सुशर्मोवाच
अतः परं प्रवक्ष्यामि असिपत्रवनं पुनः[^१] ।
नरकं पापकृद्दुःखम्[^२] सर्वसत्वभयङ्करम् ॥ १ ॥
असिपत्र[^३] इति ख्याता वृक्षास्तत्र दुरासदाः ।
बहवः सुमहाशाखा घनाश्चोच्चाश्च[^४] ते भृशम् ॥२॥
तेषां पत्राणि घोराणि तीक्ष्णान्यसिनिभानि च ।
आयसेभ्यो विशिष्टानि न च तान्यायसानि हि[^५] ॥३ ॥
सहस्रं च - घ.,.. श्च चतुरः - ख. । १०.. पात्रकारी - क. । ११ कुम्भपाचक एव तौ ( च) - क. घ. । १२ अग्निदाता - ख. । १३ दुरन्त (?) । १४ तापं - क. ।
कुम्भिससाख्यदुःखपाकं - क. ।
ततः - ख. । २ पापिनां दुःखं - ख. । ३ असिपत्रा - घ. । ४ मनोदुःखकराश्च - घ. । ५ तान्यायतानि च - ख. ।
तैक्ष्ण्यात्तानि विशिष्टानि छेदने च महामते ।
तैः पत्रैराचिताश्चैव तथा कण्टकिनश्च[^६] ते ॥४॥
जन्तवस्तत्र रक्षोभिः पापकर्मनिबन्धनाः[^७] ।
वध्यमानासिमुशलैस्तथैवान्यैर्महायुधैः[^८]॥५॥
अग्निना दह्यमानाश्च वृक्षांस्तान् सम्प्रयान्ति[^९] ते ।
तानागतान् समीक्ष्यैव पर्णानि प्रपतन्त्युत[^१०] ॥ ६ ॥
महागुरूणि तीक्ष्णानि विनिकृन्तन्ति[^११] ताँश्च ह ।
ते निकृत्तशिरोग्रीवा देशात्तस्मात् प्रयान्ति वै ॥७॥
ते गता[^१२] राक्षसैर्भूयो भूयो वृक्षैर्दुरासदैः ।
यात्यन्ते[^१३] वर्षकोटीस्तु तत्र पञ्च सुदुःखिताः ॥८॥
ततो विमुक्तास्तेभ्यस्ते उच्छ्रयान् संविशन्ति हि ।
विश्रान्तास्तत्र ते सर्वे[^१४] उच्छ्रयान्नरके पुनः ॥९॥
पात्यन्ते विवशा मूढा यावत् पापं क्षयं गतम् ।
ये तु तं नरकं घोरं नरा गच्छन्ति पापिनः ॥ 8.41.१० ॥
तांस्तेहं सम्प्रवक्ष्यामि शृणुष्वावहितो द्विज ।
वृक्षं यः पुत्रकृतकं विनाशयति दुर्मतिः ॥११ ॥
आरामे वाथ ग्रामे वा विक्रीणाति च दुर्मतिः ।
निष्पादितं तथा वृक्षमाश्रमे पथि वा पुनः ॥१२॥
तडागे वा तथोद्याने देवतायतनेषु वा ।
गृहे प्रपायामथवा नद्यास्तीरे चतुष्पथे ॥ १३ ॥
यत्र वा तत्र वा जातं[^१५] यो नाशयति दुर्मतिः ।
पादपान् गुल्मवल्लीर्वा क्षुपानथ तृणान्यपि ॥ १४॥
छायापुष्पफलार्थं हि[^१६] स्वकार्यकरणाय वा[^१७] ।
विनाशयति यो मूढः स च तं प्रतिपद्यते ॥१५॥
वै कटकेन - क. । ७ कर्मपाकनिबन्धनाः - ख । ८ पाद्यन्ते च महायसि-घ । ९ संश्रयन्ति -ख। १० स्म पतन्त्युत - क. । ११ विनिवृत्तानि - ख. । १२ गत्त्वा - घ. । १३ पात्त्यन्ते - च. । १४ सत्त्वा - घ। सर्वादुच्छ्रया… - क. । १५ तान् - घ. । १६ फलैर्युक्तं - क. । १७ च - घ. ।
यश्चापहरते[^१८] मूलं[^१९] पुष्पाणि च फलानि च ।
आत्मार्थं कामसम्पत्तौ[^२०] न देवपितृकारणात्[^२१] ॥ १६॥
नदीं यश्चावरुध्नीयात् कूपान्यश्च प्रपूरयेत् ।
यश्च पर्णत्वचामर्थे[^२२] वृक्षं छिन्द्यान्नराधमः ।
विनाशयेद्वा तं वृक्षं स च तं प्रतिपद्यते ॥ १७॥
यश्च छायासमासन्नान्[^२३] जन्तून् वै सम्प्रबाधते ।
स्वस्थानं च समासन्नान् त्रासयेद्वारयेदपि ॥१८॥
सर्वे ते तं प्रपद्यन्ते[^२४] सोच्छ्रयं नरकं महत् ।
उत्तीर्णाश्च ततो भूयः संसारं यान्ति तेशुभाः[^२५] ॥ १९॥
य इमं शृणुयादतन्द्रितात्मा नरकं पापकृतामशर्मभूतम् ।
न स तं समुपैति पुण्यकर्मा[^२६] विदितात्मा ह्यसिपत्रनामधेयम् ॥8.41.२० ॥
इति स्कन्दपुराणे नरकवर्णने असिपत्रवनं नाम एकचत्वारिंशोध्यायः