अतः परं प्रवक्ष्यामि संसारपरिवर्तनम् ।
यथा वै[^१] नरकात्तीर्णाः संसरन्ति समासतः[^२] ॥ १ ॥
प्रथमे नरके प्रोक्ता ये मया पापकर्मिणः ।
शेषेण कर्मणा ते तु जायन्ते[^३] कृमियोनिषु ॥२॥
कृमियोनौ परावृत्ताः सहस्राणाम्[^४] शतं समाः[^५] ।
ततः पुनर्मर्कटास्ते जायन्तेथ तरक्षवः ॥३ ॥
तत्र[^६] तावत् परावृत्ता जायन्ते गोषु ते यदा[^७] ।
तदा[^८] तत्र शतेनैव जन्मनां शेषतस्ततः ॥४॥
मानुषेषूपजायन्ते तावदेव न संशयः[^९] ।
तत्र ते कुर्वते भूयो यदि किञ्चिन्न किल्बिषम् ॥५॥
ततो विशुद्धां जातिं ते लभन्ते पुनरेव तु[^१०] ।
न च[^११] भूयोपि ते घोरं संसारं प्राप्नुवन्ति वै ॥६॥
द्रुह्य - क,… द्रोह - ख. । ४० प्रतिपद्यन्ते - ख । ४१… न्नैव - घ. । ४२ अधर्माच्च - ख. ।
ये वै नरकसम्प्राप्ताः - घ. । २ समन्ततः - घ. । ३ ते तु जायन्ते सततं - ख. । ४ सहस्राणि - ख. घ. । ५ यदा - ख. । ६ तेषु - ख । ७ तदा - ख. । ८ तथा - ख. । ९ कुत्सितानां च योनिषु - ख. । १० पुनरेव लभन्त्युत - क. ख. । ११ महद् - घ. ।
द्वितीये ये मया प्रोक्तास्ते मुक्ताः[^१२] शेषकर्मणा ।
कृमिकीटेषु जायन्ते सहस्राणां शतानि[^१३] षट्[^१४] ॥७॥
तथा शतसहस्रं च शतानां ते पुनर्गताः ।
मत्स्ययोनौ प्रसूयन्ते तावदेव न संशयः ॥८॥
ततो व्याघ्राश्च ऋक्षाश्च ततो गोत्वमवाप्यते ।
मानुषेषूपपद्यन्ते कुत्सिताः स्वेन कर्मणा ॥९॥
तृतीये त्वथ ये प्रोक्ता मया दुष्कृतकारिणः ।
ते मुक्ताः कर्मणस्तस्माच्छेषेण समवेष्टिताः ॥8.50.१० ॥
कृमिकीटेषु जायन्ते सहस्राणां शतानि षट् ।
तथैव दश चान्यानि पक्षिणस्तावदेव च ॥११ ॥
ततः सिंहाश्च सर्पाश्च गावः पश्चाच्च मानुषाः ।
चतुर्थे त्वथ ये प्रोक्ता मया दुष्कृतकारिणः ॥१२॥
ते सर्वे शेषवन्तस्तु जायन्ते कृमियोनिषु ।
सहस्राणां शतान्यष्टौ तथा चान्यानि षोडश ॥ १३ ॥
योनीनां हि तथा[^१५] भूयो जायन्ते ते[^१६] ततो मृगाः ।
मृगभावाद्विनिर्मुक्ता जायन्ते च पुनः खराः[^१७] ॥१४॥
ततोजा गवयाश्चापि गावो मानुषतां ततः ।
पञ्चमे ये मया प्रोक्तास्तेपि शेषेण कर्मणा ॥१५॥
कृमिकीटेषु जायन्ते जन्मनां कोटिमेव हि ।
हस्तियोनौ च तावद्धि उष्ट्रेष्वश्वेषु चैव हि ॥१६॥
ततो गोत्वं समासाद्य मानुष्यं प्राप्नुवन्ति ते ।
षष्ठाच्चैव[^१८] विनिर्मुक्तास्ततः शेषेण कर्मणा ॥१७॥
जायन्ते कृमिकीटेषु जन्मनां[^१९] द्विगुणेन हि ।
कोटिमेकां ततो यूका ततो मत्स्योथ[^२०] सूकरः[^२१] ॥१८ ॥
नरके - ख. । १३ सहस्राणि ख. । १४ वै - घ. । १५ ततो - घ. । १५ च - घ. । १७ खगाः - घ. । १८ षष्टेन तु - ख. । १९ जन्मना - घ. । २० मत्स्याश्च - घ. २१ सूकराः - घ. ।
महिषत्वं ततः प्राप्य गोत्वाज्जायेत मानुषः[^२२] ।
मानुषत्वे कुत्सितश्च[^२३] व्याधितश्चैव जायते ॥१९॥
सप्तमाच्च विनिर्मुक्तः[^२४] कृमिकीटेषु जायते ।
कोटीत्रयं तावदेव वृक्षत्वमधिगच्छति[^२५] ॥8.50.२० ॥
ततो लता ततो गुल्मस्ततो हस्ती प्रजायते[^२६] ।
गोत्वं च समनुप्राप्य जायते मानुषस्ततः ॥२१ ॥
अष्टमाच्च विनिर्मुक्तो बद्धः शेषेण कर्मणा ।
जायते कृमिकीटेषु द्वे कोट्यौ द्विगुणे च सः ॥२२॥
ततश्चोषधिभावेन[^२७] वीरुत्सु च कुशेषु च ।
ततो गोत्वाद्विनिर्मुक्तो[^२८] जायते कुत्सितो[^२९] नरः ॥२३ ॥
नवमादपि चोत्तीर्णो बद्धः शेषेण कर्मणा ।
जायते कृमिकीटेषु पञ्चकोटीस्ततः खगः ॥२४॥
ततो मत्स्यश्च तावद्वै तावदेव सरीसृपः ।
श्वा ततस्तावदेवाथ ततो भवति किन्नरः ॥ २५॥
किन्नरत्वाद्विनिर्मुक्तस्ततो गोषूपजायते[^३०] ।
ततो गोयोनिनिर्मुक्तो मानुषेषूपजायते[^३१] ॥२६॥
दशमादपि चोत्तीर्णः षट् कोटीर्जन्मनां[^३२] कृमिः ।
शेषेण कर्मणा जातस्ततो भवति वानरः ॥ २७॥
वानरस्तावदेवेह तावदेव च[^३३] कुक्कुटः ।
तावदेव च काकस्तु जीवञ्जीवक एव च ॥ २८॥
वृक्षदारकमार्जारपिपिलीका[^३४]श्च जायते[^३५] ।
ततो गोषु प्रजातोसौ[^३६] मानुषेषूपजायते[^३७] ॥२९॥
ततो गोर्मानुष्षस्ततः - ख. । २३ कुत्सितं मन्नुषे जन्म - ख। २४ माद्य ( द) पि निमुर्क्त - ख. । २५ गम्य च - क. । २६ च जायते - क ख । २७ भावेषु - ख. । २८ गोभावनिर्मुक्तो - ख. । २९ कुत्सितो जायते - ख. । ३० जायन्ति गोषु ते - ख. । ३१ गवा योनौ विजायते - ख. । ३२ कोटीर्जन्मतः - ख. । ३३ तु - ख. । ३४ पिरिलीका - क, पिप्रिता - ख । ३५ जायते ततः - ख. । ३६ प्रजायेत - ख. । ३७… तु ततः परं - ख. ।
महारौरवनिर्मुक्तः सप्तकोटीः[^३८] सुदुःखितः ।
जन्मनां[^३९] कृमिकीटेषु जातो[^४०] मत्स्यत्वमश्नुते[^४१] ॥8.50.३० ॥
ततः[^४२] श्वा गर्दभश्चैव भैनाशी[^४३] (?) शुक एव च ।
ततो भवति गौश्चापि ततः षण्ढश्च मानुषे[^४४] ॥३१ ॥
तमोनरकनिर्मुक्तस्त्वष्ष्टकोटीः सुदुःखितः ।
जन्मनां प्राप्नुते जन्तुर्विष्ठायां कृमियोनिषु ॥३२ ॥
ततः श्वा जायते भूयश्चक्राह्वश्च पुनः पुनः[^४५] ।
ततो मण्डूकतां प्राप्य जायते मृगपक्षिषु[^४६] ॥३३ ॥
जायते किन्नरश्चापि[^४७] द्वीपी शरभ एव च ।
ततो गोत्वं समासाद्य मानुषत्वमवाप्नुते[^४८] ॥३४॥
तमोनरकनिर्मुक्तः शेषेणैव हि कर्मणा ।
जायते कृमिकीटेषु नवकोटिः स जन्मनाम्[^४९] ॥३५॥
ततो भवति काकश्च भासश्चैव ततः परम्[^५०] ।
वान्ताशी च ततः पक्षी उलूकश्च ततः पुनः[^५१] ॥३६॥
पुनर्वृक्षश्च गुल्मश्च ततो भवति वै मृगः ।
ततो गौर्मनुजश्चापि गर्भस्थः स विपद्यते[^५२] ॥३७॥
पुनःपुनर्जायमानः सहस्राणां शतं समाः[^५३] ।
व्याधितः[^५४] कुत्सितश्चैव[^५५] जायते च पुनः[^५६] पुनः ॥ ३८॥
यस्तु सर्वानिमान् प्राप्य नरकानिह जायते ।
स योनिषु समस्तासु सर्वसंसारमश्नुते ॥३९॥
यदि मानुषतां[^५७] याति कदाचित् कालपर्ययात् ।
तत्रापि कुत्सितां योनिं भूयो भूयः प्रपद्यते ॥8.50.४० ॥
कोटी - ख. । ३९ जन्मानि - ख. । ४० ततो - ख । ४१.,. मेष्यति - ख. । ४२ तत्र - क. । ४३ तैलाकी - ख. । ४४ षण्ढः प्रजायते - क. षण्ढत्व,. - ख. । ४५ तत्र चक्राह्वो जायते - ख । ४६… योनिषु - ख. । ४७ तत. किन्नरतां चापि - ख. । ४८ मानुष्यमवाप्यते - ख. । ४९ जन्मना - ख. । ५० स जायते - क. । ५१ उलूको जायते ततः - ख. । ५२ तत्र गर्भे स वै मृतः - क । ५३ स तु - क. । १४ व्यधिना - ख । ५५ सततग्रस्तो - ख. । ५६ स नरः - क. । ५७ मनुष्यतां - क ख. ।
अनिष्टः[^५८] सर्वभूतानां दुःखितो व्याधितस्तथा[^५९] ।
विकृतं रूपमाप्नोति कर्मणा स्वेन दूषितः ॥४१ ॥
देवब्राह्मणविद्वेष्टा सर्वव्रतबहिष्कृतः ।
सर्वधर्मविनिर्मुक्तः साध्वाचारविवर्जितः ॥४२॥
निर्नमस्कारदुश्शीलः किम्भक्षो[^६०] ब्रह्मनिन्दकः ।
न तीर्थदेवायतनः स्वधास्वस्तिविवर्जितः ।
अकीर्तनीयो लोकानां जायते स्वेन कर्मणा ॥४३ ॥
सुशर्मोवाच
एतत्ते कथितं सर्वं समासात् पुत्र सर्वशः[^६१] ।
नरकाणां सतत्त्वं च क्रमभेदो यथामति[^६२] ॥४४॥
सनत्कुमार उवाच
य इमं शृणुयाद् युक्तः[^६३] सदा पर्वसु पर्वसु ।
श्रावयेद्वा द्विजान् सम्यक् सर्वपापैः[^६४] प्रमुच्यते ॥४५॥
धन्यं यश[^६५] स्यमायुष्यं स्वर्ग्यं सर्वार्थसाधकम् ।
श्रव्यं[^६६] च पठितव्यं च सततं भूतिमिच्छता[^६७] ॥४६॥
इदं तु सर्वार्थसुखावहं ध्रुवं महानुभावं सुगतिप्रदं[^६८] शुभम् ।
सदैव विप्रेण समाहितात्मना अधीत्य धार्यं श्रुतिसम्मितं ध्रुवम् ॥४७॥
इति स्कन्दपुराणे संसारगतिवर्णनं[^६९] नाम पञ्चाशोध्यायः