सुशर्मोवाच
अतः परं पद्ममहं प्रवक्ष्यामि सुदुर्गमम् ।
सुकृतीनामलभ्यं च दुष्कृतीनां भयावहम् ॥१ ॥
तत्राग्निस्तापनो नाम धम्यमान[^१] इव ज्वलन् ।
जन्तवस्तत्र ताप्यन्ते[^२] वह्निवर्णा[^३] भवन्ति च ॥२॥
पद्मपत्रनिभास्सर्वे धाम्यमानास्ततस्ततः ।
तस्य मध्ये महास्तम्भो[^४] लौहः[^५] समवतिष्ठते ॥३ ॥
पानेन - घ. । ११ अन्यं - क. घ. । १२ कञ्चित् - क., किञ्चित् - घ. । १३ प्रियं - घ. । १४ कशादिना - ग. । १५ प्रव्रजितां - ख. । १६ भ्रातृव्यं वा - ख., भ्रातृभ्यश्चा - ग. । १७.. .श्चापि न्धत्ते - क. ग.,… तिसन्धत्ते - ख,… पिसवृते - घ । १८… तिसन्धयेत् - क. । १९ स्वपुत्रान् - घ., स्वपुत्रं - ख. घ. । २० का - घ. । २१ देवान् कीलयते यश्च - ख. । २२ प्रणतः स - क. ग. घ. ।
धूपमान - घ. । २ पात्यन्ते - घ. । ३ वर्म - ख । ४ महान् स्तम्भो - घ. । ५ लोहः - क. ख. घ. ।
तं ते गत्वा प्रगूहन्ति[^६] सोप्यग्निरतिदारुणः ।
एवं तत्रानिशं घोरं यातिता[^७]स्तूच्छ्रयेष्वपि ॥४॥
नरास्तं यान्ति निःसङ्गम्[^८] ये तान्मे[^९] त्वं निशामय ।
गुरुभार्या च यो गच्छेद् गुरुस्वं वा[^१०] हरेत यः ॥५॥
देवद्रव्यं भक्षयेद्यो[^११] नाशयेद्वा[^१२] प्यभीक्ष्णशः ।
ब्राह्मणस्वं हरेद्यश्च बलाद्धारयतेपि वा ॥६॥
बालद्रव्यापहारी च हर्ता वा स्त्रीधनस्य च[^१३] ।
क्लीबाँश्च[^१४] त्यजते यश्च यो हन्याच्छरणागतम्[^१५] ॥७॥
धनं चास्याभिमन्येत[^१६] देवद्रव्यहरश्च[^१७] यः[^१८] ।
सर्वभक्ष यः स्याद् वै यश्च पानीयविक्रयी ॥८ ॥
सोमविक्रयिकश्चैव अग्नयुत्सादक[^१९] एव च ।
अग्निप्रहरणो[^२०] यश्च विषप्रहरण[^२१]श्च यः ॥९॥
अशस्त्रं यश्च सङ्ग्रामे हन्याच्छस्त्रेण मानवः ।
याचमानं तथा[^२३] चैव उपविष्टमथापि वा[^२४] ॥8.44.१० ॥
पराङमुखं च संसक्तमन्येन[^२५] सह वादिनम् ।
एते सर्वे नरास्तत्र गच्छन्त्यकृतबुद्धयः ॥११ ॥
य इदं[^२६] शृणुयात् कृतान्तसद्म प्रयतो नित्यमनेकदुःखसद्म[^२७] ।
स न याति तमुग्रशोकपद्मं[^२८] नरकं मृत्युमिवाति[^२९] कालसद्म ॥१२॥
इति स्कन्दपुराणे नरकवर्णने पद्मो नाम चतुश्चत्वारिंशोध्यायः