सुशर्मोवाच
तमो नामापरो घोरो नरकोति भयङ्करः ।
तत्र सोभिपतन्नैव[^१] राक्षसैरभिहन्यते ॥१ ॥
असिमुद्गरशङ्क्वग्रै[^२] र्गदामुशलपट्टिशैः[^३] ।
भयदैः परिघैष्टङ्कैर्वज्रैर्ऋष्टिपरश्वधैः ॥२॥
अन्यैश्च विविधाकारैर्हतः क्रुद्धैः सुनिर्दयैः[^४]।
मूर्छितस्तमसा ग्रस्तो नरकं तं प्रपद्यते[^५] ॥३ ॥
स देहेन विनष्टेन तमसा मूच्छिताकृतिः ।
दुःखसन्ततिसन्नद्धो[^७] यातनामश्नुते भृशम् ॥४॥
यस्मात् स तमसा ग्रस्त अनाश्वस्तोतिदारुणाम्[^८] ।
यातनामश्नुते जन्तुस्तमस्तस्मात् स उच्यते ॥५॥
सर्वा बहुविधाकारा यातना याः प्रकीर्तिताः ।
तास्तत्र[^९] समवाप्नोति स्वेन पापेन[^१०] दुर्मतिः ॥ ६ ॥
अनग्निहोत्री ये चान्यत् कपिलाक्षीरपायकः - ख । २१ परिलोपकः - ख. । २२ हर… - क-, हत - ख. । २३… चैव - क. ख. घ । रे ५८ दुर्भिक्षस्य च कारकः - ख. । २५ देशस्य डामरं चैव सततं य इहेच्छति क. । १ सोपि पतन्नेव - घ. । २ शक्त्यग्रै - ख, शक्त्युग्रै - घ. । ३ पदृश्यै - क. । ४ सुदुजम्यैः । घ. । ५ प्रतिपद्यते - ख । ६ तपसा - ख । ७ सम्बद्धो - क. ख । ८ अनाशस्तोतिदारुणाम् - क, अनाग्रस्तो… - घ. । ९. स्सर्वाः - क. । १० शापेन - घ ।
समाप्तयातनश्चापि सन्तीर्ण्णस्वेन कर्मणा ।
उच्छ्रयेषु पुनर्जन्तुर्यात्यते कर्मबन्धनः[^११] ॥७॥
ब्रह्महा भ्रूणहा चैव सुरापो ब्राह्मणश्च यः ।
गवां निपाने यश्चैव पिपासूनां नराधमः[^१२] ॥८॥
विघ्नं करोति मोहान्ध[^१३] आहूय भर्त्सयेत्तु यः[^१४] ।
ब्राह्मणान् द्वेष्टि नित्यं[^१५] य अर्थिनं यश्च दूषयेत् ॥९॥
शास्त्राणि हरते यश्च गोघ्नो यश्च नरः स्मृतः[^१६] ।
कापिलश्च वृथादृष्टिर्वेदधर्मार्थदूषकः[^१७] ॥ 8.48.१० ॥
ब्राह्मणाक्रोशकश्चैव वेदधर्मार्थदूषकः ।
नास्तिकाश्च दुरात्मान इत्येते तं प्रयान्ति वै[^१८] ॥ ११ ॥
य इमं शृणुयात्तमोमयं तमसा नित्यमतन्द्रितेन्द्रिय[^१९]।
न स याति तमोमयं सदा नरकं दारुणजन्तुशोकदम्[^२०] ॥ १२ ॥
इति स्कन्दपुराणे नरकवर्णने तमोनाम अष्टचत्वारिंशोध्यायः