०४३

अतः परं प्रवक्ष्यामि नरकं पापनाशनम्[^१] ।
अयोघनमितिख्यातम्[^२] सर्वप्राणिभयङ्करम्[^३] ॥ १ ॥

यत्र ते पुरुषा घोरा यमाभा यमकिङ्कराः ।
महाबला महासत्वाः सर्वेयोगेश्वरास्तथा ॥२ ॥

अयस्कारा यथा पिण्डमयसोग्निप्रतापितम् ।
सन्दंशेनाभिसङ्गृह्य[^४] स्थापयित्वायसे घने ॥३ ॥

अभिघ्नन्ति घनैरन्यैस्तथा तत्रापि जन्तवः ।
हन्यन्ते राक्षसैर्घोरैस्तर्जयद्भिः[^५] सुदारुणम् ॥४॥

वर्षकोटीस्तथा[^६] सप्त यातिताः[^७] स्वेन कर्मणा ।
उच्छ्रयेषु[^८] तथा घोरां यातनां प्राप्नुवन्ति ते ॥५॥

एतद्[^९] ये यान्ति पुरुषाः सोच्छ्रयं नरकं महत् ।
तानहं सम्प्रवक्ष्यामि अनिर्देश्यान् नराधमान् ॥६॥

यस्तु - ख. । ३० नाशयेद्वाथ - ख. । ३१ पथि स्थां वा गृहे वापि सर्थानां वा भयङ्करः - ख. । ३२.. .मधर्मवाधनीम् - ख.,… वाहिनीम् - घ. । ३३ भाविनीं - घ. । ३४ विमर्दिनीं - घ. ।
चातिदारुणं - घ. । २ अयोजनमितिख्यातं - क. ग.,… सन - घ. । ३ … पापिभयङ्करम् - घ. । ४.. .पि सङ्गृह्य - क. । ५ तर्जयन्ति - ख. घ. । ६ कोटिसमा - घ. । ७ पातिताः - क., जायन्ते - घ. । ८ जातेषु च - घ. । ९ एते - क., एवं - घ., एतं - ख. ।
पादेन[^१०] हन्यात् पितरं मातरं पूज्यमेव वा ।
अन्यां[^११] काञ्चित्[^१२] स्त्रियं[^१३] वापि हस्तेनाथ कशादिभिः[^१४] ॥७॥

तथा प्रवजितं[^१५] चैव अग्निं वाप्यथ लङ्घयेत् ।
बालमर्थकृते यश्च मृत्युना योजयेत्तथा ॥८॥

स्त्रियं वाथ पुमांसं वा क्लीबं वान्यन्नराधमः ।
भ्रातॄन् यश्चाभि[^१६] सन्धत्ते[^१७] द्रव्ये कस्मिंश्चिदेव हि ॥९॥

पितरं वाथ दुर्बुद्धिर्मातरं भगिनीमपि ।
पतिर्यश्चैव भार्यां स्वां पुत्रांश्चैवाभिसन्धयेत्[^१८] ।
भार्या पतिं वा पुत्रान्[^१९] वा तेषां सा[^२०] गतिरुच्यते ॥8.43.१० ॥

कीलयेद्यश्च देवार्चा[^२१] स्तीर्थानि च दुरात्मवान् ।
विद्याः शास्त्राणि दिव्यानि तेषां सा गतिरुच्यते ॥ ११ ॥

य इमं बहुपापयोगकारणं शृणुयान्नित्यमसौख्यसर्वदारणम् ।
प्रयतस्स[^२२] न याति तं भयानकं नरकं दुर्गमयोधनावतानकम् ॥१२॥ ७
इति स्कन्दपुराणे नरकवर्णने अयोघनं नाम त्रिचत्वारिंशोध्यायः