०४७

सुशर्मोवाच
महारौरवमन्यच्च शृणु मे दुष्टयातनम् ।
यत्र धाराश्च तोयं च तडागानि च पुत्रक ॥१ ॥

कारीषी कनकाभाश्च कुल्याश्चाग्निप्रपूरिताः ।
आयसा बहवः स्तम्भा वृक्षाश्च बहुकण्टकाः ॥२ ॥

द्रुतोत्पत्य -ख. । ११ यदा - घ । १२ विसृज्योपविशेत्पुनः - ख. । १३ छलकर्त्ता - घ., छलगर्तः - ख. । १४ कर्मणाञ्च क.,… तिकरोति-घ. । १५.. पतिरेव - घ. । १६… रथसंयोगी - घ । १ ऽ सर्वेपि गच्छन्ति - घ । १८.. .दरौरवं - क । १९ पठते च रौरवं ख । २०.. तिरौरवम् - क. ।
राक्षसा विविधाकारास्तीक्ष्णशस्त्रास्त्रधारिणः ।
तत्र[^१] पापेन बहुना जन्तुः समभिपाशितः ॥३ ॥

निपतेद्विकृताकारः क्रन्दमानो मुहुर्मुहुः ।
स तत्र पतितः क्षिप्रं राक्षसैर्भिन्नमस्तकः ॥४॥

कारीष्यामग्निवर्णायां पच्यते भृशदारुणम् ।
ततस्स तेन दाहेन दुःखितः परमार्तिमान् ॥५॥

दाहप्रशमनार्थाय तडागे विनिमज्जति[^२] ।
तत्र क्षारेण तप्तेन[^३] द्विगुणं वेदनार्दितः[^४] ॥६ ॥

वेगेनोत्थाय वृक्षम्[^५] वा स्तम्भं वाप्यधिरोहति[^६] ।
तत्र तैः कण्टकैस्तीक्ष्णैरायसैश्चावतक्षितः[^७] ॥७॥

पतते ह्यग्निकुल्यायाम्[^८] करुणं बहुधा नदन् ।
एवं स यात्यमानस्तु तृषार्त्तो विलपन् बहु ॥८॥

धारामाश्रयते पातुम्[^९] सापि तस्यायसं[^१०] तदा[^११] ।
अग्निवर्णं वहत्यम्भस्ततो मूर्च्छार्दितो म्रियेत् । ९॥

सम्पूर्णयातनश्चापि मुक्तस्तस्मान्महाभयात्[^१२]
उच्छ्रयेषु तदा जन्तुर्यात्यते भृशदारुणम् ॥ 8.47.१० ॥

तत्र गच्छति[^१३] राजघ्नो[^१४] राजभार्यावमानकः[^१५] ।
आशां दत्त्वा न दद्याद्यो यश्च तीर्थावदूषकः । ११ ॥

मोषकः सूचकश्चैव स्त्रीभृतो यश्च पापकृत् ।
अग्नौ गवि च[^१६] यो दानं[^१७] ब्राह्मणे चापि वारयेत्[^१८]॥१२॥

विक्रीणीयात स्वभार्यां यो ह्यपत्यं वा नराधमः[^१९] ।
हरते चाग्निभाण्डानि योगिनां चैव किञ्चन ॥१३ ॥

चोरान् वा योनुगृह्णाति मनुष्यास्तस्य ये च ह ।
ब्राह्मणाधिकृतश्चैव धर्माधिकृत एव च ॥१४॥

अत्र - क. । २.. ति निमज्जति - क., भिर्निमञ्जति - ख., ते- - क. ख । ३ कष्टेन - क., कोष्टेन - घ. । ४ वेदनान्वितः. - घ. । ५… च्छ्रायवृक्षं - क । ६ थाश्रिरोहति - ख ? - व - घ. ।. ७ राहार इव भेदितः - घ. । ८ तुल्यायां - घ. । ९ जातु - घ, जन्तुः- ? । १० तत्रायसं - ख- । ११ तथा - घ. । १२.. द्भयावहात् - क,? द्भयावहः - घ । १३ गच्छन्ति - ख । १४ राजघ्ना - (?) । १५ मन्यकः - क., मन्यकाः - ख. । १६ गवां विप्रांस्तथाग्नीनां दीयमानं तु - ख. । १७ यज्ञानां - घ. । १८ यो हरेत् - घ । १९ सङ्कीर्णम्प ( ।) रनार्यं वा तास्वपत्यान्यजीजनत् - ख ।
कपिला यस्य गौः स्याच्च अनग्नेर्ब्राह्मणस्य ह[^२०] ।
मिथ्याग्निहोत्री यश्चैव नैत्यके परिवेषकः[^२१] ॥१५॥

राजपुत्रवधं[^२२] चैव[^२३] दुभिक्षं यच्च चिन्तयेत्[^२४] ।
राष्ट्रलोपं दारलोपं धनलोपं च यो नरः ॥१६ ॥

देशविद्र ( ा) वणं चैव यः कुर्य्याड्डामराणि वा[^२५] ।
सर्वे ते नरकं यान्ति महारौरवसञ्ज्ञकम् ॥१७॥

य इमं शृणुयादभीक्ष्णशो नियतं धर्ममतिश्च तिष्ठति ।
न स गच्छति तं भयावहं नरकं रौरवमुग्ररौरवम् ॥ १८ ।
इति स्कन्दपुराणे नरकवर्णने महारौरवं नाम सप्तचत्वारिंशोध्यायः