०४६

अतः परं प्रवक्ष्यामि रौरवं नरकं पुनः ।
यत्र ते विवशा बद्धाः कर्मणा स्वेन जन्तवः॥१ ॥

यात्यन्ते[^१] दुःखशोकार्ता महानिरयगामिनः ।
रु इति प्रोच्यते शब्दस्तत्रासौ श्रूयते यतः ॥२॥

पुनः पुनर्वा भीमो हि[^२] रौरवस्तेन कथ्यते[^३] ।
पूर्णस्तु सर्वः[^४] कारीष्याज् ज्ज्वलते सोतिदारुणः[^५] ॥३ ॥

मध्ये स्तम्भोस्य लौहो वै तप्तकाञ्चनसप्रभः ।
तत्र जन्तुःर्भृशं मग्नः प्रविशन्[^६] दह्यतेवशः[^७] ॥४॥

आर्तनादान्[^८] प्रकुर्वाणो मूर्च्छितः पतितः पुनः ।
ततः क्लेशेने[^९] महता उद्धृत्यात्मानमात्मना ॥५॥

श्रवणनिर्ग्रन्या - क. ख. घ. । १९ द्विजान् हित्वा - ख. । २० गुरून् - घ. । २१ निन्दन्ते - ख. । २२ योगधर्मास्तथापि च - ध. । २३ देवधर्माश्रमा - घ. । २४… श्रमज्ञाश्च - क. घ । २५ हेतुको नास्ति वादी च - क. घ. । २६ तथाप्युक्तं - घ । २७?.? नात् - ख. । २८ कीटकादिषु - क., कीचकादिषु - घ. । २९ विजित्य - घ. । ३० दोषान् - ख. । ३१ प्रवेदिमात्गा - क. ख., प्रेरितात्मा - घ. । ३२… दपीति - ख । १ पात्यन्ते - घ. । २ भूयो -?, भूयोपि - ख. । ३ कीर्त्यते - क । ४ सर्व… - क. । ५ ज्वलत्पाशो तिदारुण । - घ, ज्वलत्यसौ - ख. । ६ प्रविष्टो - घ. । ७ रुदते भृशं - ख. । ८ आर्तनादं - ख. । ९ शोकेन - ख. ।
भूयोन्यं देशमासाद्य तथैव प्रविशेच्च सः ।
ततस्तस्मादुपोत्पत्य[^१०] स्तम्भमाश्रयते यदि[^११] ॥६॥

तेनापि दह्यते भूयो विसृज्य प्रविशेत्पुनः[^१२] ।
एवं स यात्यते तत्र बहूनब्दान् सुदुःखितः ॥७॥

ततो विसृष्टो भूयश्च उच्छ्रयान्प्रतिपद्यते ।
तं हि गच्छन्ति पुरुषाः सुरापा धर्मदेशकाः ॥८॥

पितृहा मातृहा चैव भ्रातृहा गुरुहा तथा ।

      • वादेभिरतास्तेषामेव च निन्दकाः ॥ ९॥

गोघ्नोथ दमकश्चैव जन्तूनां भृशदारुणः ।
गलकर्ता[^१३] कूटमानी कर्मणानु[^१४] करोति यः ॥ 8.46.१० ॥

परिवित्तिः परिवेत्ता श्मशानरतिरेव[^१५] च ।
पुनर्भूसुतसंयोगी[^१६] यस्या चोपपतिर्गृहे।
एते सर्वेभिगच्छन्ति[^१७] नरकं रौरवं नराः ॥ ११ ॥

य इमं शृणुयाच्च रौरवं[^१८] नरकं पापकृतां सुरौरवम् ।
नियतं प्रयतो[^१९]तिरौरवं न स गच्छेन्मनसापि रौरवम्[^२०] ॥ १
इति स्कन्दपुराणे नरकवर्णने रौरवं नाम षट्चत्वारिंशोध्यायः