सुशर्मोवाच
अतः परं वैतरणीं नदीं पापप्रणाशनीम्[^१] ।
शृणुष्वावहितः[^२] पुत्र पापकर्मभयावहाम्[^३] ॥१ ॥
नदी वैतरणी पुत्र टङ्कच्छिन्नतटा शुभा ।
केशास्थिरुधिरापूर्णा महाक्षाररसा तथा[^४] ॥२॥
उल्लुम्पकै[^५]र्गर्दभकैर्मकरैः कच्छपैरपि ।
शिशुमारैश्च नक्रैश्च तन्तुकै राक्षसैरपि ॥ ३ ॥
महादष्ट्रैर्महाकायैः पिशिताशैः समाकुला[^६] ।
असिपत्रैश्च तैर्वृक्षै[^७]स्तीरजातैः[^८] समावृता ॥४॥
यश्चापि हरते - ख यस्याप - घ. । १९ मूढः - क. ख. । २० कामसम्पन्नो - घ.,.. सन्मत्तो - क. । २१ द्विजकारणात् - घ. । २२… र्थेन - ख. । २३ छायां - क. । २४ तं प्रतिपद्यन्ते - ख. । २५ शुभ - घ. । २६.?? मुग्रकर्मा - घ. ।
सर्वपापप्रणाशनीम् - घ. । २ शृणुमेव हितः - क. । ३ भयावहं - ख. । ४.. .स्तथा - क. ख. । ५ उल्म्पकै - क., उच्चपक्षै - घ. । ६ समाकुलं - ख । ७ स्तथा वृक्षै - घ. । ८ तीरजैश्च - ख. ।
शैवलेन च दीर्घेण वितानेनेव संवृता[^९] ।
तस्यास्तीरे वनं घोरं शरभर्क्षसमाकुलम् ॥५॥
व्याघ्रद्वीपिसमाकीर्णं सिंहेभखरसङ्कुलम्[^१०] ।
तत्र दुष्कृतकर्माणस्तैर्व्याघ्रादिभिरर्दिताः ॥६॥
तां नदीं सुमहाघोरां पात्यन्ते[^११] दुःखितास्ततः[^१२] ।
तत्र ते पतिता वत्स तन्तुकैः[^१३] शैवलेन च ॥७॥
वितानेन च सन्नद्धा[^१४] भक्ष्यन्ते तै(?)दिभिः ।
क्षारोदकेन दह्यन्तो[^१५] ननादयन्तश्च दुःखिताः[^१६] ॥८॥
षड् वर्षकोटीः[^१७] यात्यन्ते[^१८] यावत् पापस्य सङ्क्षयः ।
ततो मुक्तास्तूच्छ्रयेषु पात्यन्ते[^१९] वै पुनः पुनः ॥९॥
विश्रान्तास्तत्र ते सर्वे[^२०] ये उच्छ्रयान्[^२१] नरके[^२२] पुनः ।
पात्यन्ते विवशा मूढा यावत् पापं[^२३] क्षयं गतम्[^२४] ॥8.42.१०॥
उत्तीर्णः सोच्छ्रयानेतान् संसारं प्रतिप्रद्यते ।
तीर्णोन्तमेषु[^२५] च पुनर्नरकेषु पृथक् पृथक् ।
कोटिरेका तु कालस्य वर्द्धते ह्युत्तरोत्तरम् ॥११ ॥
उच्छ्रयाणान्तु सर्वेषामेकैकस्य पृथक् पृथक् ।
सहस्रं वर्द्धते पुत्र वर्षाणां वै समासतः ॥१२॥
ये तु गच्छन्ति तं घोरं नरकं दुष्टचेतसः ।
शृणुष्व[^२६] तानिमान् सम्यगुच्यमानान्मयानघ ॥ १३ ॥
सरितं योभिशपते यश्चैनामवमन्यते ।
यश्च नग्नः प्रविशति स्त्रियं यश्चात्र गच्छति[^२७] ॥१४॥
निष्ठीवेदथ मूत्रं वा पुरीषं वाप्यथोत्सृजेत् ।
अपश्च[^२८] हरते यस्तु क्षेत्रारामजनोपगाः ॥ १५॥
नाभिसंवृता - क घ, न च (?) । १०… नरसङ्कुलम् - क. ख. घ । ११ यात्यन्ते - घ. । १२… स्तथा - ख. । १३ उल्वकैः - घ- । १४ सम्बद्धा - क । १५ दह्यन्ते - ख. । १६ रावयन्तस्सु दुःखिताः - ख- । १७ वर्षकोटिं भृशं तद्वै - क. । १८ पाच्यन्ते - क., पात्यन्ते (?) । १९ यात्यन्ते - ख. । २० सर्वा - क-, गत्वा - ख. । २१ उच्छ्रये - क. । २२ नरकं - क ख । २३ पापः - ख. । २४ गतः - ख. । २५ तीव्रोत्तमेषु - घ. । २६ शृणुष्वे (ष्वै) - क. ख. । २७… नुगच्छति - क. घ. । २८ आपश्च - क. ख. ।
अपां सेतुहरश्चैव तडागस्य च भेदकः ।
तथा पुष्करिणीनां च दूषको यश्च मानवः ॥ १६ ॥
दुष्टामदुष्टामथवा यश्च नारीं प्रदूषयेत् ।
पद्मिनीं यश्च[^२९] हरति नाशयेद्वापि[^३०] दुर्मतिः ॥ १७॥
सार्थस्य वाथ जन्तोर्वा यो जन्तुर्भयमावहेत्[^३१] ।
ते सर्वे नरकं घोरं प्रपद्यन्ते नराधमाः ॥१८॥
य इमामशुभप्रणाशनीं शृणुयान्नित्यमशुद्धबाधनीम्[^३२] ।
प्रयतः स न याति भावनीं[^३३] सरितं वैतरणीमसङ्गिनीम्[^३४] ॥१९॥
इति स्कन्दपुराणे नरकवर्णने वैतरणीनाम द्विचत्वारिंशोध्यायः