सनत्कुमार उवाच
सुकेशस्तु ततो व्यास पितुः श्रुत्वा सुदीनवत्[^१] ।
दुःखित[^२] श्चिन्तयामास जन्तुना तां गतिं तदा[^३] ॥ १ ॥
विद्विष्टः - ख. । ५९… स्तदा - ख. । ६…. भक्ष्यो - ख. । ६१ तव पुत्रक - क. । ६२ यथागति - क., यथामति - ख. । ६३ भक्तः - घ. । ६४ सर्वयम्येः - ख. । ६५ धन्यैर्विंशस्य- मायुष्यं - ख. । ६६ श्राव्यं - क. ख. । ६७ स्वर्गमिच्छता - ख. । ६८ सुमतिप्रदं - घ. । ६९ नरककीर्तनं समाप्तं - घ. ।
दीनवाक् - क.. वान् - ख. घ. । २ दीनवत् - क. घ. । ३ गतिचिन्तकः - ख. ।
चिन्तयाभिपरीतात्मा दुःखेन च समाहतः[^४] ।
जन्तूनां मोक्षणोपायं मूढचेता न जज्ञिवान्[^५] ॥ २॥
चिन्तापन्नः[^६] स तु यदा पितॄँ स्तान्नाभ्यभाषत[^८] ।
तदा ते पितरः सर्वे सुकेशमिदमूचिरे ॥३ ॥
पितर ऊचुः
अतीव किं चिन्तयसि कुतश्चिन्ता तवानघ ।
ईश्वरस्य सतः पुत्र[^९] नेदं तव विधीयते ॥४॥
सुकेश उवाच
जन्तूनां कर्मजं क्लेशं श्रुत्वा युष्माभिरीरितम् ।
चिन्तयामि कथं तेषां मोक्षोपायो भवेदिति ॥५॥
पितर ऊचुः
अनादृत्य क्षयं[^१०] पुत्र मोक्षस्तेषां न विद्यते ।
कर्मणः स्वकृतस्येह स च भोगात् क्षयो मतः ॥६॥
भोगश्च नरकेवश्यं जन्तुना सं[^११] विधीयते ।
न च ते नारकाः[^१२] शक्या हर्त्तुं[^१३] कर्मक्षयं विना ॥७॥
अशक्याः खलु ये ह्यर्था न तान् प्राज्ञस्समारभेत् ।
अर्णवस्य[^१४] प्रतरणं यथा त्वां मृत्युमृच्छति[^१५] ॥८॥
सनत्कुमार उवाच
एवमुक्तः स[^१६] तेजस्वी पितॄँ स्तान् हॄच्छयावृतः[^१७] ।
उवाच प्रणतो भूत्वा मावमध्वं[^१८] सुतं हि माम् ॥९॥
सर्वेषां करुणात्मनां - ख., समाहितः - घ. । ५ मूढचेता - क., कथं स्यादिति निश्चयं - ख., चिन्तयामास वै तदा - घ. । ६ चिन्तयानः - घ. । ७ तदा - ख. । ८ तान्यु (नु) वाच पितॄन् स तु (सुतः?) - ख., नाभ्यभाषत - क. ख.,.. .श्चागत्य भाषते - घ. । ९ महादेवप्रसादाद्धि - ख. । १०… मनादृत्य - घ.. पापक्षयं विना - ख. । ११ स - क. ख. । १२ नरकाः - क. घ. । १३ हन्तुं - घ. । १४ अर्णवस्येव - ख. । १५ तीरमप्राप्य नश्यति - ख. । १६… श्च - ख. । १७ कृपया वृतः - घ. । १८ मावमंस्था - क. ख. घ. ।
का शक्तिर्मम[^१९] तान् जन्तून् बलात् तारयितुं शुभान्[^२०] ।
महादेवप्रसादस्तान्[^२१] तारयिष्यति[^२२] दुर्गतीन्[^२३] ॥8.51.१० ॥
यूयं यथैव[^२४] तीर्णाः स्थ नरकस्था विचेतसः[^२५] ।
तथा ते[^२६] जन्तवस्सर्वे तरिष्यन्ति[^२७] न संशयः ॥ ११ ॥
सनत्कुमार उवाच
ततस्तान् स तदा[^२८]मन्त्र्य महात्मा गणनायकः ।
सम्प्रविश्य समुद्राम्भो ह्यन्तर्जलगतस्तदा[^२९] ॥ १२ ॥
जजाप रुद्रान् शुद्धात्मा निश्चलः सुसमाहितः ।
जपतस्तस्य योगेन युक्तस्य च महात्मनः ॥१३ ॥
त्रैलोक्यमखिलं व्यास[^३०] तपसाभूत् प्रतापितम्[^३१] ।
ततो देवास्तदा सर्वे पितामहमथाब्रुवन् ॥ १४॥
किमिदं भगवन् सर्वे तप्याम विवशा वयम् ।
कस्येदं तपसो वीर्यं कस्य योगोयमीदृशः ॥ १५ ॥
क एष सुरशार्दूल तपस्तप्यति[^३२] दारुणम्[^३३] ।
यावदेवं न दहति यावन्नैव न कुप्यते ॥ १६॥
तावत् सर्वानभिप्रायान् तस्य सम्पादय प्रभो ।
स एवमुक्तो[^३४] देवैस्तैर्भगवान् देवसत्तमः[^३५] ॥१७॥
उवाच मा भयं वोस्तु नायं कश्चिदसम्मतः ।
स एष देवदेवस्य[^३६] महात्मा[^३७] गणनायकः ॥ १८॥
समुद्रान्तर्जलासीनो[^३८] रुद्रान् जपति योगवान् ।
न चास्य दुष्टोभिप्रायो लोकान्प्रति महाबलाः[^३९] ॥१९ ॥
का गतिर्मम - ख. । २० पितः - घ. । २१… प्रसादात्तान् - क., प्रसादात्तां - घ. । २२ नाशयिष्यति - घ नाशयिष्यामि - क. घ. । २३ दुर्गतिम् - घ. । २४ तथैव - क. । २५ पितामहाः - ख. । २६ तथैव - घ. । २७ भविष्यान्ति - घ. । २८ पितरो - ख. । २९?. .स्तथा - क । ३० सर्वं - क. । ३१ प्रधूपित इ (मि) वाभवत् - ख. । ३२.?. स्तप - क., स्तपस्यति - ख. । ३३ सुदारुणम् - ख. । ३४ एवमुक्तः सः - घ । ३५ कमलासनः - ख । ३६ एष देवस्य रुद्रस्य - क घ । ३७ सुकेशो - ख. । ३८ र्जले सम्यक् - ख. । ३९ परिपूर्णोर्थः सर्वेषां करुणात्मकः - ख. ।
नारकानेव नरकादुद्धर्तुमभिमन्यते ।
तद्[^४०] यूयं यदि[^४१] मन्यध्वे[^४२] गत्वा रुद्रं प्रणम्य च ॥8.51.२०॥
अर्थयामोस्य देवस्य क्रियतामीप्सितो वरः ।
एवमस्त्विति ते सर्वे ब्रह्मणा सह सङ्गताः ॥२१ ॥
गता मन्दरमव्यग्रा[^४३] नन्दिना सम्प्रवेशिताः ।
ते दृष्टवा देवमीशानं स्तुत्वेदमब्रुवन्[^४४] विभुम्[^४५] ॥२२॥
सुकेशो भगवन् तुभ्यं वल्लभो गणनायकः ।
कारुण्यं[^४६] प्राणिनां कृत्वा तपस्तप्यति दुश्चरम् ॥२३ ॥
तस्य कामं सकामं[^४७] त्वं कुरुष्व भुवनेश्वर ।
तेषां विज्ञप्तिमाकर्ण्य देवदेवस्ततो[^४८] भवः ॥२४॥
ब्रह्माद्यैः सहितोभ्यागात्[^४९] सुकेशस्य तदान्तिकम्[^५०] ।
समुद्रस्तत्र ये चान्ये[^५१] मुनयः[^५२] शंसितव्रताः ॥२५॥
अर्ध्यमादाय शतशो[^५३] नेमुः शङ्करमागतम् ।
तमसौ गणपश्रेष्ठं देवदेव इदं वचः ॥२६॥
प्रोवाच मधुरं व्यास मनःश्रोत्रसुखावहम् ।
वत्सोत्तिष्ठ सुकेश त्वं प्रार्थयस्व यथेप्सितम् ॥२७॥
सर्वं तत्[^५४] सम्प्रदास्यामि त्वं हि[^५५] नन्दिसमो मम ।
ततः सुकेश उत्थाय स्तुत्वा च[^५६] वृषभध्वजम् ॥२८॥
प्रणिपत्य पुनर्वव्रे कामं पूर्वसमीहितम्[^५७] ।
नरकेषु नरा देव यात्यन्ते पापकारिणः[^५८] ॥२९॥
तेषामुपरि[^५९] चेतो मे दुःखेनार्दितमीश्वर[^६०] ।
ते यथा प्रतिमुच्यन्ते सर्व एव जगत्प्रभोः[^६१] ॥8.51.३० ॥
ते - क. । ४१.. .मभि - ख. । ४२ मन्यध्वं - क. ख. घ. । ४३ मन्दिरमव्यग्रा - क. । ४४.. .त्वैवमब्रुवन् - घ । ४५ चिरम् - घ. । ४६ करुणां - ख. । ४७ सकाम - क., प्रकाम - ख. । ४८.. सदा - क. । ४९ ह्यागात् - ख. । ५० महात्मनाः (नः) - क. । ५१ समुद्रा - क, समुद्रो मुनिभिस्सार्धं - ख. । ५२ यत्र ये - ख । ५३ सततं - क. । ५४ तत्सर्वं - घ., सर्व हि त्वत् - ख । ५५ तु - ख. । ५६ तं - क । ५७ तन्निष्पत्ति न संशयः - क. । ५८ स्वेन कर्मणा - ख, पापकर्मिणः - घ. । ५९ तेषामर्थे - व. । ६० मे चिन्ता कृपया परमेश्वर - ख, मनो मेद्य - घ. । ६१ सुदुःखिताः - ख ।
तथा कुरु ममाद्यैव वर एष मयार्थितः[^६२] ।
ये चाधुना नरा देव यात्यन्ते नरकेषु वै ॥३१ ॥
तेषान्तु प्रतिमोक्षार्थं याचेहं त्वां सुरेश्वर[^६३]।
ततस्तदर्थितं[^६४] देवः प्रयच्छन्निदमब्रवीत् ॥३२॥
एवं भवतु ते वत्स मुक्ता[^६५] नारकिणो नराः ।
अनयापि च भक्त्या त्वं कारुण्येन च वल्लभः[^६६] ॥३३ ॥
सुतरां भव निर्व्यग्रः परमैश्वर्यसंयुतः ।
ततस्ते नारकाः सर्वे[^६७] विमानानि समाश्रिताः ॥३४॥
देवदेवं ततोभ्येत्य सुकेशञ्च प्रणेमिरे ।
तमुवाच पुनर्देवः सुकेशं गणनायकम् ॥ ३५॥
यो हि[^६८] तारयते जन्तूनापदः[^६९] काँश्चिदेव तु ।
तेषां धर्मपिता भूत्वा संसारं न स पश्यति[^७०] ॥३६॥
मनसापि हि यः प्राणी क्लेशाज्जन्तून्सदेच्छति[^७१] ।
विमोक्तुं[^७२] सोपि धर्मात्मा सर्वदुःखैः प्रमुच्यते ॥३७॥
यश्चोपार्ज्य स्वयं धर्मं जन्तुभ्यः सम्प्रयच्छति ।
सुखार्थं सोपि सर्वेभ्यो[^७३] दुःखेभ्यः[^७४] सम्प्रमुच्यते[^७५] ॥३८॥
स त्वं परेण योगेन ऐश्वर्येण च संयुतः ।
जन्तूनां तारणे युक्तस्त्वयान्यः कः समो[^७६] भुवि ॥३९॥
सुकेश उवाच
भगवन् त्वत्प्रसादान्मे सर्वमेतद् भविष्यति ।
शक्तिर्मम कुतो देव त्वयैवैतत् कृतं विभो ॥8.51.४० ॥
वृतः - घ. । ६३ याचयेयं - क. घ., याचयेयन्त्वत्सकाशतः - ख. । ६४ स्तुष्टस्तदार्थितं - ख. । ६५ युक्ता - क. । ६६ सत्वानां करुणाय च - ख. । ६७ सत्वा - घ., सत्वा मुक्ता यातनसंस्थिताः - ख. । ६८ मे ( यो) पि - क. । ६९ जन्तूनापदं - क. . दा - ख,.. पादं - घ. । ७० प्रयच्छति - ख घ. । ७१ समुद्धरेत् - घ. । ७२ विमुक्तः - घ. । ७३ धर्मात्मा - ख । ७४ सर्वदुःखै,.. - ख । ७५ सम्प्रयुज्यते - घ. । ७६ नरः - ख., भवेत् - घ. ।
द(न?) चान्यदस्ति कर्त्तव्यं[^७७] कृत्यं[^७८] यन्मे मनोगतम् ।
तवास्मि किङ्करो दासो नाश्चर्यं यन्ममेदृशम्[^७९] ॥४१ ॥
सनत्कुमार उवाच
ततः स भगवान् देवो विसृज्य गणनायकम् ।
अभ्यगात् मन्दरं[^८०] व्यास वृतः सर्वामरैस्तदा ॥४२ ॥
देवा अपि विमानस्थान्[^८१] नारकान् वीक्ष्य सर्वशः ।
शान्तं च जगतो दुःखं दृष्ट्वा जग्मुर्यथागतम् ॥४३ ॥
य इमं नारकोत्तारं शृणुयाद्वा पठेत वा ।
स दुःखं समनुप्राप्य[^८२] नावसीदति कर्हिचित् ॥४४॥
एतद्योगविधानसर्वसमयं[^८३] श्रुत्वा नरो नित्यशः
पापात्मापि सुनिर्घृणं प्रतिभयं नाभ्येति पापाश्रयम् ।
किन्त्वेतद् य इहाभ्युपेत्य सततं शौचान्वितः श्रावयेत्
देवब्रह्मणवैद्यसंसदि दृढं भक्तः[^८४] सदा शङ्करम्[^८५] ॥४५॥
इति स्कन्दपुराणे नारकीयमोक्षणे[^८६] एकपञ्चाशोध्यायः