सुशर्मोवाच
तमस्तमतरं घोरं नरकं शृण्वतः परम्[^१] ।
प्रकाशो यत्र नैवास्ति नैव दृष्टिः प्रवर्तते ॥१ ॥
पतन्नेव नरस्तत्र[^२] विसञ्ज्ञः क्रियते तदा[^३] ।
राक्षसैर्विकृताकारैस्तमस्तेन स चोच्यते ॥२॥
तत्रासौ पतितो मूढो वह्निना दह्यते भृशम् ।
ततोपि[^४] वेगादुत्थाय दृष्टिहीनो विचेतनः ॥३ ॥
छिद्यते भिद्यते चैव[^५] राक्षसैः क्रूरकर्मभिः ।
तस्मादपि तथैवार्त्तः सोन्यम्[^६] देशं प्रपद्यते ॥४॥
नैः - घ. । १२ निपातनस्थाने - ख.,… निपाते पिपासुं विनिवारयेत् - घ. । १३ विघ्नकरो विमोहश्च - घ. । १४ चकृशं - ख, भृशं - घ. । १५ ब्राह्मणे न ददात्यर्थं - घ,.. णं… त्यस्य - ख. । १६.. .स्तथा - ख. । १७ कपिलांश्च वृथा दुह्य आत्मार्थं यश्च कुर्वति - ख । १८ यान्ति ते तमसं नराः - ख. । १९… मसंयतेन्द्रियः - घ. । २० शोककारकम् - ख, शोकम् - क, मोदकम् - घ. ।
शृणुमे पुनः - क. । २ स पतन्नेव नरके - ख. । ३ क्रियन्तेप्रभुः - क. । ४ मृतोपि - ख., मृतो वेगादुत्थितश्च - क. । ५. .. चापि - क. । ६ सौम्य… - घ. ।
तत्रापि निगृहीतस्तैः पशुमारेण मार्यते[^७] ।
ततो भूयश्च कूपेषु क्षिप्तो दुर्गेष्वचेतनः ॥५॥
निमग्नश्चाग्निकारीष्यां निष्कूजन्[^८] सोभिजायते[^९] ।
एवं स यातना बह्वीस्त्वनुभूय सुदुःखितः ॥६॥
नरकान्तमनुप्राप्य उच्छ्रयेष्वभिपात्यते[^१०] ।
गर्भपातनकारश्च राज्यकामश्च यो भवेत् ॥७॥
इहैवानर्हमानोसौ[^११] (?) भृत्यो राजवधे रतः[^१२] ।
अनाचार्यश्च यः[^१३] कर्म आचार्याणां[^१४] प्रपद्यते[^१५] ॥८॥
शास्त्रविद्यौषधीनां च गदानामगदैः सह ।
यो विनाशयिता[^१६] कश्चिद्यः प्रशंसति दानवान् ॥९॥
उपदेशं च यो द्वेषादाचार्यो न प्रयच्छति ।
स याति नरकं घोरं दुस्तरं तं तमोमयम्[^१७] ॥8.49.१० ॥
कृतघ्नं तु समादाय नारकाः[^१८] सर्व एव ते ।
यमं प्रणम्य ब्रुवते[^१९] सह तैर्यमकिङ्करैः ॥ ११ ॥
भगवन्न वयं शक्ताः[^२०] पापस्यास्य विनाशने[^२१]।
उपायमन्यं पश्येह[^२२] प्रसादं कुरु नः प्रभो ॥ १२ ॥
स एवमुक्तो भगवान् यमः प्रेताधिपस्तदा[^२३] ।
सर्वधर्मार्थकुशलान् पृच्छति स्मर्षिसत्तमान्[^२४] ॥ १३ ॥
भगवन्तः कथं त्वस्य कृतघ्नस्य दुरात्मनः ।
निष्कृतिः सुमहाघोराद् भवेत् पापस्य कर्मणः ॥ १४॥
ततस्ते ऋषयस्सर्वे दृष्ट्वा दीर्घेण चक्षुषा ।
यमं धर्मभृतां श्रेष्ठमिदं वै ब्रुवते वचः ॥१५॥
बध्यते - घ. । ८ निष्कुञ्जन - क. निष्कूटः - ख. । ९ सोभिहन्यते - ख. । १०… ष्वेव यात्यते - घ. । ११ इहैवानश्नमानोसौ - ख. । १२ राजा वधे - क. । १३ अनार्यस्य च - ख । १४.. .मार्याणां - ख. । १५ प्रतिपादितः - ख. । १६ विनाशयते - ख. । १७ स याति नरकान् घोरान् दुस्तरात् तान्तमोमयान् - क. । १८ नरकाः - क, नरका (त्) । - ख । १९ (सम्) प्राप्य - ख. । २० मया शक्यं - ख. । २१ वि (मोचन) - ख. । २२ पश्यस्व - क. ख. । २३ तथा - ख. । २४ पृच्छते ऋषिसत्तमान् - क. ख ।
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १६ ॥
ततः स भगवान्देवो मार्तण्डतनयो वरः ।
नारकेभ्यो[^२५] ददात्याज्ञां सर्वे यूयमिमं नरम्[^२६] ॥ १७॥
शोधयिष्यथ गच्छध्वं नैका[^२७] ह्यस्य गतिः स्मृता[^२८] ।
ततस्ते तस्य वचनान्नारकाः पापकर्मिणम्[^२९] ॥ १८॥
सर्वेष्वेवानुपूर्व्येण[^३०] यातयन्त्यतिदारुणाः[^३१] ।
भर्तृपिण्डापहर्ता च पितृपिण्डापहारकः ॥१९॥
।
तस्माद् गृहीत्वा विद्याञ्च दक्षिणां यो न यच्छति[^३२] ॥8.49.२० ॥
पुष्टश्च यस्तं नान्वेति यश्च तं घातयेन्नरः ।
कृतस्य दोषं वदति सकामं[^३३] न करोति च ॥२१ ॥
न स्मरेच्च कृतं यस्तु आश्रमान् यश्च दूषयेत् ।
न पुष्णाति तथा वाहानाश्रिताँश्चोपकारिणः[^३४] ॥२२॥
भृत्यांश्च कर्मनिरताँस्तथैव हितकारिणः ।
भार्यां कर्मकराणां[^३५] च नर्माणि वदते च यः ॥२३ ॥
न दत्तं न हुतं किञ्चिदमुष्मिन्निति[^३६] यो वदेत् ।
सर्वाँस्तानृषिभिः सार्धं कृतघ्नानब्रवीन्मनुः ॥२४॥
कृतघ्नश्च शठश्चैव नास्तिकोछिन्नसंशयः ।
एतान् सर्वेभिगच्छन्ति य एते कीर्तिता मया ॥२५॥
जनेता[^३७] चोपनेता च यश्च विद्यां प्रयच्छति ।
भयत्रातान्नदाता च पञ्चैते पितरः स्मृताः ॥२६ ॥
यस्तेषान्दोषवक्ता च अभ्यसूयक एव च ।
तथा द्रोहप्रवृत्तश्च सन्त्यजेत्तान्नराधमान्[^३८] ॥२७॥
नरकेभ्यो - क. ख. । २६ नदं - क । २७ नैवा.. - ख. । २८ सदा - ख । २९ पापकर्मिणां - क. घ. । ३० पूर्वेण - क. ख. घ. । ३१ दारुणं - क. । ३२ न प्रयच्छति - ख. । ३३ स्वकर्म - ख. । ३४.. श्चोपकारिणं - क. । ३५ कर्मकारिणां - क. ख. । ३६ अविथिं नास्ति - घ । ३७ उत्पादको - क. ख. घ., जनकश्चोपनेता १) - । ३८ तान्निन्दति नराधमः - घ. ।
मित्रध्रुग्[^३९] यश्च दुष्टात्मा तस्य रन्ध्रावकीर्तनः ।
कृतोपकारिणे पूर्वँ न करोति प्रियं च यः ॥२८ ॥
एते सर्वे नरा दुष्टाः सर्व एवाशुभे रताः ।
नरकान् सम्प्रपद्यन्ते[^४०] बद्धाः पापेन कर्मणा ॥२९॥
एते सर्वे मया प्रोक्ता महानिरयगामिनः ।
उच्छ्रयानेव[^४१] गच्छन्ति येन्ये पापकृतो जनाः ॥8.49.३० ॥
य इमं तामसं घोरं शृणुयाद्वा पठेत वा ।
अधर्मश्च[^४२] निवर्तेत स गच्छेद् ब्रह्मणः पदम् ॥३१ ॥
इति स्कन्दपुराणे नरकवर्णने तमोतितमं नाम ऊनपञ्चाशत्तमोध्यायः