रान् कुलञ्च लोकांश्च तपः कुरु महामुने ॥३९॥
तपसा[^६४] हि सुतो[^६५] लब्धः शक्तिना स पराशरः ।
और्वश्च तपसा स्वेन च्यवनेन महामुनिः ॥8.52.४० ॥
वसिष्ठेन कपिञ्जल्यामिन्द्रप्रमतिरेव च ।
शिलादोजनयच्चैव तपसा नन्दिनं सुतम् ॥४१ ॥
तथा भवानपि तपः करोतु सुसमाधिना ।
लप्स्यसे त्वं सुतं श्रेष्ठं महायोगबलान्वितम् ॥४२॥
मां हि दृष्ट्वा पुरा प्राह अत्रिर्ब्रह्मसुतः स्वयम् ।
सत्पुत्रिणी[^६६] भवित्रीयं न मिथ्या तद् भविष्यति ॥४३ ॥
तपोस्ति मयि यत्किञ्चित् त्वत्प्रसादात् समर्जितम्[^६७] ।
तेन स्वेन च संयुक्तो रुद्रमाराधय प्रभो[^६८] ॥४४॥
जरा - क., जरापरिणतः - ख. । ६० किञ्चित् - क. । ६१ मन्यस्व - क. । ६२ ये त्वं - क. । ६३ यशोवाच -क., आत्रेय्युवाच - ख । ६४ तपसो - क. । ६५ सुता - क. । ६६ सुपुत्रिणी - ख. । ६७ समार्जितम् - क. ख. । ६८ प्रभो - क ।
सनत्कुमार उवाच
एवमुक्तस्स[^६९] तेजस्वी ह्रिया[^७०] परमया युतः ।
तयैवं[^७१] समनुज्ञातो रुद्रं शरणमीयिवान्[^७२] ॥४५॥
त्वरितं स[^७३] च समागम्य[^७४] नर्मदां हर्षसंयुतः ।
तस्यास्तीरे[^७५] समुद्विश्य[^७६] तस्थौ वाय्वाशनः[^७७] समाः ॥४६॥
स तु नैवाभवद्विप्रः कृतार्थस्तेन कर्मणा ।
ततस्स दुःखितो[^७८] भूयः प्राणायामेन तस्थिवान् ॥४७॥
वर्षमेकं ततो देवस्तमुवाच तदा विभुः ।
किमेवं क्लिश्यसे विप्र न तवास्ति सुतः क्वचित् ॥४८॥
व्यर्थस्तेयं श्च(श्र?)मस्तावन्नास्ति पुत्रस्तवानघ ।
स एवमुक्तो निर्विण्णो[^७९] निराशः पुत्रजन्मनि[^८०] ॥४९॥
चिन्तयामास मरणं न गन्तुं स्वं गृहं[^८१] प्रति
स काष्ठकूटं सम्भृत्य गृहीत्वाग्निं सुदुःखितः[^८२] ॥8.52.५० ॥
विलप्य बहुदुःखार्त्त आत्मानं दग्धुमैच्छत[^८३] ।
तस्य रुद्र[^८४] स्तमालक्ष्य[^८५] व्यवसायं सुदुष्करम् ॥५१ ॥
पुत्र पुत्रेति गम्भीरमदृश्य इदमब्रवीत्[^८६] ।
पुत्रस्ते भविता गच्छ मा चैवं[^८७] साहसं कृथाः ॥५२॥
काष्ठकूटेति नाम्ना च[^८८] भविष्यति स ते सुतः ।
अथ हृष्टमना विप्रो गत्वा पत्न्यां[^८९] महातपाः ॥५३॥
उत्पादयामास सुतं[^९०] काष्ठकूटं महामुनिम् ।
संस्कृतस्य तु कालेन तस्य बुद्धिरभूत् ततः[^९१] ॥५४॥
श्च - ख. । ७० क्रि (श्रिया)? - ख. । ७१ तथैव - क. ख. । ७२.. मेयिवान् - क. ख । ७३ तु - ख. । ७४ समागत्य - ख. । ७५ तस्यास्तटे - ख. । ७६ समुद्दिश्य - क. ख. । ७७ वाय्या- शनः - क. । ७८ ततस्सुदुःखितो? । ७९… विप्रर्षि - ख । ८० पुत्रमात्नः - ख. । ८१ स्वगृहं - घ.. स्वां (न् गृहान्?) - क. ख. । ८२… ञ्व दुःखितः - क ख घ. । ८३… मिच्छति - ध. । ८४ वज्रः - घ. । ८५… स्समालक्ष्य - ख. । ८६ चाभाष्यवचनं चेदमब्रवीत, - घ. । ८७ मा च त्वं - क घ., मैवं त्वम्- ख. । ८८ वै - घ. । ८९ पत्नीं - घ. । ९० पुत्रं - घ. । ९१ परा - घ. ।
अशक्तोयं वृद्धभावान्मामध्यापयितुं[^९२] पिता ।
तस्माद् यास्यामि चामत्र्य[^९३] पितरं वेदकारणात् ॥५५॥
स गत्वा मातरं विप्रः पितरञ्च महायशाः ।
प्रणम्य शिरसा सम्यगिदं[^९४] वचनमब्रवीत् ॥५६॥
सुतो युवाभ्यां जातोहं धर्महेतोर्न कामतः[^९५] ।
आवां[^९६] तारयिता चायं[^९७] तथैव च पितामहान् ॥५७॥
सन्तततिश्चाप्यविच्छिन्ना भविष्यति न संशयः ।
इष्टाँश्च लोकान् प्राप्स्याव सुपुत्रेणेति[^९८] सर्वथा ॥५८॥
पितॄणाञ्चानृणो स्याव इत्यभीष्टोस्मि वां सुतः ।
सोहं धर्मेष्वकुशलः[^९९] श्रुतिस्मृतिबहिष्कृतः ॥५९॥
कर्त्ताज्ञानेन[^१००] तत्कर्म पितरो येन दुःखिताः ।
भवांश्च निरये मग्न[^१०१] श्चिरं वत्स्यति[^१०२] दुष्टवत् ॥8.52.६० ॥
भवान्नाध्यापने[^१०३] शक्तः स्थविरत्वाद्[^१०४] दिने दिने ।
पुत्रस्नेहाच्च कार्याच्च[^१०५] न सम्यग् धारयिष्यासि[^१०६] ॥६१ ॥
इयं[^१०७] च जननी नित्यमेकपुत्रोयमित्युत[^१०८]।
त्वया सम्यक् प्रशास्यन्तं नैव मामनुमंस्यते ॥६२॥
सोहमन्यं तपो नित्यं निरनुक्रोशमेव च ।
आचार्यं मतिसम्पन्नं[^१०९] संश्रयामीति मे मतिः ॥६३ ॥
न चापि तद्[^११०] व्यवस्यामि युवयोर्नास्ति कश्चन ।
कुर्याद्यः पादयोर्नित्यं शुश्रूषामिति चिन्तयन्[^१११] ॥६४॥
न च नाख्येयमेतद्[^११२] वां मया चिन्ता कृता[^११३] शुभम्[^११४] ।
अशुभं वापि यत्किञ्चिद्युवां मम गतिः परा ॥६५॥
ममाध्यापयितुं - क. घ. । ९३ यास्येहमामन्त्र्य - घ. । ९४ पादौ इद - ख. । ९५ पा (प्रा) र्थित- श्चैव कामतः - घ. । ९६ युवां - घ. । ९७ चाहं - घ. । ९८ सुपुत्रेणैव - घ । ९९ धर्मेषु कुशलः - घ. १०० कर्तुं जाने न - घ., स ज्ञानैर्विरहितः - ख । १०१ दुखं - ख. । १०२ वत्स्याम - ख. । १. ३ न ध्यापने - घ । १०४ स्थविरश्च - ख । १०५… दहार्यश्च - ख. । १०६ वारयिष्यसि - घ. । १०७ इद - क. ख. । १०८ नित्यं ममैकः पुत्र इत्युत - घ । १०९… र्यमभिसम्पन्नं - घ. । ११० तं - क. ख. । १११ चिन्तया - घ. । ११२ वचनाख्येयमेतद् - घ. । ११३ कथं - ख., कृतं - घ. । ११४ शुभा - क. ।
एवमुक्तौ तु पितरौ पुत्रेण सुमहात्मना ।
अश्रुपूर्णेक्षणौ[^११५] स्थित्वा[^११६] मुहूर्तमिदमूचतुः ।
आघ्रायालिङ्ग्य[^११७] सम्मृज्य[^११८] स्नेहात् प्रियसुतौ[^११९] तदा ॥ ६६॥
भूमन्युरुवाच
शुश्रूषा द्विविधा पुत्र पितॄणां धर्मसम्मिता[^१२०] ।
या कर्तव्या प्रयत्नेन सुतेन सुमहात्मना ॥ ६७॥
ऐहिकी चाङ्गशुश्रूषा या परत्र च धर्मदा ।
यया तरन्ति पितरः कामाँश्चाप्नुवतेक्षयान् ।
तत्रैहिकं न नो[^१२१] हीष्टं[^१२२] यथा ह्यामुष्मिकं हितम्[^१२३] ॥ ६८॥
तस्मादामुष्मिकं कर्म यद् भवेत्तत् समाचर[^१२४] ।
गच्छाधीष्व श्रुतिञ्चैव स्मृतिञ्चैव सुकर्मणाम् ॥ ६९॥
सुयशोवाच[^१२५]
यथा[^१२६] तेयं पिता पुत्र ब्रवीति विदितात्मवान्[^१२७] ।
तथा कुरु यथा देवो वरदस्ते[^१२८] भवेद्[^१२९] भवः ॥8.52.७० ॥
उदरेण[^१३०] मया दुःखं[^१३१] धारितस्त्वं महामते[^१३२] ।
तथा च बहुभिः क्लेशैर्ल्लब्धः सर्वार्थसिद्धये ॥७१ ॥
पित्रा च तपसोग्रेण प्राणाँस्त्यक्त्वातिदुस्त्यजान् ।
महादेवाद् भवाल्ँलव्धस्तस्य[^१३३] युक्तं समाचर ॥७२॥
यथा तुष्टो त्वया पुत्र जीवौ जीवेन सङ्गतौ[^१३४] ।
आवामुभावपि स्याव[^१३५] तथा सम्यक् समाचर[^१३६] ॥७३ ॥
साश्रुपूर्णेक्षणौ - क ख । ११६ दीनौ - घ. । ११७ आघ्राय्यालिङ्ग्य - क., आध्याय्या. - ख. । ११८ सम्मार्ज्य - क. ख. । ११९… सुतं - ख । इतः परं - ``तथा कुरु यशो नित्यं येन नौ दुःखमाप्तवान् इति पाठोधिको घ पुस्तके । १२० धर्मसंहिता - क. ख । १२१ न मे - ख. । १२२… भीष्टं (?) । १२३ कृतं - ख- । १२४ समाचरेत - क. । १२५ मातो.. - घ. । १२६ अथ - घ. । १२७ विदितार्थवान् - घ. । १२८ वदते - न. । १२९ भवो - ख, यमुक्तवान् - क., करुणात्मवान् - घ. । १३० सुदारुणं - घ. । १३१ दुःखाद् - घ. । १३२ महामुने - घ. । १३३ तपस्तस्माद् - घ. । १३४ संयुतौ - क. । १३५ आवां नैव मरिष्याव - घ.,… स्यातां - क । १३६ त्वमाचरेः - ख. ।
सनत्कुमार उवाच
ततस्ताभ्यामनुज्ञात आघ्रातश्चैव मूर्धनि ।
प्रदक्षिणमुपावृत्य जगाम स कृतात्मवान्[^१३७] ॥७४॥
स जगाम[^१३८] तदा ताभ्यां विसृष्टश्च्यवनं[^१३९] प्रति ।
ऋग्यजुर्भ्यामिवोत्सृष्टा स्वाहुतिर्वरुणं प्रति ॥७५॥
स तमासाद्य तुष्टेन तेनासौ सफलः[^१४०] कृतः ।
भागधेयमिव प्राप्य देवैर्मन्त्रः पुरस्सरः[^१४१] ॥७६॥
अथ पुत्रे गते तस्मिन् पिता दिष्टान्त[^१४२] मीयिवान्[^१४३] ।
काष्ठकूटस्ततोभ्येत्य कृतविद्यः सुधार्मिकः ॥७७॥
अपश्यन्मातरं दीनां वितोयामिव[^१४४] पद्मिनीम्[^१४५] ।
सोमहीनामिव[^१४६] निशामाज्ञाहीनामिव श्रियम्[^१४७] ।
रुदतीमश्रुपूर्णाक्षीं[^१४८] विलपन्तीं सुदुःखिताम् ॥७८ ॥
काष्ठकूटस्तु तां दृष्टवा दुःखेन समभिप्लुताम्[^१४९] ।
जयन्त[^१५०] इव पौलोमीं शक्रे नष्टेब्रवीदिदम् ॥७९ ॥
काष्ठकूट उवाच
श्रुतं मयेदं प्रागेव कृतं चैवोर्ध्वदेहिकम्[^१५१] ।
मा शोके मन आधत्स्व एष धर्मः सनातनः ॥8.52.८० ॥
देवानाञ्च ऋषीणां च योगिनाञ्च महात्मनाम् ।
मर्त्यानां किं पुनर्मातर्मा[^१५२] शुच[^१५३] स्तं तपोधनम्[^१५४] ॥८१ ॥
अहं तेनात्मनात्मा वै[^१५५] सृष्टः[^१५६] स्वेनैव[^१५७] तेजसा ।
पश्य मां कृतकृत्यं त्वं गायत्रीवात्मनः सुतम् ॥८२ ॥
सुकृतात्मवान् - क. ख., स कृतार्थवान् - घ. । १३८ आजगाम - ख. । १३९ विशिष्टश्चार्चनं - घ. । १४० फलदः - ख. । १४१ मन्त्रपुरस्सरः - क. ख. घ. । १४२ कालेन - क. घ. । १४३ मेयिवान् - ख, संयुक्त - क, सम्मृत - घ. । १४४ निस्तोयामिव - घ., नामतो - ख. । १४५ पक्षिणीम् - घ । १४६ चन्द्रहीनामिव - ख. । १४७ यज्ञहीनमपाश्रमम् - घ, प्रियां - क., प्रिये - ख. । १४८ साश्रु- पूर्णाक्षीं - क. ख. घ. । १४९ प्लुतः - घ. । १५० यजन्त - ख. । १५१ कृता चैवोदकक्रिया - क. ख । १५२ किमु तन् मातर्मा - - ख. । १५३ मा रुद - क., मा रोदी - घ. । १५४ तपोधने - क. । १५५ सृष्टः - ख, भावः - च. । १५६ स्वेन - ख. । १५७ तेनैव - ख. ।
वेदाः सर्वे मयाधीताः साङ्गोपाङ्गास्सविस्तराः ।
तथोपवेदास्सर्वे च[^१५८] अध्यात्मञ्चैव कृत्स्नशः ॥८३ ॥
यत्किञ्चित् पुरुषैर्ज्ञेयं तत्सर्वं ज्ञानमेव च ।
श्रोतव्यं च श्रुतं सर्वमुपास्ताश्चापि[^१५९] योगिनः ॥८४॥
अनेनापि[^१६०] प्रकर्षेण हृष्यमाणा मुदान्विता ।
मां पालय महासत्वे गायत्रीव सदा क्रतुम् ॥८५॥
सनत्कुमार उवाच
श्रुत्वा तस्य वच[^१६१] स्तस्तद्वै[^१६२] माता[^१६३] तथ्यं[^१६४] महात्मनः ।
भूयस्तरेण[^१६५] दुःखेन[^१६६] रुदती[^१६७] तमुवाच ह ॥८६ ॥
सुयशोवाच[^१६८]
पुत्र नैतद्धि दुःखं मे मृतः स इति[^१६९] सम्मतः ।
सर्वेषां प्राणिनामेतद्विहितं मर्त्यधर्मिणाम् ॥८७॥
स चापि कृतकृत्यश्च महात्मा तपसान्वितः ।
न तस्य[^१७०] शोच्यमस्माभिरिह किञ्चिद्धि[^१७१] विद्यते ॥८८॥
आत्मानं पुत्र शोचामि याहं तेन विना कृता ।
तमेवानु मृता नास्मि तवागमनकाङ्क्षिणी ॥८९॥
नार्था न भोगस्वजना न पुत्रा नैव[^१७२] बान्धवाः ।
योषितां[^१७३] तत्र तिष्ठन्ति पतिर्यत्रावतिष्ठते ॥8.52.९० ॥
पतिर्यदि[^१७४] ततः सर्वं[^१७५] नास्ति किञ्चित् पतिं विना[^१७६] ।
सर्वं हि दुःखदं तासां[^१७७] यासां नास्ति पतिः सुत[^१७८] ॥९१ ॥
तु - ख । १५९.. .श्चैव - ख. । १६० अनेन हि - क. ख. । १६१ तत - घ. । १६२ सर्वं - ख. । १६३ याथातथ्यं - घ. । १६४ तस्य - क. । १६५ स्तारेण - ख. । १६६ दुःखार्ता - ख. । १६७ रुदन्ती - ख. । १६८ यशो - क. ख. । १६९ इत्येव - ख., स श्रुतिसागरः - घ. । १७० तस्या घ । १७१ किञ्चिन्न - घ. । १७२ न ममाद्याखिला भोगाः स्वजनाः पुत्र नाखिलान्भोगान् स्वजनाः.. - घ. । १७३ योजिता - घ. । १७४ पतिर्यत्र - घ. । १७५ न तत् सर्वं - ख, गतिः सर्वा - घ. । १७६ पतिव्रता - घ । १७७… मेतासां - ख. । १७८ सुतः - क. ख. ।
इदं च[^१७९] मे पुनर्दुःखं यत्त्वां तेन[^१८०] सहाद्य वै ।
नाभिनन्दामि संहृष्टा सुतं[^१८१] श्रीरवि विष्णुना ॥९२॥
बहुशः स हि मामाह[^१८२] काष्ठकूट इहैष्यति[^१८३] ।
कृतविद्यस्ततस्तस्य वरयिष्ये स्नुषां शुभाम्[^१८४] ॥९३ ॥
काश्यपस्योदलस्येयं सुता[^१८५] गुणवती भृशम्[^१८६] ।
तामहं वरयिष्यामि काष्ठकूटस्य सुव्रताम् ॥ ९४॥
तदा[^१८७] द्रक्ष्यामि तं पुत्रं सपत्नीकं दृढव्रतम् ।
अग्नीँश्चैवाहरिष्यामि[^१८८] पत्नीवन्तं[^१८९] समीक्ष्य वै[^१९०]॥९५॥
पत्न्याः[^१९१] कदाहं पुत्रस्य पाणिग्रहणतोषितः ।
शुभानि मनसा वाचा विधास्यामि बहून्यपि ॥९६॥
एवं मनोरथवतस्तस्य पुत्रवतस्तथा[^१९२] ।
प्रियपुत्रस्य[^१९३] नैवाभूदेतद् दहति मां सुत ॥९७॥
मया त्वमुक्तपूर्वश्च[^१९४] गच्छन्वै तस्य[^१९५] सन्निधौ ।
जीवौ[^१९६] यथा त्वां[^१९७] पश्यावस्तच्च[^१९८] नैवाभवत्तथा[^१९९] ॥९८॥
वज्रसारमयं मेद्य[^२००] हृदयं न हि[^२०१] दीर्यते
या त्वां पश्यामि पुत्रेह विना तेनासती[^२०२] पुनः ॥९९॥
सनत्कुमार उवाच
ततः सा कुररी यद्वद्विना पत्या महायशा ।
विलप्य बहुदुःखार्त्ता पपात धरणीतले ॥ 8.52.१०० ॥
तां काष्ठकूटो दुःखार्तां पतितां गतजीविताम् ।
विसञ्ज्ञामग्निना दग्ध्वा विललाप सुदुःखितः ॥१०१ ॥
ततश्च - क. । १८० त्वयानेन - ख. । १८१ सुखं - क. ख., कामं - घ. । १८२ तामाह - घ. । १८३ इहेष्यति - क. ख. । १८४ सुतां - ख. । १८५ शुभा - ख. । १८६… रिह - ख. । १८७ कदा - ख. । १८८ अग्निं चैवाहरिष्यामि - ख. । १८९ पत्नीरत्नं - क. ख । १९० वे - क., ह - ख. । १९१ पत्न्या - क. ख, । १९२… स्तस्य पुत्र तव पितुः… - घ. । १९३ प्रियश्च तस्य - घ. । १९४… स्सर्वञ्च - क. । १९५ स्वै… - ख.,.. न्नैतस्य - ख. । १९६ शिवौ - घ. । २९७.. .वां - घ. । १९८ स्तत्र - घ. । १९९ त्तदा - घ । २०० पुत्र - घ । २०१ यन्न - क. घ. । २०२ नेनासती - क। तेनासतां - घ. ।
हा तात मम दुर्बुद्धेरधर्मज्ञस्य चैव हि २०३ ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ॥ १०२॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
क्व गतोसि न मेद्य त्वं सभार्यः सम्प्रभाषसे ।
ननु त्वयाहं निर्दिष्टो[^२०४] गच्छाधीष्वेति हृष्टवत्[^२०५] ॥ १०३ ॥
सोहमद्यागतोधीत्य[^२०६] कस्मान्मां नाभिभाषसे ।
ननु[^२०७] ते तपसा लब्धः परेण च[^२०८] समाधिना ॥१०४॥
पुत्रोहं देवदेवाद्वै रुद्रात् किं नाभिभाषसे ।
किं मयापकृतं[^२०९] तात सहभार्यस्य तेनघ[^२१०] ॥ १०५ ॥
यन्मां सहाम्बयागत्य[^२११] दृढं नैवाभिनन्दसि[^२१२] ।
हा हतोसि मयैकेन दुष्पुत्रेण दुरात्मना । १०६॥
अराजकमिदं मन्ये पितृघ्नं मां न हन्ति यत् ।
एवं स विलपन् व्यास ऋषिभिर्बहुभिस्तथा ॥ १०७॥
संस्थापितः समाश्वस्ते नाकरोदुदकक्रियाम् ।
इमां प्रतिज्ञां चक्रे च[^२१३] ऋषिमध्ये महातपाः ॥ १०८॥
दुष्करां[^२१४] सर्वभूतानामुपस्पृश्य कृताञ्जलिः[^२१५] ।
अद्यप्रभृति नोच्छ्वासं करिष्यामि कथञ्चन ॥ १०९॥
वायवो मे शरीरस्था न चरिष्यन्ति[^२१६] कर्हिचित् ।
निमेषोन्मेषरहित एकपादोर्ध्वबाहुमान्[^२१७] ॥
काष्ठलोष्ठोपलीभूतो भविष्यामि न संशयः ॥ 8.52.११० ॥
रुद्रं द्रक्ष्यामि[^२१८] यावच्च यावच्च पितरं तथा ।
सभार्यं सं[^२१९] प्रपश्यामि तावद् व्रतमिदं मम ॥ १११ ॥
ह - क. टि. । २०४ त्वयाहमुद्दिष्टो - क,… हमादिष्टो (?) । २०५.. वान् - क- । २०६… धीत्वा - क, ख. । २०७ अम्ब - घ. । २०८ परेणैव - घ. । २०९ न कृतं - घ. । २१० सभार्यस्य स (तो?) नघ - ख.,… तेन वै - घ. । २११… गक्वा - क. ख. । २१२… नन्दसे - ख. । २१३ स - ख. । २१४ पुष्करात् - ख. । २१५ कृताञ्जलिम् - क. । २१६ करिष्यन्ति - ख. । २१७… बाहुना - ख. । २१८ वक्ष्यामि - क. । २१९ च - क. ।
सनत्कुमार उवाच
ततः स ऋषिभिस्तैस्तु[^२२०] दृश्यमानो महातपाः ।
महेश्वरं सदा ध्यायन् तत्रैव समतिष्ठत[^२२१] ॥ ११२॥
तस्य देवः[^२२२] स्थितस्यैवं पितृभक्त्या[^२२३] तथापि च ।
तुष्टो दिनेष्टमे व्यास स्वयमेवाह शङ्करः ॥ ११३ ॥
देवदेव उवाच
काष्ठकूट प्रयच्छामि दिव्यं चक्षुस्तवानघ ।
पश्य मां त्वं सुविश्रब्धमदृश्यं योगिनामपि ॥ ११४॥
ब्रूहि पुत्र वरं चापि यस्ते हृदि समाहितः ।
प्रदास्यामि न सन्देहः सुनिश्चित्याभिधत्स्व[^२२४] माम्[^२२५] ॥११५॥
सनत्कुमार उवाच
ततः स दृष्टवा देवेशमुद्यन्तमिव भास्करम् ।
पपात पादयोर्हृष्ट इदञ्चोवाच सुस्वरम्[^२२६] ॥ ११६॥
काष्ठकूट उवाच
भगवन् मृत्युना माता पिता च मम योजितौ ।
जीवेतां तावुभौ देव एतदिच्छाम्यहं वरम्[^२२७] ॥ ११७॥
देवदेव उवाच
तावुभौ[^२२८] नरकं घोरं प्रपन्नौ[^२२९] मृत्युनार्दितौ ।
न तौ शक्यौ पुनर्जीवौ[^२३०] कर्तुमन्यद्वृणीष्व मे[^२३१] ॥११८ ॥
काष्ठकूट उवाच
नाहमन्यं वरं देव कथञ्चिदपि कामये ।
पित्रर्थोयं समारम्भस्तद्विधत्स्व नमस्तव ॥ ११९ ॥
त (तो) महर्षिभिस्तैस्तु - ख. । २२१… तिष्ठति - ख । २२२ देवे - क, ह्यव - ख । २२३ पितृभक्त - ख. । २२४ सन्देहं - -क ऽ अचिरेणाभिधत्स्व तत् - घ., इतः पूर्वं एतस्मिन्तिरे तत्र देवो रुद्रः समभ्यगात इति पद्यार्धं दृश्यते घ. पुस्तके । २२५ तम् - क । २२६ सत्वरम् - घ. । २२७ एतदिच्छामि वेदितुं - घ. । २२८ तौ मृतौ - क. घ. ॥ २२९ प्रयातौ - ख. । २३० प्रणेतारौ -घ. । २३१ मया दुष्कृतकर्मणा - घ. ।
देवदेव उवाच
शरीरं चेन्मृतस्यास्ति तच्छक्यं[^२३२] जीवितेन हि ।
सयोजयितुमद्यैव[^२३३] दग्धस्यैतन्न विद्यते ॥ 8.52.१२० ॥
तयोर्नचास्ति वै देहो[^२३४] न चान्यत् करणं[^२३५] तथा ।
यादृक् च स पिता तुभ्यं भवाँस्तादृक् छरीरतः[^२३६] ।
शरीरमेतत्त्वं यच्छ ततो जीवौ[^२३७] भविष्यतः[^२३८] ॥ १२१ ॥
काष्ठकूट उवाच
ताभ्यां[^२३९] वै नास्त्यकर्तव्यं[^२४०] कर्तव्यं चेन्मतं भवेत् (?) ।
शरीरं च विना दृष्टमुत्थानं वै ध्रुवस्य २४१ तु (?) ॥ १२२॥
न चापि मे शरीरेण विना ताभ्यां[^२४२] रतिः प्रभो ।
तस्माद् गृहाण देवश शरीरं यदि मन्यसे ॥१२३ ॥
तस्यैवेदं तहादेव अङ्गादङ्गः समुत्थितम् ।
तस्माद्यच्छस्व देवेश न मे कार्यमनेन हि ॥ १२४॥
सनत्कुमार उवाच
ततः स भगवान्देवः प्रहस्य[^२४३] ऋषिसत्तम[^२४४] ।
प्रीतात्मा प्रत्युवाचेदं युयुक्षुस्तं[^२४५] शुभेन हि ॥१२५॥
देवदेव उवाच
परीक्षेयं कृता पुत्र तव धर्मवृतां वर[^२४६] ।
पितृभक्त्यानया सम्यक् तुष्टोस्मि शृणु मे वचः ॥१२६॥
अक्षयश्चाव्ययश्चापि जरामृत्युविवर्जितः[^२४७] ।
ऐश्वर्येण च संयुक्तः प्रियो मे गणपो भवान्[^२४८] ॥ १२७॥
काष्ठकूट इति ख्यातः सर्वयोगबलान्वितः ।
कामगेन विमानेन मत्कृतेन चरिष्यसि ॥ १२८॥
न शक्यं ः घ.। २३३ मन्येन ख घ. । २३४ देहो वै घ.। २३५ कारणं क. ख.घ. । २३६ समीरितः - घ । २३ ‘७ जीवो - घ. । २३८ भविष्यति - घ । २३९ तुभ्यं - घ., नान्यं - क. । २४. नास्ति कर्तव्यं - घ । २४१ चाध्रुवस्य - घ. । २४२ विज्ञानाभ्यां - घ. । २४३ प्रहृष्ट - घ. । २४४ सत्तमे - घ. । २४५ मुमुक्षुस्तं - घ. । २४६ पुत्रवतां - घ. । २४७ अजरो मृत्युवर्जितः - क. । २४८ भव - घ. ।
इमे च ऋषयः सर्व आश्रमेस्मिन् तपस्विनः ।
तवैवानुचरा भूत्वा भविष्यन्ति गणेश्वराः ॥ १२९॥
अक्षयाश्चाव्ययाश्चैव[^२४९] महायोगबलान्विताः[^२५०] ।
ऐश्वर्येण च तुल्यास्ते भविष्यन्ति न संशयः ॥ 8.52.१३० ॥
अयञ्च ते पिता पुत्र भूमन्युः सह भार्यया ।
तवैवानुचरो[^२५१] भूत्वा त्वत्समः समुपस्थितः ॥१३१ ॥
श्वेतञ्च पर्वतं दिव्यं विमानैरुपशोभितम् ।
कामगं सं[^२५२] प्रयच्छामि निवासं स्वर्गसन्निभम् ॥ १३२॥
सनत्कुमार उवाच
ततः स भगवान्देव अनुगृह्य तमूर्ज्जितम् ।
जगाम मन्दरं भूयः सोपीष्टं देशमाव्रजत् ॥ १३३ ॥
यावद् देवी तपोयुक्ता पितुः[^२५३] शिखरमास्थिता २५४ ।
तावद् देव[^२५५] इदं सर्वं चकार कथितं हि यत्[^२५६] ॥१३४॥
य इदं[^२५७] देवदेवस्य चेष्टितं शृणुयान्नरः ।
श्रावयीत द्विजान् वापि[^२५८] न स दुर्गतिमाप्नुयात्[^२५९] ॥१३५॥
नित्यमेतदधीयानः[^२६०] शुचिः प्रयतमानसः ।
देहभेदं समासाद्य रुद्रलोकं स गच्छति ॥ १३६॥
थ इमं बहुपापनाशनं परमं रुद्रसमीपयोजनम् ।
पठते च गुणप्रसाधनं स मृतो याति न दीनसम्भवम् ॥ १३७॥
इति स्कन्दपुराणे काष्ठकूटमहाभाग्यं नाम द्विपञ्चाशोध्यायः