४०

सुशर्मोवाच
अतः परं प्रवक्ष्यामि कुम्भीपाकं महाभयम् ।
श्रोतॄणामपि तत्कालम्१ भयदं ह्यकृतात्मनाम् ॥१ ॥

आयस्यस्तत्र ब्रह्मणश्च अञ्जनाचलसन्निभाः ।
कुम्भ्यस्तैलेन२ सम्पूर्णा वह्निवर्णाः३ सुदुःसहाः ॥२ ॥

दुष्कृतीन्४ तासु तप्तासु५ बद्ध्वा बद्ध्वा महाबलाः६ ।
क्षिपन्ति७ राक्षसा घोराः८ क्रन्दमानाः सुभैरवम् ॥३ ॥


श्रेष्ठं - घ. । १४ आकोश… - क. । १५ कालसूत्रकम् - ख. । १६ मृत्युवदनात् - ख. । १७… रविश्रान्तै - ख. । १८ रात्रावतन्द्रिताः - ख,… तं - क. । १९ गते काले - घ. । २०… राश्रयं - घ. । २१ जन्तुर्जायते - घ. । २२ गच्छति - ख. ।
यं श्रुत्वा - ख. । २ कुम्भास्तैलस्य - क. । ३ वह्नितप्ताः - ख. । ४ दुष्कृतीनां - क. । ५ सुतप्ताश्च - क., ६ भयावहाः - क., महाबलैः - ख. । ७ क्षिप्यन्ते - ख. । ८ राक्षसैर्घोरैः - ख. ।


वर्षकोटीश्चतस्रश्च९ पच्यन्ते तत्र जन्तवः ।
ये तानिमान्निबोध त्वमुच्यमानान्मया विभो ॥४॥

इष्टकापाककारी१० च कुम्भपाककरस्तथा११ ।
तौ विनाशयते यश्च अग्निदो यो१२ गृहेषु च ॥ ५॥

वने खलेथ गोष्ठे वा अन्नपानविनाशकः ।
भोजने विघ्नकारी च यज्ञहा यज्ञदाहकः ॥ ६॥

कूटकर्मकरो यश्च कूटसाक्षी तथैव च ।
मिथ्याग्निचयनी चैव मिथ्याग्न्याहरणी तथा ॥७॥

मिथ्यापाकप्रदाता च वेदानां यश्च दूषकः ।
हर्तोपकरणानां च शिल्पिनां यो नराधमः ॥८॥

एवं ते यातितास्तत्र विश्रामं पुनरुच्छ्रये ।
सम्प्राप्य नरके भूयो निपतन्ति क्षयान्तिकम् ॥९॥

य इमं बहुदुष्कृतान्तपाकं शृणुयाद्वा मनुजो हि कर्मपाकम् ।
न स गच्छति तं दुरात्म१३ पाक१४ नरकं साधनदुःखकुम्भिपाकम्१५ ॥8.40.१०॥

इति स्कन्दपुराणे नरकवर्णने कुम्भीपाको नाम चत्वारिंशोध्यायः